१३ ०१ अथैतदपरन् तूष्णीमेव
१३ ०१ अथैतदपरन् तूष्णीमेव ...{Loading}...
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Now this (is) another (way for performing the Samāvartana). He bathes silently at a bathing-place and puts silently a piece of wood on (the fire).
हरदत्त-प्रस्तावः
एवं स्नानस्य मुख्यकल्पं विधायानुकल्पं विदधाति–
हरदत्तः
व्याख्यातं स्नानकर्म गरीयश्च मुख्यं च । अथेदानीमेतदपरं स्नानविधानं लघीयश्च गौणं च व्याख्यायते । किं तत्? तूष्णीमेव तीर्थे भूमिष्ठे जले स्नाति । नोद्धृताभिश्शीताभिः । तूष्णीं च समिधमादधाति । न मन्त्रेण । पालाशी समित् । एतावदेव अस्मिन् विधौ कार्यम् । नान्यत् किञ्चित् “प्रागुदयात् व्रजम्” इत्यादिकम् । वपनादि तु लौकिकमधर्मकं भवति । तत्र प्रयोगः–केशश्मश्रुनखलोमानि वापयित्वा मेखलादण्डमजिनमित्यपनीय तूष्णीमेव तीर्थे स्नात्वा दन्तधावनमौदुम्बरेण काष्ठेन कृत्वा स्नानीयाच्छादितः पुनः स्नात्वा अहते वाससी परिधायाचम्याग्निमुपसमाधाय संपरिस्तीर्य पालाशीं समिधमग्निं मनसा ध्यायन्नाधाय मणिप्रभृतीन्यलङ्करणानि यथोपपादमुपादत्ते तूष्णीमेव सर्वम् ॥१॥
सुदर्शनः
अथापरमेतद् विधानम् । उच्यते इति शेषः । तीर्थे पुण्यनद्यादौ । समिधं पालाशीं, अविरोधात् । एवकाराच्चास्मिन् विधौ नान्यत्किञ्चिदनुष्ठेयम् । ननु–पूर्वस्मिन्नेव विधौ स्नानसमिदाधानयोरन्यः प्रकारो वै कल्पिक इति किमिति नास्थीयते ? उच्यते— एवकारवैयर्थ्यप्रसङ्गात्, स्नानसमिदाधानयोरिह व्युत्क्रमेणाभिधानात्, अस्य सूत्रस्य बह्वक्षरत्वाच्च । यदि ह्ययं पूर्वस्मिन्नेव विधौ वैकल्पिकोऽभिप्रेतोऽभविष्यत्, तदा तत्रैव “पालाशीं” समिधमुत्तरयाधाय तूष्णीं वा" “एवंविहिताभिरेवाद्भिरुत्तराभिः षड्भिः स्नात्वा तीर्थे वा तूष्णीम्” इत्यल्पैरेवाक्षरैरसूत्रयिष्यत् । किञ्च सूत्रकाराणां नैवेयं शैली दृष्टचरी-यदुत साङ्गं प्रधानमुक्त्वा पश्चादथादिना सूत्रेण वैकल्पिकानां प्रकारभेदानामभिधानमिति । एवमेव “अथैतदपरं दध्न एवाञ्जलिना जुहोति (आप. गृ.२२-१०.) इत्यस्यापि व्याख्यानम् । प्रयोगस्तु—ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा, वासोऽन्तरपरिधानादि कृत्वा, श्रोत्रियागारादग्निमाहृत्य “यत्र क्व चाग्निम्” इति विधिनोपसमाधाय, तत्र प्रजापतिं मनसा ध्यायन् तूष्णीमेव समिधमादधाति । केचित्–केशश्मश्रु वपनादिकमन्यदप्यविरोधि तूष्णीमेव करोतीति ॥१॥
मूलम् ...{Loading}...
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति ।
१३ ०२ यत्रास्मा अपचितिम्
१३ ०२ यत्रास्मा अपचितिम् ...{Loading}...
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 He sits down on a bunch of grass, as stated above (comp. M. II, 9, 7), at a place where they are going to honour him (with the Argha reception).
हरदत्तः
उक्तयोरन्यतरेण स्नातको भवति । तस्यास्मिन् काले बन्धुभिरपचितिः कार्या; गोमधुपर्कार्हो वेदाध्याय इति वचनात् । आवेद्यार्घ्यं दद्याद् (बौ.गृ.१-२-१) इति कल्पान्तरम् । साधु व्रतस्नातमर्घयिष्यामो भवन्तमिति निगदेनावेदनं कौषीतकिनस्समामनन्ति । “विष्टरं पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते” (आश्व. गृ. १-२१-६.) इत्याश्वलायनः । तत्र यत्र देशेऽस्मै अपचितिं कुर्वन्ति बान्धवाः, तत्र तैर्दत्ते **कूर्चे उपविशति यथापुरस्ताद् **उपनयने आचार्यः । कूर्च प्रत्तमुपादायोदगग्रं निधाय तस्मिन् “राष्ट्रभृदसी"त्यनेनोपविशतीत्यर्थः ॥२॥
सुदर्शनः
यत्र यस्मिन् स्वधर्मयुक्तस्य कुटुम्बिनो गृहे आतिथ्यार्थमागताय अस्मै स्नातकाय अपचितिं पूजां मधुपर्काख्यां कुर्वते कुटुम्बिनः । बहुवचनं चानुपादेयगतत्वादविवक्षितम् । अत एवोत्तरत्र प्राहेत्येकवचनम् । तत् तत्र गृहे तैर्दत्ते कूर्च उपविशति । यथापुरस्तात् उपनयने आचार्यः “राष्ट्रभृदसि” इति यजुषा उपविशति तथा उपविशेदित्यर्थः ॥२॥
मूलम् ...{Loading}...
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात्।
१३ ०३ एवमुत्तराभ्यां यथालिङ्गम्
१३ ०३ एवमुत्तराभ्यां यथालिङ्गम् ...{Loading}...
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- A king and a chieftain (sit down) in the same way (as a Brāhmaṇa), with the next two (formulas, M. II, 9, 8. 9), according to the characteristics (contained in them).
हरदत्तः
एवं राजा स्थपतिश् च यथा ब्राह्मणः स्नातकः कूर्चे उपविशति । यथालिङ्गमाचार्यासन्दीति । एवं राजा स्थपतिश्च पूज्यमानौ उत्तराभ्यां यजुर्भ्यां यथालिङ्गमुपविशतः । तत्र क्षत्रियो राष्ट्राधिपतिरभिषिक्तो राज्याय साम्राज्यं तस्य लिङ्गम् । स एव जनाधिपतिः । स्थापत्त्यायाभिषिक्तः स्थपतिः । आधिपत्यं तस्य लिङ्गम् । उत्तराभ्यां राजा स्थपतिश्चेत्येव सिद्धे “एवं” “यथालिङ्गम्” इत्युच्यते– यथा प्रथमस्य मन्त्रस्य लिङ्गात् विनियोगः एवमुत्तरयोरपि प्रज्ञापनार्थम् । तेन प्रथमो मन्त्रो ब्राह्मणस्यैव भवति । आचार्यासन्दीति लिङ्गात् । ब्राह्मण आचार्यः स्मर्यत इति चोक्तत्वात् । तेन क्षत्रियवैश्ययोः तूष्णीमुपवेशनम् । तत्र “आचार्यायर्त्विजे श्वशुराय राज्ञ"इति राज्ञोऽपचितिः । अधिपतेस्तु श्वशुरत्वेनापचितिः ॥३॥
सुदर्शनः
यथा ब्राह्मणः पूज्यो मन्त्रेणोपविष्टः, एवं राजा स्थपतिश्चोत्तराभ्यां यथालिङ्गं “राष्ट्रभृदसि सम्राडासन्दी” इति राजा, “राष्ट्रभृदस्याधिपत्न्यासन्दी” इति स्थपतिश्चोपविशेदित्यर्थः । राजा च क्षत्रिय एव, न तु प्रजापालनकर्ता ऽन्यवर्णोऽपि । ननु क्षत्रिये राजशब्दप्रयोग आन्ध्राणां, आर्याणां तु प्रजापालनादिकर्तर्येव, तत्कथं बलवदार्यप्रयोगबाधेन राजा क्षत्रिय एवेति? मैवम् । आर्यवरस्य भगवतः पाणिनेः गणपाठे “राजासे” इति विशेषस्मरणस्यान्ध्रप्रयोगमूलत्वमेव युक्तमिति अवेष्ट्यधिकरणे साधितत्वात् । स्थपतिश्च महदाधिपत्यं प्राप्तोऽन्यवर्णोऽपि । अन्ये–वैश्यः स्थपतिरिति । केचित्तु–क्षत्रिय एव राज्याभिषिक्त इति ॥३॥
मूलम् ...{Loading}...
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ।
१३ ०४ आपः पाद्या
१३ ०४ आपः पाद्या ...{Loading}...
आपः पाद्या इति प्राह ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The host) announces (to the guest), ‘The water for washing the feet!’
हरदत्तः
अथ मधुपर्कप्रदाता पादप्रक्षालनार्थं अप उपसंगृह्य “आपः पाद्या” इति प्राह ॥४॥
सुदर्शनः
अथ अपचेता पादप्रक्षालनार्था अप उपसङ्गृह्य “आपः पाद्याः” इति प्राह । एतच्च सम्वादवचनं अनन्तरं यत्कर्तव्यं तत्कुर्वित्येवमर्थम् । एवमेव प्रयोजनं “अर्हणीया आपः” इत्यादिष्वपि ॥४॥
मूलम् ...{Loading}...
आपः पाद्या इति प्राह ।
१३ ०५ उत्तरयाऽभिमन्त्र्य दक्षिणम्
१३ ०५ उत्तरयाऽभिमन्त्र्य दक्षिणम् ...{Loading}...
उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यँ शूद्राय।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 (The guest) should recite the next (verse, II, 9, 10) over (that water) and should stretch out the right foot first to a Brāhmaṇa, the left to a Śūdra.
हरदत्तः
अथ पूज्यमानस्ता अपः उत्तरयर्चा “आपः पादावनेजनी"रित्येतयाऽभिमन्त्र्य प्रक्षालयित्रे “ब्राह्मणाय” दक्षिणं पादं पूर्वं प्रयच्छेत् प्रसारयेत् । सव्यं शूद्राय क्षत्रियवैश्याभ्यामनियमः । पुंलिङ्गस्याविवक्षितत्वात् । स्त्रीष्वप्येवम् । “स्त्री प्रक्षालयति पुमानभिषिञ्चति । विपरीतमेके” (बौ. गृ.१-२.) इति कल्पान्तरम् । पत्नीयजमानौ जङ्घे धावत इति यज्ञे विशेषः । आपः पाद्या इति प्रकरणादेव सिद्धे पादग्रहणमुत्तरत्र पादप्रत्ययो माभूदित्येवमर्थम् । तेन प्रक्षालयित्रुपस्पर्शनं पादे न भवति ॥५॥
सुदर्शनः
अथ पूज्यस्ता अपः “आपः पादावनेजनीः” इत्येतयाऽभिमन्त्र्य प्रथमं दक्षिणं पादं ब्राह्मणाय प्रक्षालयित्रे प्रयच्छेत् । शूद्राय तु पूर्वं सव्यम् । अत्र ब्राह्मणशूद्रावेव प्रक्षालयितारौ, न तु राजन्यवैश्यौ; तयोरनभिधानात् । अन्ये तु– क्षत्रियवैश्याभ्यां अनियमेन पूर्वं पादं प्रयच्छेदिति ॥५॥
मूलम् ...{Loading}...
उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यँ शूद्राय।
१३ ०६ प्रक्षालयितारमुपस्पृश्योत्तरेण
१३ ०६ प्रक्षालयितारमुपस्पृश्योत्तरेण ...{Loading}...
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽऽत्मानं प्रत्यभिमृशेत् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having touched the person who washes him, he should touch himself (i.e. his own heart) with the next (formula, M. II, 9, II).
हरदत्तः
तथा स्वेन हस्तेनावनेक्तुः पाणी संस्पृशेद् (बौ.गृ.१-२.) इति कल्पान्तरम् । उत्तरेण यजुषा “मयि महः” इत्यनेन प्रतीचीनमभिमर्शनम् । तच्च हृदयदेशे भवति । आत्मनः स्थानं हि तत् ॥६॥
सुदर्शनः
ततः प्रक्षालितपादस्तं प्रक्षालयितारं पाणावुपस्पृश्य “मयि महः” इति यजुषा आत्मानं हृदयदेशे प्रत्यभिमृशेत् प्रतिलोमेन पाणिना स्पृशेत् । ततोऽपामुपस्पर्शनम् ॥६॥
मूलम् ...{Loading}...
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽऽत्मानं प्रत्यभिमृशेत् ।
१३ ०७ कूर्चाभ्याम् परिगृह्य
१३ ०७ कूर्चाभ्याम् परिगृह्य ...{Loading}...
कूर्चाभ्यां परिगृह्य मृन्मयेना’र्हणीया आप’ इति प्राह ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The host, taking the Argha water) in an earthen vessel which he holds with two bunches of grass, announces (to the guest), ‘The Argha water!’
हरदत्तः
ततः प्रदाता मृण्मये पात्रे उपनीता अपः कूर्चाभ्याम् अधस्तादुपरिष्टाच्च परिगृह्य “अर्हणीया आप” इति प्राह निवेदयति । पुष्पाक्षतैस्संयुक्ता इति कल्पान्तरम् ॥७॥
सुदर्शनः
अथार्हयिता मृन्मये पात्र अर्हणार्थाः पुष्पाक्षतसंयुक्ताः अप आनीय, कूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्य “अर्हणीया आपः” इति प्राह ॥७॥
मूलम् ...{Loading}...
कूर्चाभ्यां परिगृह्य मृन्मयेना’र्हणीया आप’ इति प्राह ।
१३ ०८ उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश
१३ ०८ उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश ...{Loading}...
उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The guest) should recite the next (formula, II, 9, 12) over (that water) and should murmur the next Yajus (II, 9, 13), while a part (of the water) is poured over his joined hands.
हरदत्तः
अर्हणीया अपः निवेदिता उत्तरया “आमाग"न्नित्येतया अभिमन्त्रयते । पूज्यमानस्ततोऽञ्जलिं कृत्वा हस्तेन ततस् तस्याञ्जलौ एतासामेकदेशमानयति प्रदाता । तस्मिन्न् आनीयमाने उत्तरं यजुः “विराजो दोहोऽसी"त्येतत् जपेत् पूज्यमानः ॥८॥
सुदर्शनः
अथ पूज्यस्ता अपः “आमागन्” इत्येतयाऽभिमन्त्र्य तासामेकदेशे स्तोके स्वाञ्जलौ दात्रा आनीयमाने “विराजो दोहोऽसि” इति यजुर्जपेत् ॥८॥
मूलम् ...{Loading}...
उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ।
१३ ०९ शेषम्
१३ ०९ शेषम् ...{Loading}...
शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Over the rest (of the water) which is poured out towards the east, he recites the next (verse, M. II, 9, 14).
हरदत्तः
अथ तासामपां शेषं पूर्वस्यां दिशि नयति प्रदाता । तत् निनीयमानं उत्तरयर्चा “समुद्रं व” इत्येतयाऽभिमन्त्रयते पूज्यमानः । एतस्मिन् काले वस्त्रयुगलं कुण्डलयुगं गां स्रजं यच्चान्यदलङ्करणार्थं तत्सर्वं दद्यात् । भोजनान्त इत्यन्ये । तत्सर्वमपचितिशब्देन चोदितं द्रष्टव्यम् ॥९॥
सुदर्शनः
अथ तासां शेषं दात्रा नीयमानं पूज्यः “समुद्रं वः” इत्येतया अनुमन्त्रयते । केचित्— अस्मिन् काले भोजनान्ते वा पूज्याय वस्त्रकुण्डलयुगाद्यलङ्करणं दातव्यम् ; अन्यथाऽयं पूजित एव न भवति । एतच्चापचितिशब्देनास्माकमपि चोदितमेवेति ॥९॥
मूलम् ...{Loading}...
शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते ।
१३ १० दधि मध्विति
१३ १० दधि मध्विति ...{Loading}...
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य “मधुपर्क” इति प्राह ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The host) pours together curds and honey in a brass vessel, covers it with a larger (brass cover), takes hold of it with two bunches of grass, and announces (to the guest), ‘The honey-mixture!’
हरदत्तः
वर्षीयसा बृहता कांस्येन पात्रेण मधुपर्कं प्राह । कांस्येन वर्षीयसा पिधायेत्येवमपि सम्बन्धः । तेनोभयोः पात्रयोः कांस्यनियमः सिद्धो भवति । इतिशब्दः प्रकारे–दधि मध्विति वा पयो मध्विति वेति ॥१०॥
सुदर्शनः
दधि मध्वित्येतद् द्वयं नियमविधानात् कस्मिंश्चित्पात्रे संसृज्य, ततो वर्षीयसा बृहता कांस्येन पात्रेण पिधाय । शेषं व्यक्तम् । अन्ये तु अपिधानं कांस्यं प्रदर्शनार्थम्, तेनेतरदपि कांस्यमेवेति ॥१०॥
मूलम् ...{Loading}...
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य “मधुपर्क” इति प्राह ।
१३ ११ त्रिवृतमेके घृतम्
१३ ११ त्रिवृतमेके घृतम् ...{Loading}...
त्रिवृतमेके घृतं च ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some take three substances, (those stated before) and ghee.
हरदत्तः
त्रयाणां द्रव्याणां समुदायः त्रिवृत् । पूर्वोक्ते द्वे दधि मध्विति वा पयो मध्विति वा, घृतञ्च तृतीयम् ॥११॥
सुदर्शनः
त्रयाणां द्रव्याणां समाहारस्त्रिवृच्छब्देनोच्यते । तस्मिन् पक्षे पूर्वोक्ते दधिमधुनी घृतं च संसर्जनीयानि ॥११॥
मूलम् ...{Loading}...
त्रिवृतमेके घृतं च ।
१३ १२ पाङ्क्तमेके धानास्सक्तूंश्च
१३ १२ पाङ्क्तमेके धानास्सक्तूंश्च ...{Loading}...
पाङ्क्तमेके धानास्सक्तूंश्च।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Some take five, (the three stated before), and grains, and flour.
हरदत्तः
पञ्चानां द्रव्याणां समुदायः पाङ्क्तम् । दधि मधु घृतं धानास्सक्तवः इति ॥१२॥
सुदर्शनः
इहापि पञ्चानां समुदायः पाङ्क्तः । शेषं पूर्ववत् ॥१२॥
मूलम् ...{Loading}...
पाङ्क्तमेके धानास्सक्तूंश्च।
१३ १३ उत्तराभ्यामभिमन्त्र्य
१३ १३ उत्तराभ्यामभिमन्त्र्य ...{Loading}...
उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The guest recites the next two (formulas, M. II, 10, 1. 2) over (the honey-mixture) and sips water with the two Yajus (II, 10, 3. 4) before (eating) and afterwards; with the next (verse, II, 10, 5) he should partake three times (of the food) and should give the remainder to a person towards whom he is kindly disposed.
हरदत्तः
अथ तं मधुपर्कम् उत्तराभ्याम् ऋग्भ्यां “त्रय्यै विद्यायै, “आमागन्न्” इत्येताभ्यामभिमन्त्र्य पूज्यमानः प्रतिगृह्णाति । पाद्यादीनामभिमन्त्र्य प्रतिग्रहदर्शनात् मधुपर्कस्याभिमन्त्र्य प्रतिग्रहः, न प्रतिगृह्याभिमन्त्रणम् । ततस्तं “यन्मधुन” इत्येतया त्रिः प्राश्नाति । सकृन्मन्त्रेण द्विस्तूष्णीम् । ततः प्राशनस्य पुरस्तादुपरिष्टाच्च यजुर्भ्याम् अनन्तरपठिताभ्याम् “अमृतोपस्तरणमस्यमृतोपिधानमसी"त्येताभ्यां यथाक्रमं अप आचामति । तत्र प्रयोगः– अमृतोपस्तरणसीत्युपस्तरणीया अप आचम्य मधुपर्कं मन्त्रेण प्राश्याचम्य एवं द्विस्तूष्णीं प्राश्यापिधानीया अप आचामति । पश्चात् शौचार्थमाचमनम् । शेषं मधुपर्कप्राशनशेषं अनुकम्प्याय अनुग्राह्याय पुत्राय भ्रात्रे वा समावृत्तायैव प्रयच्छेत् । सोऽपि तं प्राश्नाति । सोमभक्षणे मधुपर्कप्राशने भोजने च मध्ये नोच्छिष्टतेति शिष्टाः स्मरन्ति ॥१३॥
सुदर्शनः
अथ पूज्यस्तं मधुपर्कं प्रतिगृह्यापिधानपात्रमपनीय “त्रय्यै विद्यायै” “आमागन् यशसा” इति द्वाभ्यामभिमन्त्र्य । “अमृतोपस्तरणमसि” इति यजुषा पुरस्तात् प्राशनादपः पिबति । तत आचम्य “यन्मधुनो मधव्यम्” इत्यनया त्रिः प्राश्नाति । द्विस्तूष्णीम् । ततः “अमृतापिधानमसि” इति यजुषा उपरिष्टाद् अप्यपः पिबेत् । अथाचम्य शेषम् अनुकम्प्याय अनुग्राह्याय पुत्रशिष्यादये समावृत्तायैव प्राशितुं प्रयच्छेत्; न तु ब्रह्मचारिणे, “न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्युः” (आप.ध.१-४-५.) इति निषेधात् । नन्विह मध्ये शुद्ध्यर्थमुपस्तरणानन्तरमाचमनं न कर्तव्यम्; अस्माकं वचनाभावात् । न्यायतोऽपि नैव ; भोजनवदपिधानान्तमेककर्मत्वात् । अपरथा भोजनेऽपि प्रतिग्रासमाचमनं प्रसज्येत । अथ सर्वदेशकालकर्तृव्याप्ताचारबलात्तत्कर्तव्यमिति चेत्, न ; अयमाचार उक्तलक्षणो न वेत्यर्वाचीनानां दुर्निश्चेयत्वात् । अत्रोच्यते– नायमाक्षेपः, बोधायनादिगृह्येषूपस्तरणानन्तरमाचमनविधिदर्शनेनास्माकमप्याचारः सर्वदेशादिव्यापीति निश्चेतुं सुशकत्वात् । उक्तं चैतत् “अथ कर्माण्याचाराद्यानि” (आप. गृ.१-१.) इत्यत्र गार्ह्याणीति स्वशब्दं विहाय, आचारादित्युपलक्षणतो व्याख्येयगार्ह्यकर्मनिर्देशात्, गृह्यान्तराद्युपदिष्टविषयोऽप्यस्मदीयानामाचारो वेदमूल एवेति । भोजने तु न प्रतिग्रासमाचमनप्रसक्तिः ; क्वचिदपि वचनाभावात्, आचाराभावाच्च । सोमपाने पुनः “न सोमेनोच्छिष्टा भवन्ति” इति वचनादन्तेऽपि नैवाचमनम् । अपि चैतदाचमनम् शिखाबन्धनादिवत् कर्तुः संस्कारकम्, सन्निपाति च अनुक्तमप्यपेक्षितमन्यतो ग्राह्यमिति न्यायविदः । तस्मादिहोपस्तरणानन्तमाचमनं कार्यमेव । केचित्– बौधायनादिभिरुपस्तरणापिधानयोस्तदर्थानां चापां निवेदनस्य पृथगुपदेशात् उपस्तरणादूर्ध्वमाचमनविधानाच्च उपस्तरणादेः बहिरङ्गत्वेन कर्मान्तरत्वावगतेर्युक्तं तेषां प्राशनात्त्प्रागप्याचमनम् । अस्माकं तु तथाविधोपदेशाभावात्, अन्तरङ्गत्वेन उपस्तरणाद्यपिधानान्तं भोजनवदेकं कर्मेति मध्ये शुद्ध्यर्थमाचमनं न युक्तमिति । मैवम् ; यतोऽस्माकमपि “यजुर्भ्यामप आचामति” इति शब्दान्तरेणाचमनयोः पृथगेवोपदेशः । अस्मादेव पृथगुपदेशात्तदर्थानामपामावेदनं चाक्षेप्यम् । अतोऽस्माकं तेषां चोपदेशे वैषम्याभावात्तुल्ययोगक्षेममेवाचमनम् ॥१३॥
मूलम् ...{Loading}...
उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ।
१३ १४ प्रतिगृह्यैव राजा
१३ १४ प्रतिगृह्यैव राजा ...{Loading}...
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- A king or a chieftain should only accept it and (give it) to his Purohita.
हरदत्तः
एवकारात् प्राशनमकृत्वा पुरोहिताय प्रदानम् । स विधिवत् प्राश्नाति ॥१४॥
सुदर्शनः
राजा स्थपतिश्च मधुपर्कं प्रतिगृह्यैव पुरोहिताय प्रयच्छेत् । एवकारादभिमन्त्रणमकृत्वा । अभिमन्त्रणादि तु प्रशनान्तं पुरोहितस्यैव । पुनश्चोत्तरं कर्म राजादेरेव ॥१४॥
मूलम् ...{Loading}...
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ।
१३ १५ गौरिति गाम्
१३ १५ गौरिति गाम् ...{Loading}...
गौरिति गां प्राह ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The host) announces the cow with (the word), ‘The cow!’
हरदत्तः
अथाचाम्योपविष्टाय गां निवेदयते गौरिति । स्त्री च गौर्भवति, गौर्धेनुभव्येति दर्शनात् । यद्वा पुमानपि भवति । श्रूयते हि— “तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन् वार्हति उक्षाणं वेहतं वा क्षदन्ते” इति । (ऐ. ब्रा. १-३-४.) एवमर्थमेवात्र गामित्युक्तं गोजातिमात्रस्य निवेदनं यथा स्यात् । अन्यथा गौरिति प्राहेत्येतावता सिद्धं यथा पाद्यदिषु ॥१५॥
सुदर्शनः
प्राशने कृते दाता “गौः” इति गां प्राह कथयति । गौश्च स्त्री, “गौर्धेनुभव्या” इति स्त्रीलिङ्गनिर्देशात् । एतच्च कथनं, किमियं गौस्संज्ञप्यतामुत्सृज्यतां वा? इति पूज्याभिप्रायनिश्चयार्थम् । स च स्वाभिप्रायं दातुर्ब्रूयात् ॥१५॥
मूलम् ...{Loading}...
गौरिति गां प्राह ।
१३ १६ उत्तरयाभिमन्त्र्य तस्यै
१३ १६ उत्तरयाभिमन्त्र्य तस्यै ...{Loading}...
उत्तरयाभिमन्त्र्य तस्यै वपाँ श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- After the guest has recited the next (formula, M. II, 10, 6) over (the cow, the host) cools its omentum, and having performed the ‘spreading under’ and the sprinkling over (of Ājya), he sacrifices it with the next (verse, M. II, 10, 7) with a Palāśa leaf from the middle or the end (of the stalk).
हरदत्तः
अनुजानीयादित्यध्याहारः । कल्पान्तरे तथा दर्शनात् । ओं कुरुतेति कारयिष्यन् अनुजानीयादिति । प्रोक्तायां गवि तां उत्तरया “गौरस्यपहतपाप्मे"त्येतया पूज्यमानोऽभिमन्त्र्य । यद्यस्या आलम्भनमिच्छन् अनुजानीयात् । यद्यप्येक एवार्धर्चस्समाम्नायते तथापि स्त्रीलिङ्गनिर्देशादृगेवैषा गायत्री । तत्रामुष्येत्यस्य स्थाने प्रदातुर्नामनिर्देशः– मम च यज्ञशर्मणश्चेति ॥१६॥ ततः प्रदाता तेनालम्भनेऽनुज्ञाते लौकिक्याऽऽवृता तस्या गोरालम्भं कृत्वा वपामुत्खिद्य वपाश्रपणीभ्यां परिगृह्य औपासने पचने वा श्रपयित्वा तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरयर्चा” अग्निः प्राश्नात्वि"त्येतया तस्मिन्नेवाग्नौ जुहोति । उपस्तीर्याभिघारितामिति उपस्तरणाभिघारणे कृत्वेत्यर्थः । हुत्वा ततो मांसं संस्कृत्यान्नेन सह तस्मा उपहरन्ति । “अविकृतमातिथ्यम्” इति वचनात् उपस्तरणाभिघारणयोरप्रसङ्गे वचनम् । पलाशपर्णेनेत्येव सिद्धे मध्यमेनान्तमेनेति वचनं द्विपर्णस्य पलाशवृन्तस्य पर्णेन होमो मा भूदिति । अभावविकल्पार्थं वापूर्वं मध्यमेन तदभावे अन्तमेनेति ॥१७॥
सुदर्शनः
यदि प्रतिगृहीता संज्ञपनमिच्छेत्, तदा “गौरस्यपहतपाप्मा” इत्येतयाऽनवसानया गामभिमन्त्रयते । अमुष्येत्यस्य स्थाने चार्हयितुर्नाम विष्णुशर्मण इति गृह्णाति । ततस्सुखमासीत् । दातुरेव वपाहोमान्तं कर्म । अभिमन्त्र्येति च क्त्वाप्रत्ययः क्रियाविधानमात्रार्थं एव, न तु समानकर्तृकत्वार्थः । तस्यै तस्याः संज्ञपनं कृत्वा, वपाम् उत्खिद्य, श्रपयित्वा, मध्यमेनान्तमेन वा पलाशपर्णेन लौकिकेनाज्येनोपस्तीर्य कृत्स्नां वपां सकृदेवावदायाभिघार्य “अग्निः प्राशनातु” इत्येतया तेन पर्णेन स्वाग्नौ जुहोति । तत्र च मध्यमेनान्तमेन वेति वचनं द्विपर्णप्रतिषेधार्थमभावविकल्पार्थं वा । शिष्टैश्चावदानैस्संस्कृतैस्सहान्नं भोजयेत् । अयं च संज्ञपनपक्षः कलियुगानाचारेषु पठितत्वादिदानीं त्याज्य एव ॥१६॥
मूलम् ...{Loading}...
उत्तरयाभिमन्त्र्य तस्यै वपाँ श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ।
१३ १७ यद्युत्सृजेदुपांशूत्तराञ्
१३ १७ यद्युत्सृजेदुपांशूत्तराञ् ...{Loading}...
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If the guest chooses to let (the cow) loose, he murmurs the next (formulas, II, 10, 8-11) in a low voice (and says) loudly, ‘Om! Let it loose!’ (II, 10, 12).
हरदत्तः
अथ यदि गामुत्सृजत्ययं पूज्यमानः स गौरिति प्रोक्ते मन्त्रानुत्तरांश्चतुरो “यज्ञो वर्धताम्” इत्युपांशु जपति । जपित्वा “ओमुत्सृजते” त्युच्चैः प्रसौति । प्रदाता च तामुत्त्सृज्यान्यत् मांसं कल्पयति, “नामांसो मधुपर्को भवति” (आश्व. गृ.१९-२८.) इति कल्पान्तरात् । तत्र पुङ्गवालम्भे गौर्धेनुभव्यामातारुद्राणामेतयोर्लोपः लिङ्गविरोधात्, नेत्यन्ये । जपत्वादेव सिद्धे उपांशुवचनं नियमार्थम्–उत्तरे चत्वार एव मन्त्राः उपांशु वक्ततव्याः । न प्रणव इति । शास्त्रान्तरदर्शनात् प्रसङ्गः । प्रणवाद्युच्चैः, ऊर्ध्वं वा प्रणवात् इति । तेन ब्रह्मणः एवैष विकल्पः सिद्धो भवति । इह प्रसवविधेरभावेऽपि उच्चैरिति वचनादेव प्रसौतिर्द्रष्टव्यः ॥१८॥
सुदर्शनः
यदि पूज्यो गामुत्सृज्यमानामिच्छेत् । अयं च कामप्रवेदने लिङ् । तदोत्तरान् त्रीन् मन्त्रान् “यज्ञो वर्धताम्” इत्यादिकान् “उपांशु जपित्वा ओमुत्सृजत” इत्युच्चैः, प्रब्रूयादिति शेषः । केचित्– यज्ञ इत्यादिकाश्चत्वारो मन्त्रा इति । इयं च गौरुत्सर्जनपक्षेऽपि भोक्तुरेव ॥१७॥
मूलम् ...{Loading}...
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः ।
१३ १८ अन्नम्
१३ १८ अन्नम् ...{Loading}...
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्यों कल्पयतेत्युच्चैः ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (In this case) he recites the next (formulas, M. II, 10, 13-17) in a low voice over the food which is announced to him (instead of the cow), (and says) loudly, ‘Om! Make it ready!’ (II, 10, 18).
हरदत्तः
अथान्नं सामिषं समाहृत्य तस्मे प्राह– भूतमिति । सिद्धेऽन्ने भूतमिति प्राह (बौ.गृ. १-२-५५.) इति कल्पान्तरम् । अस्माकं च वैश्वदेवे । तस्मात् भूतमित्येव निवेदनम् । तदन्नं प्रोक्तमुत्तरैः पञ्चभिर्मन्त्रैर्भूतमित्यादिभिः भोक्तोपांश्वभिमन्त्र्य ओंकल्पयतेत्युच्चैः प्रसौति । प्रसूताः परिवेष्टारः परिवेविषन्ति चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेति ब्रूयात्तेषु भुक्तवत्स्वन्नमस्मा उपाहरन्तीति (बौ. गृ. १-२.) कल्पान्तरम् ॥१९॥
सुदर्शनः
अथ दाता सिद्धमन्नं “भूतं” इति मन्त्रेण पूज्याय प्रब्रूयान्निवेदयेत् । कुत एतत्? “सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात्” (आप. ध.२-३-१०.) इति वैश्वदेवे दर्शनात् । मधुपर्कप्रकरण एव “सिद्धेन्ने तिष्ठन् भूतमिति प्राह” इति कल्पान्तराच्च । एवं प्रोक्तमन्नं भोक्ता उत्तरैर्मन्त्रैः “सुभूतम्” इत्यादिभिः पञ्चभिरभिमन्त्र्य, ॐ कल्पयतेत्युच्चैः । अत्राप्यनुजानीयादिति शेषः । ततो भोजनं ; अन्ननिवेदनस्य दृष्टार्थत्वात्, आचाराच्च ॥१८॥
मूलम् ...{Loading}...
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्यों कल्पयतेत्युच्चैः ।
१३ १९ आचार्यायर्त्विजे श्वशुराय
१३ १९ आचार्यायर्त्विजे श्वशुराय ...{Loading}...
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- For his teacher, for a Ṛtvij, for his father-in-law, for a king he ought to perform this (Arghya ceremony) as often as they visit his house, if at least one year has elapsed (since they came last).
हरदत्तः
आचार्यादयः प्रसिद्धाः । तेभ्यश्चतुर्भ्यः परिसंवत्सरं विप्रेष्योपतिष्ठद्भ्यः गृहमातिथ्येनागतेभ्यः एतदपचितिकर्म कूर्चादि भोजनान्तं कर्तव्यम् । केन? गृहस्थेन । निवेशे हि वृत्ते नैयमिकानि(?) श्रूयन्ते अग्निहोत्रमतिथयः इति वचनात् । अत्र केचिदाहुः– आचार्यायर्त्विजे श्वशुराय राज्ञ इत्येतत्कार्यम् । इत्येको योगः । अथ परिसंवत्सरादुपतिष्ठद्भ्यश्चायं कार्यः इति । तेन विवाहादनन्तरं आचार्यश्वशुराभ्यां निमन्त्र्यापचितिः कर्तव्या । ऋत्विजे च कर्मणि, राज्ञे चाभिषेकानन्तरम् । अथ तेभ्य एव संवत्सरं विप्रोष्योपगतेभ्यश्च कर्तव्यमिति ॥२०॥
सुदर्शनः
यदेतदर्हणं कूर्चादि भोजनान्तं गृहस्थेन स्नातकाय स्नानदिवस एवागताय कर्तव्यमिति विहितं, तदाचार्यादिभ्यः परिसंवत्सरात् संवत्सरादूर्ध्वं गृहमुपतिष्ठद्भ्यः उपागतेभ्यः पुनः पुनः कार्यं; न तु स्नातकवत्सकृत् । न चाप्यर्वाक्संवत्सरात् । अत्र चेतिशन्दश्चार्थः । ननु धर्मशास्त्रेऽगोमधुपर्करहो वेदाध्यायः । आचार्य ऋत्विक्स्नातको राजा वा धर्मयुक्तः । आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपाश्च । दधिमधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् । अभाव उदकम्, (आप.ध.२-८-५…९.) इति स्नातकायाचार्यायर्त्विजे उपाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थगवा सह मधुपर्को विहितः । किमर्थमिह पुनर्विधीयते? उत्यते इह विकल्पेन विहितस्य त्रिवृतः पाङ्क्तस्य च तस्मिन् गोमधुपर्के अवेदाध्यायाय श्वशुराय च दीयमाने च प्राप्त्यर्थम् । यत्तु तत्रैव “गौर्मधुपर्कश्च” इति पुनर्वचनं, तदाचार्यर्त्विदाध्यायश्वशुरराजभ्य एव परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः कार्यम्, स्नातकवेदाध्यायतिथिभ्यस्तु सकृदेवेत्येवमर्थम् ॥१९॥
मूलम् ...{Loading}...
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ।
१३ २० सकृत्प्रवक्त्रे चित्राय
१३ २० सकृत्प्रवक्त्रे चित्राय ...{Loading}...
सकृत्प्रवक्त्रे चित्राय।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- For a renowned teacher (of the Veda the ceremony should be performed) once.
हरदत्तः
सकृत्न प्रतिवतसरं कलौ गोरालम्भ्स्य न्षेधाद्रौरित्युत्त्का यज्ञो वर्धतामित्यादि जपेत्मध्यमन्त्रलोपः)प्रवक्त्रे वेदस्य वेदार्थस्य च चित्राय प्रसिद्धाय भिन्नसंशयायेत्यर्थः । एवं भूतायोपस्थिताय सकृदेतदपचितिकर्म कर्तव्यं, न प्रतिसंवत्सरमिति ॥२१॥
सुदर्शनः
प्रवक्ता यः पदवाक्यप्रमाणाभ्यां प्रकर्षेण वक्ति साधुशब्दानामुच्चारयिता, प्रमाणोपपन्नं व्याख्याता चेत्यर्थः । चित्रः प्रकाशः लोके प्रसिद्ध इत्यर्थः । इदं प्रवक्तुरेव विशेषणम् । तस्मै सकृदेवैतत् गार्ह्यगेरहितं कार्यम् । अयं च प्रवक्ता न वेदाध्यायः । स हि गोमधुपर्करहः । यस्सषडङ्गं वेदमधीते, अर्थाश्च जानाति स वेदाध्यायः । ननु सामयाचारिके गोमधुपर्के धर्मा नोपदिष्टाः, स कथं कर्तव्यः? उच्यते– नामधेयं धर्मग्राहकम् इति मीमांसकाः । तेन गृह्ये याज्ञिकप्रसिद्ध्या मधुपर्कसंशिके कर्मणि उपदिष्टा एव धर्माः “गोमधुपर्करहः” इत्यत्र मधुपर्कनाम्ना अतिदिश्यन्ते,“मासमग्निहोत्रं जुहोति” इतिवत् । “दधिमन्थो मधुमन्थः” (मधुपर्कः)(आप. श्रौ.६-३-२५.) इत्यत्र तु दक्षिणाद्रव्यस्य कर्मवद्धर्माकाङ्क्षा भावान्नातिदेशः । अत्र च वेदाध्यायातिथिपूजायामयं विशेषः, “दधिमधुसंसृष्टं मधुपर्कः” इति प्रत्यक्षविधानादतिदेशप्राप्तं त्रिवृत्त्वं पाङ्क्तत्वं च बाध्यत (आप.श्रौ.२-८-८.) इति । अयमत्र निश्चितोऽर्थः आचार्यायर्त्विजे वेदाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थाधिकगवा विना गार्ह्यः सामयाचारिको वा मधिपर्कः कार्यः । परिसंवत्सरादिपागतेभ्यः पुनः पुनः कार्यः । अवेदाध्यायाय श्वशुरायाधिकगवा विना गार्ह्यः अतिथिवरापचितेभ्यो वेदाध्यायेभ्यः सह गवा धर्मोक्तः । अवेदाध्यायाभ्यां तु वरापचिताभ्यां स्नातकाय च स्नानदिन एवागताय गवा विना गृह्योक्तो धर्मोक्तो वा । प्रकाशाय च प्रवक्त्रे विना गवा गार्ह्यः । आचार्यादिभ्यश्चतुर्भ्योऽन्येषां सकृदेवेति । केचित् अत्र योगविभागमाहुः । आचार्यादिभ्य; चतुर्भ्य एतत्कार्यमित्येको योगः । तेन विवाहानन्तरमाचार्यश्वशुराभ्यां निमन्त्र्यापि पूजा कार्या । अन्यथा संवत्सरमपि प्रोषिताभ्यां सकृदपि न सिध्येत् । ऋत्विजे च कर्मणि कर्मणि पूजा कार्या । राज्ञे चाभिषिक्ताय नियमेनैव । तथा “परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः” इत्यन्यो योगः । स्पष्टश्चायं सामयाचारिकेषु विभागः, “गोमधुपर्करहः” इति पूर्व विधाय, पश्चात् “आचार्याय” इत्यादिना पुनर्विधानात् । पूर्वयोगे च श्वशुरशब्दो निपातयितव्यः । न चात्रान्यतरविध्यारम्भो व्यर्थः । सामयाचारिकेषु सर्वाचरणार्थेन विहितायां पूजायां, गार्ह्यस्यास्मदीयानां धर्मातिदेशार्थत्वात् । न च नाम्ना धर्मातिदेशः, गोमधुपर्कशब्दयोः “मधुमन्थो मधुपर्कः” इतिवत् द्रव्याभिधायकत्वात् । अतोऽर्थभेदात् गृह्ये धर्मे च विध्यारम्भोर्थवान् । तथा वेदस्य वेदार्थस्य च प्रवक्त्रे च एतत्सकृत्कार्यमिति । तच्चिन्त्यम् ॥२०॥ इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने त्रयोदशः खण्डः ॥ पञ्चमश्च पटलस्समाप्तः ॥
मूलम् ...{Loading}...
सकृत्प्रवक्त्रे चित्राय।