१२ ०१ वेदमधीत्य स्नास्यन्
१२ ०१ वेदमधीत्य स्नास्यन् ...{Loading}...
वेदमधीत्य स्नास्यन् प्राग् उदयाद् व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारम् अपिधायास्ते १
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having studied the Veda, when going to take the bath (which signifies the end of his studentship), he enters a cow-shed before sunrise, hangs over its door a skin with the hair inside, and sits there.
हरदत्त-प्रस्तावः
पूर्वत्रोपनयनं व्याख्यातम् । उपनीतस्य च धर्मशास्त्रे “अथ ब्रह्मचर्यविधिः” (आप.ध.१-२-१८.) इत्यारभ्य धर्मा उपदिष्टाः । अध्यायकाण्डव्रतानामुपाकरणसमापनयोर्विधिश्च “उपाकरणे समापने च ऋषिर्यः प्रज्ञायते” (आप.गृ. ८-१०.) इत्यत्र सम्पूर्णमेव व्याख्यातः । अथेदानीं, वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ (याज्ञ.स्मृ.१-५१.) इत्यादिवचनार्थानुष्ठानेन कृतकृत्यस्य गुरुकुलात् समावृत्तस्यानुष्ठेयं समावर्तनापरपर्यायं स्नानाख्यं कर्म व्याख्यायते । केचित् “उपाकरणे समापने च” (आप.गृ.८-१) इत्यत्रैतयोः कल्पस्याप्रसिद्धत्वात्, अवश्यमन्यत्र प्रसिद्ध आश्रयितव्य इति वदन्तः “अथात उपाकरणोत्सर्जने व्याख्यास्यामः, इत्यादिकं व्रतपटलं नाम उपनयनानन्तरं व्याचक्षते । नैतत् ; “उपाकरणे समापने च” (आप.गृ.८-१.) इत्यत्रैवानयोर्विध्योर्भाष्यकारेण सम्पूर्णमेव व्याख्यातत्वात्, व्रतपटलाध्ययनस्य च विप्रतिपन्नत्वात्, भाष्ये प्रसङ्गभावाच्च ॥
हरदत्तः
एवमुपनीतश्चरितब्रह्मचर्योऽधीतवेदषडङ्गो यद्याचार्यकुलादन्यमाश्रमं प्रेप्सुर्भवति तस्य स्नानं नाम कर्मोपदिश्यते। यस्मिन् कर्मणि नियमेन विशिष्टं स्नानं विधिवत् भवति तदेतत् स्नानमित्युच्यते । स्नानं समावर्तनं तत् करिष्यन्नित्यर्थः । प्रागुदयाद् इत्यादित्योदयो गृह्यते । नैनमेतदहरादित्य इति दर्शनात् । **व्रजं गोष्ठम् । अन्तः अभ्यन्तरं लोमानि यस्य तेन चर्मणा यस्य कस्यचित् मृगस्य । आसनवचनं निष्क्रमणप्रतिषेधार्थम् । वेदम् इत्यविवक्षितमेकवचनम् । वेदं वेदौ वेदान् वा अधीत्य पाठतश्चार्थतश्चाधिगम्येत्यर्थः । स्नास्यन्निति वचनं नैष्ठिकस्य उत्तरं कर्म मा भूदिति ॥१॥
सुदर्शनः
वेदं मन्त्रब्राह्मणलक्षणम् । एकवचनं जात्यभिप्रायम् ; “वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्” ॥ (म.स्मृ.३-२) इति मनुवचनात् । अधीत्य पाठतश्चार्थतश्चाधिगम्य, सषडङ्गं समीमांसं वेदमधीत्येत्यर्थः । अधीत्येति च विधिः । “वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा । इत्यस्य प्रदर्शनार्थः । स्नास्यन् स्नानाख्यं कर्म करिष्यमाणः प्रागुदयात् प्रागादित्योदयात् । व्रजं गोशालां परिश्रितां प्रविश्येत्त्यादि व्यक्तार्थम् ॥१॥
मूलम् ...{Loading}...
वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपरिधायास्ते ॥
१२ ०२ नैनमेतदहरादित्योऽभितपेत्
१२ ०२ नैनमेतदहरादित्योऽभितपेत् ...{Loading}...
नैनमेतदहरादित्यो ऽभितपेत् २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- On that day the sun should not shine upon him.
हरदत्तः
एनं एतत्कर्म कुर्वाणम् । एतदहःएतस्मिन्नहनि कदाचिदपि नाभितपेदादित्यः । तेन मूत्रपुरीषादिकमपि तत्रैव व्रजे छायायामपि कर्तव्यम् । आदित्यग्रहणादग्नितापस्य न प्रतिषेधः ॥२॥
सुदर्शनः
अस्मिन्नहनि यावदस्तमयं मूत्रपुरीषोत्सर्जनार्थमप्यसौ मण्डपाद्बहिर्न निर्गच्छेतित्यर्थः ॥२॥
मूलम् ...{Loading}...
नैनमेतदहरादित्योऽभितपेत्।
१२ ०३ मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते
१२ ०३ मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...
मध्यन्दिने ऽग्नेरुपसमाधानाद्याज्यभागान्ते +++(शम्याः परिधिः, सकृत्पात्राणि मानुषाणि, स्नातक एव कर्ता)+++
पालाशीं समिधमुत्तरया +++(“इमं स्तोम"मित्येतया)+++ ऽऽधाय
अपरेणाग्निं कट एरकायां +++(कटप्रकृतिभूते तृणे)+++ वोपविश्य
उत्तरया +++(“त्र्यायुष"मित्येतया)+++ क्षुरमभिमन्त्र्योत्तरेण यजुषा +++(“शिवो नामासी"त्यनेन)+++ वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात् समानम् ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 At noon, after (the ceremonies) from the putting (of wood) on the fire down to the Ājyabhāga oblations (have been performed), he puts a piece of Palāśa wood on (the fire) with the next (verse; M. II, 7, 1), sits down to the west of the fire on a mat or on erakā grass, recites the next (verse, II, 7, 2) over a razor, and hands it over to the barber with the next Yajus (II, 7, 3). (The rites) beginning with the pouring together of (warm and cold) water down to the burying of the hair are the same as above (comp. M. II, 7, 4).
हरदत्तः
अथ तस्मिन्नहनि मध्यन्दिने कर्म प्रतिपद्यते । अग्नेरुपसमाधानादि । शम्याः । सकृत्पात्राणि क्षुरादिभिस्सह । स्वयमेव कर्ता नाचार्यः । आज्यभागान्तवचनं समिदाधानादेरुत्तरस्य कर्मणः कालोपदेशार्थम् । अनेनैव तन्त्रप्राप्तावपि सिद्धायां अग्नेरुपसमाधानादिवचनं तन्त्रारम्भस्यैव मध्यन्दिननियमः, न कृत्स्नस्य कर्मणः । उत्तरया ऋचा “इमं स्तोमम्” इत्येतया । न स्वाहाकारः, जुहोतिचोदनाभावात् । कटः प्रसिद्धः एरका तत्प्रकृतिभूतं तृणम् । कशिष्वित्यन्ये । उत्तरया ऋचा “त्र्यायुषम्” इत्येतया । क्षुरमभिमन्त्र्य । उत्तरेण यजुषा “शिवो नामासि” इत्यनेन । वप्ता नापितः नाचार्यः । तस्मै क्षुरं प्रदाय ततः"उष्णाः शीतास्वानीये"त्यादि यदपां संसर्जनादि कर्म केशनिधानान्तं तदुपनयनेन समानम्। किं? कारयतीत्यध्याहारः । केन कारयति? आचार्येण । यद्यप्याचार्यकुलादयं निवृत्तः, तथापि स्नान काले विवाहकाले च समवैत्याचार्यः । समानवचनसामर्थ्यात् । योऽस्यापचितस्तमितरया (आप.गृ.३-९.) इति च दर्शनात् । स्पष्टं चाश्वलायनके– अथैतान्युपकल्पयति समावर्तमानर्ः (र्त्यमाने) (आश्व.गृ.३-७-१.) इत्यादि । अन्ये त्वाचार्यकुल एव समावर्तनमिच्छन्ति । तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । एवमन्तमाचार्यकर्म ॥३॥
सुदर्शनः
यथा मध्यन्दिने प्रधानहोमा भवन्ति तथा कर्म कुर्यात् । अत्र तु तन्त्रोपदेशोऽस्याज्यप्रधान हविष्ट्वात् । “आज्यभागान्ते” इति च क्रमार्थम् । आज्यभागान्ते कृते समिदाधानमेव, न पुनरर्थकृत्यमपीति । अत्र च पात्रप्रयोगे दर्व्यादीनि द्वन्द्वम्, क्षुरकटादीनि सकृदेव, शम्याश्च परिध्यर्थे । केचित् दर्व्यादीन्यपि सकृदेवेति । पालाशीं पलाशवृक्षावयवभूताम् उत्तरया “इमं स्तोमम्” इत्येतया । कटः प्रसिद्धस्तृणमयः । एरका कटप्रकृतिभूतं पङ्क्तिकटाख्यं तृणम् । केचित् कशिप्विति । उत्तरया त्रियायुषम्** इत्येतया उत्तरेण यजुषा “शिवो नामासि” इत्यनेन । वप्त्रे वपनकर्त्रे कस्मैचिन् मन्त्रविदे ब्राह्मणाय तत् क्षुरं प्रयच्छति । केचित्– इहाप्याचार्यो वपनं प्रारभते, नापितस्तु वप्ता अस्मै प्रयच्छतीति । तदयुक्तम्- इहाचार्यस्यैवाभावात्, नापितस्यामन्त्रज्ञत्वाच्च । “अथानुवाकस्य प्रथमेन यजुषा” इत्यारभ्य “तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति” (आप.गृ.१०-८) इत्येवमन्तमुपनयनेन समानं, भवतीति शेषः ॥३॥
मूलम् ...{Loading}...
मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापाँ सँसर्जनाद्या केशनिधानात् समानम् ॥
१२ ०४ जघनार्धे व्रजस्योपविश्य
१२ ०४ जघनार्धे व्रजस्योपविश्य ...{Loading}...
जघनार्धे+++(=पश्चार्धे)+++ व्रजस्योपविश्य विस्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He sits down behind the cow-shed, takes the girdle off, and hands it over to a Brahmacārin.
हरदत्तः
अथोप्तकेशश्मश्रुनखो व्रजस्य जघनार्धे पश्चार्धे उपविश्य मेखलां विस्रस्य विमुच्य, कस्मैचित् ब्रह्मचारिणे प्रयच्छति ॥४॥
सुदर्शनः
अथोप्तकेशादिको व्रजस्य जघनार्धे पश्चार्धे उपविश्येत्यादि करोति ॥४॥
मूलम् ...{Loading}...
जघनार्धे व्रजस्योपविश्य विस्त्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ॥
१२ ०५ तां स
१२ ०५ तां स ...{Loading}...
तां स उत्तरेण +++(“इदमहममुष्यामुष्ये"त्यादिना)+++ यजुषोदौम्बरमूले दर्भस्तम्बे वोपगूहति ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The (Brahmacārin) hides it with the next Yajus (II, 7, 5) at the root of an Udumbara tree or in a tuft of Darbha grass.
हरदत्तः
प्रच्छादयति । उत्तरेण यजुषा “इदमहममुष्यामुष्ये"त्यादिना तत्रादश्शब्देषु नामग्रहणम्- इदमहं यज्ञशर्मणो गार्ग्यस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्य इति । अथ यदि वा स्यात् यज्ञशर्मणो गार्ग्यायणेति । दण्डाजिनयोरप्यस्मिन् काले त्यागः ।
सुदर्शनः
स तु ब्रह्मचारी तां मेखलां सूत्रोक्तदेशे उपगूहति अप्रकाशां करोति “इदमहं विष्णुशर्मणो गौतमस्य पाप्मानमुपगूहाम्युत्तरो विष्णुशर्मा द्विषद्भ्यः” इत्यनेन यजुषा । अत्र च स्नातुर्नामगोत्रे ग्राह्ये ॥५॥
मूलम् ...{Loading}...
तां स उत्तरेण यजुषोदौम्बरमूले दर्भस्तम्बे वोपगूहति।
१२ ०६ एवं
१२ ०६ एवं ...{Loading}...
एवं विहिताभिर्+++(पूर्ववत्संसृष्टाभिः शीतोष्णाभिः)+++ एवाद्भिरुत्तराभिष् षड्भिस् +++(आपोहिष्ठीयाभिः हिरण्यवर्णीयाभिश्च)+++ स्नात्वा
उत्तरया+++(“अन्नाद्याय व्यूहध्वम्"इत्यनया)+++ उदुम्बरेण दतो+++(दन्तान्)+++ धावते ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 With water of the description stated above he bathes with the six next (verses; II, 7, 6-11), and with the next (II, 7, 12) he cleanses his teeth with a stick of Udumbara wood.
हरदत्तः
एवंविहिताभिः पूर्ववत्संसृष्टाभिः शीतोष्णाभिरित्यर्थः । तत्र संसर्जने मन्त्रस्य लोपः वपनलिङ्गविरोधात्। एवकारः पौनर्वाचनिकः। उत्तराभिष्षड्भिः ऋग्भिः आपोहिष्ठीयाभिः हिरण्यवर्णीयाभिश्च । तत्र “यासु जात” इत्यासां ग्रहणम् । प्रतिमन्त्रं चाभिषेकः । दतो धावते दन्तेभ्यो मलमपनयति । उत्तरया ऋचा “अन्नाद्याय व्यूहध्वम्” इत्येतया ॥६॥
सुदर्शनः
एवंविहिताभिस् तूष्णीं मिश्रिताभिश्शीतोष्णाभिर् अद्भिः । “केशान् वपतु” इति मन्त्रलिङ्गविरोधात् एवकाराच्च न मिश्रणमन्त्रः । उत्तराभिष्षड्भिः “आपो हि ष्ठा” इति तिसृभिः, “हिरण्यवर्णाः” इति तिसृभिश्च । स्नाति अभिषिञ्चति । एतच्च षण्णामन्ते सकृदेव । केचित्– प्रत्यृचमिति । तन्न ; गुणार्थं प्रधानाभ्यासकल्पनमयुक्तमित्युक्त्वात् । अथोदुम्बरेण काष्ठेन दन्तेभ्यो मलं “अन्नाद्याय व्यूहध्वम्” इत्यनया अपनयति ॥६॥
मूलम् ...{Loading}...
एवं विहिताभिरेवाद्भिरुत्तराभिष्षड्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते।
१२ ०७ स्नानीयोच्छादितस्स्नातः
१२ ०७ स्नानीयोच्छादितस्स्नातः ...{Loading}...
स्नानीयाच्छादितस् स्नातः ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having bathed and shampooed his body with such ingredients as are used in bathing, (aromatic powder, &c.),
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम्)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम्)+++
मूलम् ...{Loading}...
स्नानीयोच्छादितस्स्नातः।
१२ ०८ उत्तरेन यजुषाऽहतमन्तरम्
१२ ०८ उत्तरेन यजुषाऽहतमन्तरम् ...{Loading}...
उत्तरेण यजुषाऽहतमन्तरं वासः परिधाय
सार्वसुरभिणा चन्दनेनोत्तरैर् देशताभ्यः प्रदायोत्तरयानुलिप्य
मणिं सौवर्णं सोपधानं सूत्रोतम् उत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य
+उत्तरया ग्रीवास्व् आबध्यैवम् एव बादरं मणिं मन्त्रवर्जं सव्ये पाणाव् आबध्य
+अहतम् उत्तरं वासो रेवतीस्त्वेति समानम् ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He puts on with the next Yajus (M. II, 7, 13) a fresh under garment, and anoints himself, after having given the salve in charge of the deities with the next (Mantras, II, 7, 14), with the next (verse, II, 7, 15) with sandal salve which is scented with all kinds of perfumes. With the next (verse, II, 7, 16) he moves about a gold pellet with its setting, which is strung on a string, three times from left to right in a water-pot; with the next (verse, II, 7, 17) he ties the (pellet) to his neck; in the same way, without Mantras, he ties a pellet of Bādara wood to his left hand, and repeats the rites stated above with a fresh upper garment, with the (verses), ‘May the rich’ (comp. above, IV, 10, 10; M. II, 7, 18).
हरदत्तः
ततः स्नानीयैः स्नानार्हैः क्लीतकादिभिः उच्छादितः उद्वर्तितः अपकृष्टमलः पुनरपि ताभिरेवाद्भिः स्नातः उत्तरेण यजुषा “सोमस्य तनूरसि” इत्यनेन अहतमन्तरं वासः येन कटिः प्रच्छाद्यते तदन्तरमित्युच्यते । येन बहिर्नीवि प्रच्छादनं उपवीतं वा क्रियते तदुत्तरमिति । तयोरन्तरं वासः परिधाय चतुर्थ्यानुलेपनं करोति । केन? चन्दनेन । कीदृशेन ? । सर्वसुरभिणा सर्वाणि सुरभि द्रव्याणि यत्र भवन्ति तत् सर्वसुरभि । सर्वसुरभिणा इति पाठे रूपसिद्धिर्मृग्या । तत्र पूर्वमुत्तरैर्मन्त्रैस्त्रिभिर्देवताभ्यः प्रयच्छति “नमो ग्रहाय” चेत्येवमादिभिः । तत उत्तरया “अप्सरस्सु यो गन्धः” इत्येतया आत्मनोऽनुलेपनम् । “मुखमग्रे ब्राह्मणो ऽनुलिम्पेत् बाहू राजन्य, उदरं वैश्यः, (आश्व.गृ.३-७-१०-१२.) इत्याश्वलायनः । अथ मणिमाबध्नाति ग्रीवासु प्रतिमुञ्चति । स च मणिः सौवर्णो भवति । उपदानेन च वैडूर्यादिनोपहितः । सूत्रोतः सूत्रेणोतः । सपाश इत्यर्थः । तं मणिं उत्तरयर्चा “इयमोषधे"त्येतया उदपात्रे त्रिः परिप्लावयति । सकृदेव मन्त्रः । अथ तं उत्तरयर्चा “अपाशोऽस्युर” इत्येतया ग्रीवास्वाबध्नाति । ग्रीवाशब्दोऽयं धमनिवचनः बहुवचान्तः तद्योगात् कण्ठे प्रयुज्यते । अस्यामृचि पृथिवी स्तूयते । तस्मादियमोषधिस् त्रायमाणेति भवितव्यम् । सकारलोपच्छान्दसः । अथ बादरं बदुरीबीजेन कल्पितम् एवमेव सूत्रोतमुदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य सव्ये पाणाव् आबध्नाति । तूष्णीमेव परिप्लावने च बन्धने च मन्त्रप्रतिषेधः । पुनर्मणिग्रहणादुपधानमस्य न भवति । सूत्रोतस्तु भवति । आबध्य मणिं तत उत्तरं वासः करोति अहतम् एव । तत्र रेवतीस्त्वेत्येवमादि कर्म समानमुपनयनेनैव प्रत्येतव्यम् । रेवतीस्त्वेत्येताभिरिति वा उत्तराभिरित्येव वा सिद्धे समानवचनमुपनयनवत् प्रयोगार्थम् । तेन उत्तराभ्यामभिमन्त्रयेत्यादि परिहितानुमन्त्रणान्तं गुरोः कर्म ॥७॥
सुदर्शनः
स्नानोपकरणैः क्लीतकमधूकचूर्णादिभिः उद्वर्तितदेहः आमल कपिष्टादिभिः स्नानीयैस्स्नातश्च भवति ॥७॥ “सोमस्य तनूरसि” इत्यनेन यजुषा अहतमन्तरं वासः अन्तर्वासोऽन्तरीयमित्यर्थः । तत् परिदधाति । अनेन सूत्रेणात ऊर्ध्वं स्नातकस्य नित्यमन्तर्वासो विधीयते । यजुः पुनः कर्मार्थमेव, प्रकरणाम्नानात् । ततस् सार्वसुरभिणा सर्वैः कस्तूरिकादिभिर्गन्धद्रव्यैर्वासितेन चन्दनेन अनुलिम्पतीति व्यवहितेन सम्बन्धः । कथमनुलिम्पति ? इत्यत्राहौत्तरैरित्यादि । “नमो ग्रहाय च” इत्यादिभिस्त्रिभिर्मन्त्रैः देवताभ्यश् चन्दनं पूर्वं प्रदाय, पश्चात् “अप्सरस्सु यो गन्धः” इत्यनया आत्मानमनुलिम्पति । मुखस्य चाग्रेऽनुलेपः, “मुखमग्रे ब्राह्मणो लिम्पेत्” (आश्व.गृ.३-७-१०.) इत्याश्वलायनगृह्यात्। देवताभ्यः प्रदानं च नमश्शब्देन, न तु मन्त्रान्तेन; नमस्कारस्यापि प्रदानार्थत्वात् । मणिं कीदृशं? सौवर्णं सुवर्णविकारम् । सोपधानं वज्रवैडूर्यादिना उभयतः परिगृहीतम् । सूत्रोतं सूत्रप्रोतम् “इयमोषधे त्रायमाणा” इत्येतया सकृदुच्चरितया उदपात्रे प्रदक्षिणम् अविरतं त्रिः परिप्लाव्य, उत्तरया “अपाशोऽस्युरो मे” इत्यादिकया “पुण्याय” इत्यन्तया त्र्यवसानया तं मणिं ग्रीवासु कण्ठे आबध्य, बदरीबीजमयं बादरं सूत्रोतमेव मणिम् एवमेवो**दपात्रे त्रिः प्रदक्षिणं तूष्णीं परिप्लाव्य, तूष्णीमेव सव्ये पाणावाबध्नाति । अहतमुत्तरं वासः परिधानीयमेव, न तु उत्तरीयम् । तदुपनयनेन समानम् । स्वयं परिदधाति, इहाचार्याभावात् । ततश्च “रेवतीस्त्वा” इति द्वाभ्यां परिधानीयं वासोऽभिमन्त्र्य “या अकृन्तन्” इति तिसृभिः परिधाय “परीदं वासः” इत्यनुमन्त्रयते । “रेवतीस्त्वेति समानम्” इति वचनबलाच्च मन्त्रस्थयुष्मदर्थलिङ्गबाध एव । यद्वा अन्यो विद्वान् ब्राह्मणः रेवतीस्त्वेति समानं करोति । कुतः पुनः “अहतमुत्तरं वासः” इत्यनेनापि परिधानमेवोच्यते नोत्तरीयम्? उच्यते–रेवतीस्त्वेति समानमुपनयनेनेति वचनात् उपनयने च “तिसृभिः परिधाप्य परिहतमुत्तरया, (आप.गृ.१०-१०.) इति परिधानार्थवासोऽवगमात् । पूर्वस्य “अहतमन्तरं वासः” इति चोदितत्वाच्च । उत्तरीयं तु “नित्यमुत्तरं कार्यम् (आप.ध.२-४-२२.) इत्यादिधर्मशास्त्रवचनादत्रापि सिद्धमेव । केचित्– इहोत्तरीयं विधीयते नैव परिधानीयम्; उत्तरमिति वचनात् । तथा आचार्य एव “रेवतीस्त्वा इत्याद्युपनयनेन समानं करोतीति । तन्न; परिधाप्य,परिहितम्” इत्यनुपपत्तेरेव । तथा आचार्यकुलान्निवृत्तेनेदं स्नानं क्रियते । तत्राचार्यकर्तृकत्वाप्रसक्तिरेव ॥८॥
मूलम् ...{Loading}...
उत्तरेन यजुषाऽहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देशताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवास्वाबध्यैवमेव बादरं मणिं मन्त्रवर्जं सव्ये पाणावाबध्याहतमुत्तरं वासो रेवतीस्त्वेति समानम्।
१२ ०९ तस्य दशायाम्
१२ ०९ तस्य दशायाम् ...{Loading}...
तस्य दशायां प्रवर्तौ+++(=कर्णालङ्कारौ सौवर्णौ)+++ प्रबध्य
दर्व्याम् आधायाज्येनाभ्यानायन्न् उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- To the skirt (of that garment) he ties two earrings, puts them into the (sacrificial spoon called) Darvi, offers the oblations (indicated by the) next (Mantras; M. II, 8, 1-8), pouring the Ājya over (the ear-rings), and enters upon (the performance of) the Jaya and following oblations.
हरदत्तः
तस्योत्तरस्य वाससो दशायां प्रवर्तौ कर्णालङ्कारौ सौवर्णौ प्रबध्य दर्व्यामाधायाज्येन उत्तरा अष्टौ प्रधानाहुतीर् जुहोति । अभ्यानायन् प्रवर्तयोरुपर्याज्येनानयनं कारयन्नित्यर्थः । अभ्यानयन् इति वा पाठः । अस्मिन् पक्षे सव्येन पाणिनाऽभ्यानयनम् । अभ्यानायमिति ण्मुलन्तस्य युक्तः । अभ्यानीयाभ्यानीयेत्यर्थः । सर्वथा प्रवर्तयोरुपर्यासिक्तेनाज्येन प्रधानहोमः । जयादिवचनं प्रवर्तावपनीय यथासिद्धं प्रतिपद्येतेत्येवमर्थम् ॥९॥
सुदर्शनः
**तस्य अनन्तरप्रकृतस्य वाससो **दशायां प्रवर्तौ **कुण्डले सौवर्णे प्रबध्य तावुपायेन दर्व्या अग्रे स्थापयित्वा । आज्येन इति परिभाषाप्राप्तानुवादोभ्यानयनाविधानार्थः । अभ्यानायमिति णमुलन्तोऽर्थपाठः । ततश्च स्वयमेव सव्येन हस्तेन स्थापितयोः प्रवर्तयोरुपरि आज्यमानीय तेनैवाज्येन **उत्तराः ** “आयुष्यं वर्चस्यम्” इत्याद्या अष्टौ प्राधानाहुतीर्हुत्वा, ततो दर्व्या अग्रात्तावपनीय यथाप्रसिद्धं जयादि प्रतिपद्यते । सूचनात् सूत्रमिति निर्वचनाच्च सूत्रे सर्वत्रानेकार्थविधिनिबन्धनो । वाक्यभेदोऽपि नैव दोष इत्युक्तम् “अग्निमिध्वा” (आप.गृ.१-१२.) इत्यत्र । केचित् – सव्येन हस्तेन अभ्यानायन्नन्येन वाभ्यानायन्निति पाठेन भवितव्यमित्याचक्षते ॥९॥
मूलम् ...{Loading}...
तस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते।
१२ १० परिषेचनान्तङ् कृत्वताभिरेव
१२ १० परिषेचनान्तङ् कृत्वताभिरेव ...{Loading}...
परिषेचनान्तं कृत्वा +एताभिर्+++(→"आयुष्यं वर्चस्यम्”)+++ एव दक्षिणे कर्ण आबध्नीतैताभिस् सव्ये १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the ceremonies) down to the sprinkling (of water) round (the fire), he should tie (one of the ear-rings) with the same (verses) to his right ear, and with the same (verses one) to his left ear.
हरदत्तः
परिषेचनान्तवचनमानन्तर्यार्थम् । तेनास्याहनि भोजनं न भवति । एताभिरेवाहुतिभिः आहुत्यर्थैर्मन्त्रैरित्यर्थः । वचनादेकं कर्म बहुमन्त्रं स्वाहाकारवांश्च मन्त्रः प्रयोज्यः । सव्ये चेत्युच्माने मन्त्राणां विभज्य विनियोगः स्यात् । तस्मात् पुनरेताभिरित्त्युक्तम् ॥१०॥
सुदर्शनः
परिषेचनान्तरमेव एताभिरेव “आयुष्यं वर्चस्यम्” इत्यष्टाभिरेव दक्षिणे कर्णे प्रवर्तयोरेकं आबध्रीत प्रतिमुञ्चेत् । तथान्यम् एताभिरेव सव्ये कर्णे । अत्र च होममन्त्राणामेव आबन्धनकरणत्वेन सूत्रवाक्यसादृश्यानुमितया श्रुत्यैव चोदितत्वात्तैराबन्धनमपि गौण्या वृत्त्या प्रकाश्यम् ऐन्द्रीवत् । तथैताभिरिति स्त्रीलिङ्गनिर्देशो बहुत्वादृचां ब्राह्मणग्रामवत् । न चात्र होमार्थानामेव आबन्धतार्थत्वेनापि विनियोगे देवदत्तीयेयं गौर्यज्ञदत्तीयेतिवद्विरोध । “पुरोडाशकपालेन तुषानुपवपति” इत्यादिवदधिष्ठानलक्षणया विनियुक्ताकारमतिरोधायापि विनियोगोपपत्तेः, ऋङ्मन्त्रविषये त्वनेकार्थत्वमपि नायुक्तमित्याग्नेय्यधिकरणे उक्तत्वाच्च । केचित् – एताभिरित्यनेन प्रकृताहुतिपरामर्शादाहुत्यर्था मन्त्रा लक्ष्यन्ते “पितॄणां याज्यानुवाक्याभिरुपतिष्ठते” इतिवदिति । मैवम्– यतः पूर्वत्रोत्तराहुतीरिति लक्षणया प्रकृतानां मन्त्राणामपि परामर्शो वरम्; नत्विहापि वाक्ये लक्षणा ॥१०॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये।
१२ ११ एवमुत्तरैर्यथालिङ्गं
१२ ११ एवमुत्तरैर्यथालिङ्गं ...{Loading}...
एवमुत्तरैर् यथालिङ्गं -
स्रजश् शिरस्य्
आञ्जनम्
आदर्शावेक्षणम्
उपानहौ
छत्रं
दण्डमिति ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way he should with the following (formulas, M. II, 8, 9-9, 5), according to the characteristics (contained in them), (put) a wreath on his head, anoint (his eyes), look into a mirror, (put on) shoes, (and should take) a parasol and a staff.
हरदत्तः
एवमुत्तरैरपि मन्त्रैर्यथालिङ्गं स्रगादीनि षट्द्रव्याण्युपयुञ्जीत यथार्हम् । तत्र “शुभिके शिर” इति द्वाभ्यां स्रजश्शिरसि बन्धनम् । यथालिङ्गवचनात् (द्वाभ्याम् “इमां तामपिनह्ये” इति) । स्रज इति षष्ठ्येकवचनम्, न प्रथमाया द्वितीयाया वा बहुवचनम् । इमां तामित्यकेवचनात् । शिरसीति वचनात् अंसयोर्न भवति । “न मालोक्ताम् । माले चेत् ब्रूयुः, स्रगित्यभिधापयीत” (आश्व.गृ.३८.१२.) इत्याश्वलायनः । अथ “यदाञ्जनं त्रैककुदम्” इति द्वाभ्यामञ्जनं अक्ष्णोरुपयुञ्जीत । तत्र द्वाभ्यामपि मन्त्राभ्यां पूर्व दक्षिणस्याञ्जनम् । अथ ताभ्यामेव सव्यस्य । यद्यपि “तेन वामाञ्जे” इति मन्त्रे द्विवचनं भवति । तथापि एवमित्यतिदेशसामर्थ्यात् प्रवर्तयोराबन्धनवत् क्रियाभ्यावृत्तिर् मन्त्राभ्यावृत्तिश्च भवति । तत्र सान्नाय्यकुमभीवत् द्विवचनं, यथा"अप्रस्नसंसाय यज्ञस्योखे उपदधाम्यह"मिति । अथादर्शस्यावेक्षणं “यन्मे वर्च” इत्येतया । अवेक्षणमित्यनुच्यमाने आदानमेव स्यादस्मिन् काले; “इदं तत्पुनरादद” इतिलिङ्गात् तस्मादवेक्षणग्रहणम् । ततः उपानहावुपमुञ्चते “प्रतिष्टे स्थ” इति यजुषा । आञ्जनवत् क्रियावृत्तिर् मन्त्रस्यावृत्तिश्च भवति । ततश्छत्रमादायात्मानमाच्छादयति “प्रजापतेश्शरणमसी"ति यजुषा । देवस्य त्वेति यजुषा दण्डमादत्ते । वैणवमित्याश्वलायनः ॥ (आश्व.गृ.३-८-१५.) ॥११॥
सुदर्शनः
यथा कर्ममध्ये समन्त्रकं प्रवर्त्तौ हि बद्धौ, एवमुत्तरैर्मन्त्रैर्यथालिङ्गं मन्त्रलिङ्गानुसारेण स्रगादिषट्कं आबध्नीत कर्तव्यमित्यादि यथार्हं वाक्यशेषः । तत्र “शुभिके शिरः” इत्यनयैकयैव शिरसि स्रजमाबध्नीत । “यामाहरत्” इत्येषा विकल्पार्था ; “एकमन्त्रणि कर्माणि” । “अवशिष्टा विकल्पार्थाः” (आप.प.१-४१; ४-१२) इति परिभाषावचनात् । स्रज इति द्वितीयैकवचनार्थे ; “शुभिके शिर आरोह” “यामाहरत्” इत्याद्येकवचनलिङ्गात् । षष्ठ्येकवचनं वा । तथा सति, स्रज आबन्धनं कर्तव्यमिति शेषः । तथा “यदाञ्जनं त्रैककुदम्” इत्येकयैव सकृदुच्चरितया त्रिककुत्पवर्तजाताञ्जनेन युगपदक्ष्णोरञ्जनं कर्तव्यम् । अत्रापि “मयि पर्वत” इत्यादीनि चत्वारि यजूंषि विकल्पार्थान्येव । न चाक्ष्णोः पर्यायेणाञ्जनम् ; “तेन वाम्” इति द्विवचनलिङ्गविरोधात् । तथैव “यन्मे वर्चः परागतम्” इत्येतया आदर्शावेक्षणं कर्तव्यम् । तथैव “प्रतिष्ठे स्थः” इत्यनेन यजुषोपानहौ युगपदुपमुञ्चते- “प्रतिष्ठे स्थः” इति द्विवचनलिङ्गात् । तथैव तूष्णीं छत्रमादाय “प्रजापतेः शरणमसि” इति यजुषा आत्मानमभिच्छादयति । तथैव दण्डं वैणवं “देवस्य त्वा” इत्यादियजुषा आदत्ते । इति एतानि षट्द्रव्याणीत्यर्थः । केचित्— “शुभिके शिर आरोह” “यामाहरत्” इति द्वाभ्यामपि स्रज आबन्धनम् । तथा “यदाञ्जनं” “मयि पर्वत पूरुषम्” इति द्वाभ्यामप्यावृत्ताभ्यां दक्षिणसव्ययोरक्ष्णोः क्रमेणाञ्जनम् ; “एवमुत्तरैर्यथालिङ्गम्” इति वचनबलात् । ततश्च “तेन वाम्” इति लिङ्गमपि विधिबलाद्बाध्यमेव । यथैकस्यां सान्नाय्यकुम्भ्यां “उखे उपधाम्यहम्” इति द्विवचनलिङ्गम् । उपानहोरुपमोचनेऽप्यञ्जनवदेव व्याख्येति । तदसत् ; “एकमन्त्राणि” (आप.प.१-४१) इत्यादिपरिभाषाविरुद्धत्वात् । “एवमुत्तरैर्यथालिङ्गम्” इत्यस्य च पूर्वव्याख्यानेऽप्युपपत्तेः । “मयि पर्वत पूरुषम्” इत्यत्र पाठे प्रश्लिष्टेऽपि विभागे निराकाङ्क्षत्वात्, वाक्यभेदावगतेश्च ॥११॥
मूलम् ...{Loading}...
एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शावेक्षणमुपानहौ छत्रं दण्डमिति ॥
१२ १२ वाचं यच्छत्यानक्षत्रेभ्यः
१२ १२ वाचं यच्छत्यानक्षत्रेभ्यः ...{Loading}...
वाचं यच्छत्य् आनक्षत्रेभ्यः १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He keeps silence until the stars appear.
हरदत्तः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
वाचं यच्छत्यानक्षत्रेभ्यः।
१२ १३ उदितेषु नक्षत्रेषु
१२ १३ उदितेषु नक्षत्रेषु ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्योत्तरेणार्धर्चेन दिश उपस्थाय
+उत्तरेण नक्षत्राणि चन्द्रमसम् इति १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When the stars have appeared, he goes away towards the east or north, worships the quarters (of the horizon) with the next hemistich, and the stars and the moon with the next (M. II, 9, 6).
हरदत्तः
ततः उत्तरेणार्धर्चेन “देवीष्षडुर्वीर्” इत्यनेन प्राङ्मुखः प्राञ्जलिः सर्वा दिशो मनसि कृत्वा मन्त्रान्तेन प्रदक्षिणमावृत्य समनुवीक्षते । षडेव दिशः। षडुर्वीरिति लिङ्गात् । प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति । तत डत्तरेणार्धचेन “मा हास्मही"त्यनेन नक्षत्राणि चन्द्रमसं च सहोपतिष्ठते ॥१३॥
सुदर्शनः
इदं च व्याख्यातम् ॥१२॥ उत्तरेणार्धचेन “देवाष्षडुर्वीः” इत्यनेन दिशः अवाचीषष्ठा उपस्थाय, उत्तरेण “मा हास्महि” इत्यर्र्धचेन नक्षत्राणि चन्द्रमसं चोपतिष्ठते । श्रुतिबलाच्च “मा हास्महि” इत्यत्र नक्षत्राणीत्यध्याहृत्य तानि प्रकाश्यान्येव ॥१३॥
मूलम् ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्धर्चेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति।
१२ १४ रातिना सम्भाष्य
१२ १४ रातिना सम्भाष्य ...{Loading}...
रातिना सम्भाष्य यथार्थं गच्छति १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having spoken with a friend he may go where he likes.
हरदत्तः
रातिना बन्धुना संभाष्य किं मया कर्तव्यम्? क आश्रमः प्रतिपत्तव्यः? इति संभाषणं कृत्वा तेन रातिना सह गच्छति अवधृतमाश्रम प्रतिपद्यत इत्यर्थ । “बुध्वा कर्माणि यत् कामयेत तदारभेत” (आप.ध.२-२१-५.) इत्यनेनैव सिद्धे पुनर्वचनं प्रव्रजतोऽपि संभाषणान्तं स्नानकर्म यथा स्यादिति ॥१४॥
सुदर्शनः
रातिः मित्रं; रमयतीति व्युत्पत्या । तेन सह विस्रब्धस्सम्भाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य । यथार्थं गच्छति तेन रातिना सह योऽर्थो धर्मो मोक्षो वा साध्यत्वेनावधृत, तदनुरूपमाश्रमं गार्हस्थ्यं मौनं वा प्रतिपद्यते । एवं च ब्रह्मचर्यादेव प्रव्रजतोऽपि सम्भाषणान्तं स्नानं कृत्वैव प्रव्रज्यात् ॥१४॥ इति श्रीसुदर्शनाचार्याविरचिते गृह्यतात्पर्यदर्शने द्वादशः खण्डः समाप्तः ॥
मूलम् ...{Loading}...
रातिना सम्भाष्य यथार्थं गच्छति।