०९ ०२ अर्थप्राध्वस्य परिक्षवे
०९ ०२ अर्थप्राध्वस्य परिक्षवे ...{Loading}...
अर्थप्राध्वस्य +++(अर्थाय प्रस्थितस्य)+++ परिक्षवे परिकासने चाप उपस्पृश्योत्तरे +++(अनुहवं परिहवं)+++ यथालिङ्गं +++(अनुहवे = अन्वाह्वाने, परिहवे, दुःस्वप्ने … ऽपीति हरदत्तः)+++ जपेत् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If he sneezes or coughs while going about on business, he should touch water and should murmur the two following (verses; M. I, 13, 5. 6) according to the characteristics (which they contain).
हरदत्त-प्रस्तावः
संस्कारकाण्डे कर्मान्तरव्याख्यानम् असङ्गतम् अपि मन्त्राम्नान-क्रमेणैव कार्यम् इत्युत्तरसूत्रजातं यावत्पटलान्तरमारभ्यते—
हरदत्तः
अध्वानं प्रस्थितः प्राध्वः । अर्थः प्रयोजनम् । यत्किञ्चित् प्रयोजनमुद्दिश्य योऽध्वानं प्रस्थितः, तस्य अर्थप्राध्वस्य । परिक्षवे परिकासने वा दुर्निमित्ते प्राप्ते प्रायश्चित्तं अप उपस्पृश्योत्तरे ऋचौ ** जपेत्** “अनुहवं परिहवं” इत्येते । परितः क्षवः परिक्षवः। सर्वतः स्थितैर्जनैःकृतक्षवथुः । तथा परिकासनम् । उपस्पर्शनं पाणिना संस्पर्शः, स्नानमाचमनं वा । तत्र यस्मिन् कृते प्रयतो मन्यते तत्र तत् कुर्यात् । यथालिङ्गमित्यनुपपन्नम् । परिक्षवपरिकासलिङ्गाभावात् । अथ पूर्वस्यामृचि परिक्षवशब्द एकदेश विकृतो लिङ्गमित्युच्यते तथाप्युत्तरस्यां परिकासनलिङ्गं नास्त्येव । तस्मादेवं व्याख्येयम्— एतयोर्निमित्तयोरेकस्मिन्नपि सति मन्त्रयोरेतयोर्जपः कार्यः । अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्विति । तत्र पृष्ठत आह्वानम् अनुहवः । सर्वत आह्वानं परिहवः । परिवादोऽभिशंसनम् । परिक्षव उक्तः । दुःस्वप्नः प्रसिद्धः । दुरुदितम् अल्पायुरित्यादि । अनुहूतं परिहूतम् इति शकुनेरशोभना वागुच्यते । अशाकुनं अनिमित्तभूतम् । मृगस्य सृगालादेः । अक्ष्णया सृतम् तिर्य्यग्गमनमपसव्यादि । एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि मन्त्रयोर्जपः कार्यः । परिक्षवपरिकासनयोश्च लिङ्गाभावेऽपि । परिक्षवशब्दस्तु क्षवधुलिङ्गं न भवति, रूपभेदात् । एकदेशविकारस्तु परिक्षवस्यापि संभवति । तन्निमित्ते तु अन्यस्मिन् प्रकरणे एतद्वक्तव्यम् । इह च वचनप्रयोजनं विवाहार्थं गच्छतोऽपि एतेषु निमित्तेषु प्रायश्चित्तमेतत् यथा स्यादिति । प्रकरणान्तरे तु श्रुतानां विवाहादूर्ध्वमेव प्रवृत्तिः । इदं तु अर्थप्राध्वस्येति वचनात् सर्वार्थं च भवति । प्रकरणात् विवाहेऽपि स्वाध्यायस्थाननियमार्थं च मन्त्रयोरेतयोरिह पाठः ॥२॥
सुदर्शनः
अर्थः प्रयोजनं, धर्मार्थ तदुपकारकाणि । अर्थमुद्दिश्य यः प्रसिद्धमध्वानं प्रस्थितः सोऽर्थप्राध्वः, न तु स्नान, ब्रह्मयज्ञोदक,युग्यघासादिकमुद्दिश्य समीपदेशं प्रति निर्गतः । तस्य परिक्षवे क्षवधौ परिकासने कासे च दुर्निमित्ते जाते अप उपस्पृश्य उपस्पर्शनमाचमनं स्पर्शनमात्रं वा यथातुष्टि कृत्वा उत्तरे “अनुहवं परिहवम्” इत्येते यथालिङ्गे परिक्षवे पूर्वां, परिकासने चोत्तरां जपेत् । जपत्वाच्चानयोश्चातुस्स्वर्यमेव । अत्र च यथालिङ्गमित्यनेनैतत् ज्ञापयति–पूर्वया वर्णव्यत्ययेन परिक्षव एव प्रकाश्यः, उत्तरया त्वध्याहृतं परिकासनमेव । यथा चैते ऋचौ क्षवधुकासावेव तात्पर्येण प्रकाशयतः, तथा व्याख्याते भाष्यकारेण । केचित्– यथालिङ्गमिति न केवलं परिक्षवे परिकासने चानयोर्जपः, अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्वपीति ॥२॥
मूलम् ...{Loading}...
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उस्पृश्योत्तरे यथालिङ्गं जपेत्।
०९ ०३ एवमुत्तरैर्यथालिङ्गञ्
०९ ०३ एवमुत्तरैर्यथालिङ्गञ् ...{Loading}...
एवम् +++(अर्थप्राध्वस्य दुर्निमित्ते ऽप उपस्पृश्य)+++ उत्तरैर्यथालिङ्गं +++(=अग्निरस्त्विति चित्रियपक्षे, सिग्वाते सिगसिनसि, शकुनौ “उद्गातेव शकुने”, “आरात्ते अग्निः” इति वनस्पतौ, “नमश्शकृत्सदे” इति शकृद्रीतौ)+++ चित्रियं+++(=अश्वत्थविशेषं)+++ वनस्पतिं+++(पुष्पैर्विना फलवन्तम्)+++ शकृद्रीति सिग्वातं+++(=सिचो वस्त्रस्य वातम्)+++ शकुनिम् +++(=सुवचनम्। अशुभवचनम् इति सुदर्शनः।)+++ इति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the same way with the next (Mantras - M. I, 13, 7-10 - he should address the following objects), according to the characteristics (which those Mantras contain): a conspicuous tree, a heap of excrements, the skirt (of his garment) which is blown against him by the wind, and a shrieking bird.
हरदत्तः
एवम् इत्यनेन “अर्थप्राध्वे"ति च, अप उपस्पृश्येति च, “जपेद्” इति चापेक्ष्यते । एवञ्च यथालिङ्गवचनं विस्पष्टार्थम् । चित्रियः प्रसिद्धः तत्रार्थप्राध्वः चित्रियं वृक्षमासाद्याप उपस्पृश्य “अग्निरस्त्वि"ति एतयर्चानुमन्त्रयते । “नयश्शकृत्सदे” इति शकृद्रीतिम् उपतिष्ठेत । “सिगसी"ति सिग्वातम् अन्यकृतम् । आत्मसंस्पृष्टो वाससा कृतो वातः सिग्वातः । सिगसि नासीति दीर्घान्ते प्राप्ते छान्दसो ह्रस्वः । शकुनिं शुभां वाचमनुमन्त्रयेत “उद्गातेव शकुने” इत्येतयर्चा अशुभवचने तु प्रागुक्तो जपः । केचिदिदमपि तत्रैवेच्छन्ति ॥३॥
सुदर्शनः
एवमित्यनेन अर्थप्राध्वोऽप उपस्पृश्येत्याकृष्यते । इहोत्तरैरिति करणविभक्तिदर्शनाद् वनस्पत्यादीनि यथालिङ्गमभिमन्त्रयते । न तु पूर्ववज्जपेत् । चित्रियं लोकप्रसिद्धम्, चयनमूलं वा । वनस्पतिं पुष्पैर्विना फलवन्तम् । अस्य प्रदर्शनार्थत्वात् वृक्षमप्येवंविधं “आरात्ते अग्निः” इत्येतयाऽभिमन्त्रयते । “नमश्शकृत्सदे” इति शकृद्रीतिं शकृत्सन्ततिम् । “सिगसिनसि” इति सिग्वातम् । सिचो वस्त्रस्य वातस्सिग्वातः । स चान्यकृतः स्वदेहसंस्पृष्टश्चेदमङ्गलः । “उद्गातेव शकुने” इत्येतया शकुनिम् अशोभनवाचम्, “प्रति नस्सुमना भव” इति मन्त्रलिङ्गात् ॥ केचित्— शुभवाचं, अशुभदर्शने तु पूर्वसूत्रेणोक्तो जप इति ॥३॥
मूलम् ...{Loading}...
एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीतिं सिग्वातं शकुनिमिति ।
०९ ०४ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरम्
०९ ०४ उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरम् ...{Loading}...
उभयोर् हृदय-संसर्गेप्सुस् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा, +++(पुनर्वस्वोः)+++ स्थालीपाकं श्रपयित्वा ऽऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर् +++(सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः)+++ हुत्वा, जयादि प्रतिपद्यते, परिषेचनान्तं कृत्वा, तेन +++(स्थालीपाकेन)+++ सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- One (for instance, the wife’s father) who wishes that the hearts of both (husband and wife) may be in accord should observe chastity through at least three nights and should prepare a Sthālīpāka. Then (the ceremonies) from the putting (of wood) on (the fire) down to the Ājyabhāga oblations (are performed), and while the wife takes hold of him, he sacrifices of the Sthālīpāka the oblations (indicated by the) next (Mantras; M. I, 14, 1-7); then he enters upon the performance of the Jaya and following oblations, and performs (the rites) down to the sprinkling (of water) round (the fire). (The remains of) the (sacrificial food) with butter, he should give to eat to an even number of Brāhmaṇas, at least to two, and should cause them to pronounce wishes for his success.
हरदत्तः
यदि वरस्य मनो वध्वां न तुष्येत् अथ तत्सिद्धिकामेन वध्वाः पित्रादिना तपोयुक्तेनेदं कर्म कर्तव्यमज्ञातं वरस्य । वशीकरणार्थत्वात् । औपासने च कर्तव्यम् । तदुक्तं पुरस्तात् ब्रह्मचर्यविधानस्य दृष्टार्थत्वात् यावता तपसार्थसिद्धिं मन्यते तावत् कर्तव्यम् । पुनर्वस्वोश्चेदं कर्म भवति । “श्वस्तित्येण” (आप.गृ.९-६.) इति वचनात् । किं पुनस्तत् कर्म? स्थालीपाकः, पाठार्चनं च । सर्वं कर्म पार्वणवत् । विवाहप्रकरणे तूपदेशात् सकृत् पात्रप्रयोगः शम्याश्च । कालस्य चानियमः । विवाहप्रकरणे चास्यास्समाप्तिः तच्छेषभूतस्य वासोदानस्योपरिष्टादुपदेशादवगन्तव्या । एवमर्थमेव च तस्योपरिष्टादुपदेशः ॥४॥ सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः । ततः स्विष्टकृत्, ततो जयादि ॥५॥ पार्वणातिदेशात् एकस्यैव ब्राह्मणस्य भोजने प्राप्ते बहुत्वं विधीयते । तेन स्थालीपाको महान् कर्तव्यः । सर्पिष्मद्वचनं नियमार्थं परिषेचनादूर्ध्वं पार्वणधर्माणां सर्पिष्मत्वमेव भवतीति । तेन “पूर्णपात्रस्तु दक्षिणेत्येक” इत्येतन्न भवति । सिद्धिं वाचयीत तैर्भुक्तवद्भिः सङ्कल्पसिद्धिरस्तित्वति वाचनम् । परिषेचनान्तवचनं कर्तृनियमार्थम् । कथम्? यो होमस्य कर्ता स एव ब्राह्मणभोजनं सिद्धिवाचनं च कुर्यादिति तेन यदुत्तरं कर्म परिकिरणादि तस्य वधूः कर्त्रीति ॥६॥
सुदर्शनः
उभयोर् जायापत्योः “त्रिरात्रमुभयोरधश्शय्या” इत्यधिकारात्, इह अन्वारब्धायामिति स्त्रीलिङ्गनिर्देशाच्च । हृदयसंसर्ग मनसोस्सम्प्रीतिमीप्सुः वध्वा हितैषी पितृभ्रात्रादिरपापोऽपि त्रिरात्रादनूनं यावन्मनस्तोषं ब्रह्मचर्यं चरित्वा तस्यौपासन एव स्थालीपाकश्रपणाद्यग्निमुखान्तं कृत्वा तस्याम्** अन्वारब्धायां स्थालीपाकाद्** अवदाय “प्रातरग्निम्” इत्यादिभिस्सप्तभिर्मन्त्रैः प्रत्यृचं प्रधानाहुतीर्हुत्वा जयादि प्रतिपद्यते । तदनन्तरं स्विष्टकृदादि तन्त्रशेषं पार्वणवत् समाप्य, तेन हुतशेषेण सर्पिष्मता युग्मान् द्व्यवरान् द्वाववरौ संख्यातो येषां तान् ब्राह्मणान् यथालाभं भोजयित्वा तैरेव भुक्तवद्भिः कर्मफलसिद्धिरस्त्विति सिद्धिं वाचयीत । तेन सर्पिष्मतेति च पार्वणसिद्धानुवादो युग्मानिति विधातुम् ॥४॥
मूलम् ...{Loading}...
उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा स्थालीपाकं श्रपयित्वाऽग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत ।
०९ ०५ श्वस्तिष्येणेति
०९ ०५ श्वस्तिष्येणेति ...{Loading}...
+++(विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।)+++
श्वस्तिष्येणेति त्रिस्सप्तैर्+++(=२१)+++ यवैः पाठां+++(=ओषधिविशेषम्)+++ परिकिरति - “यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि” इति ५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 When the moon, on the following day, will be in conjunction with Tiṣya, she strews three times seven barley-grains around (the plant) Clypea Hernandifolia with (the formula), ‘If thou belongest to Varuṇa, I redeem thee from Varuṇa. If thou belongest to Soma, I redeem thee from Soma.’
हरदत्तः
श्वो यत् करणीयं कर्म तत् तिष्येण नक्षत्रेण सम्पाद्यत इति कृत्वा पूर्वेद्युस्सिद्धिवाचनान्ते कर्मणि कृते पित्रादिना ऋत्विजा यजमानभूता वधूः यत्र प्रदेशे पाठा तिष्ठति तत्र गत्वा तां पाठां त्रिस्सप्तैः एकविंशत्या यवैः परिकिरति “वारुण्यसी"त्येताभ्याम् । त्रिस्सप्तैरिति छान्दसो निर्देशः पाठा ओषधिविशेषः । आथर्विणिकास्तु पाशेत्यधीयते ॥५॥
सुदर्शनः
पाठोत्थापनादि भर्तृपरिग्रहणान्तं कर्म श्वोभूते परेद्युस्तिष्यो भवतीति कृत्वा पूर्वेद्युः श्वस्तिष्यः पुनर्वसू इत्यर्थः । तस्मिन् नक्षत्रे पित्रादिना सिद्धिवाचनान्ते कर्मणि कृते, अनन्तरं वधूर्यत्र भूमौ पाठास्ति तत्र गत्वा तां पाठां त्रिस्सप्तैः एकविंशत्या यवैः “यदि वारुण्यसि” इत्येताभ्यां परिकिरति परितो वपति । त्रिस्सप्तैरिति छान्दसं रूपम् ॥५॥
मूलम् ...{Loading}...
श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति “यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामी"ति ।
०९ ०६ श्वोभूते
०९ ०६ श्वोभूते ...{Loading}...
+++(उपोष्य)+++ श्वोभूते +++(पाठाम्)+++ उत्तरया +++(“इमां खनीमि”)+++ +उत्थाप्य +++(उत्खाय खनित्रेण)+++
+उत्तराभिस् तिसृभिर् +++(“उत्तानपर्णे”)+++ अभिमन्त्र्य
उत्तरया +++(“अहमस्मी"ति)+++ प्रतिच्छन्नां +++(छित्त्वा)+++ हस्तयोराबध्य
शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयाद् उपधानलिङ्गया +++(“उपतेऽधा”)+++ ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- On the following day she should set upright (the plant) with the next (verse; M. I, 15, 1), should recite the next three (verses; M. I, 15, 2-4) over it, should tie (its root) with the next (verse; M. I, 15, 5) to her hands so that (her husband) does not see it, and should, when they have gone to bed, embrace her husband with her arms, with the verse alluding to the word upadhāna (‘putting on;’ M. I, 15, 6).
हरदत्तः
कृत्वा परिकिरणमुपोष्य ततः श्वोभूते तां पाठां उत्थापयति खनित्रेण खात्वोत्खिदति उत्तरयर्चा “इमां खनीमी"त्येतया । ततस्तामुत्तराभिस् तिसृभिः ऋग्भिः अभिमन्त्रयेत “उत्तानपर्णे” इत्येताभिः । तस्या मूलं द्वेधा प्रच्छिद्य हस्तयोराबध्नाति उत्तरयर्चा “अहमस्मी"त्येतया । प्रतिच्छन्नां यथा भर्ता न पश्यति तथेत्यर्थः । उभयत्र मन्त्रस्यावृत्तिः आबध्य ततो रात्रौ शय्याकाले भर्तारं परिगृह्णीयात् । उपधानलिङ्गया ऋचा “उपतेऽधाम्” इत्येतया उत्तरयेति वक्तव्ये उपधानलिङ्गयेति वचनं परिग्रहे विशेषविधानार्थम् । यथा मूलयोः अन्यतरदधस्तादुपधानं भवति इतरच्चोपरिष्टादपिधानं तथा परिग्रहः कर्तव्यः ॥६॥
सुदर्शनः
परेद्युर्वधूरेव तां पाठां “इमां खनामि” इत्येतया खमित्रेणोत्खाय “उत्तानपर्णे” इत्यादिभिस् तिसृभिरभिमन्त्र्य तस्याः मूलं द्विधा छित्वा उपायेन भर्तुरदृश्ये कृत्वा “अहमस्मि सहमाना” इत्येतयाभ्यस्तया स्वहस्तयोराबध्य रात्रौ शय्याकाले “उपतेऽधाम्” इत्युपधानलिङ्गया बाहुभ्यां भर्तारं परिगृह्णीयात् । उपधानलिङ्गयेति ज्ञापनं च कर्माङ्गम् ॥ केचित्— आबध्य पाठामूलयोर्हस्तयोरुपधानमेको ऽन्यश्चापिधानं यथा स्यात् तथा परिगृह्णीयादिति ॥६॥
मूलम् ...{Loading}...
श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया ।
०९ ०७ वश्यो भवति
०९ ०७ वश्यो भवति ...{Loading}...
वश्यो भवति ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Thus he will be subject to her.
हरदत्तः
यदि भार्या भर्तरि न रमते तदा नैवैतत्कर्म भवतीति प्रदर्शनार्थमिदं वश्यः पतिर्भवति भार्यायाः, न भार्या भर्तुरिति ॥७॥ इदं स्पष्टम् । वश्य इति पुल्लिङ्गनिर्देशात् वधूरिह यजमाना ॥७॥
अस्या अधिकारान्तरसंयोगमाह—
मूलम् ...{Loading}...
वश्यो भवति।
०९ ०८ सपत्नीबाधनञ्च
०९ ०८ सपत्नीबाधनञ्च ...{Loading}...
सपत्नीबाधनं च।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- By this (rite) also (a wife) overcomes her co-wives.
हरदत्तः
न केवलमुभयोर्हृदयसंसर्गसाधनमेवैतत्कर्म, किं तर्हि? सपत्नीबाधनञ्च सपत्न्यप्यनेन बाधितुं शक्येत्यर्थः । अस्मिन्नपि पक्षे औपासन एवाग्निः योऽस्या विवाहेन सम्पादितः या सप्तनीं बाधते । विवाहभेदाद्ध्यग्निस्संसृज्येत । तथा च राजसूय इत्युक्तं–“तस्या औपासने प्रतिनिहितम्”(आप. श्रौ.१८-१६-१४.) इति । तथा अग्निसंसर्गो बौधायनीयेऽभिहितः संसर्गादूर्ध्वमपि तस्मिन्नेव भवति । यथा बाध्यमाना सपत्नी न जानाति । केचित् पूर्वस्मिन्नेवाग्नौ द्वितीयं विवाहमिच्छन्ति । तेषामपि तस्मिन्नेव कर्म ॥८॥
सुदर्शनः
सपत्नी बाध्यते येन तत् सपत्नीबाधनम् । एतत्कर्म सपत्नीबाधनमपि भवति । अधिकारान्तरं च युक्तम्; य एकया संसृष्टहृदयोऽप्यन्यां तत्सपत्नीं भार्यां तदधीनधर्मादावपि लोभान्न बाधते सोऽपि कथं नु नाम तदधीनधर्माद्युपेक्षयापि तां बाधेतैवेत्येवमर्थत्वादस्य कर्मणः ॥८॥
मूलम् ...{Loading}...
सपत्नीबाधनञ्च ।
०९ ०९ एतेनैव कामेनोत्तरेणानुवाकेन
०९ ०९ एतेनैव कामेनोत्तरेणानुवाकेन ...{Loading}...
एतेनैव कामेनोत्तरेणानुवाकेन +++(“उदसौ सूर्यो अगात्”)+++ सदादित्यमुपतिष्ठते ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- For this same purpose she worships the sun daily with the next Anuvāka (M. I, 16).
हरदत्त-प्रस्तावः
अथान्यदपि सपत्नीबाधनमाह—
हरदत्तः
एतेनैव सपत्नीबाधनेन कामेन उत्तरेणानुवाकेन “उदसौ सूर्यो अगात्” इत्यनेन सदा अहरहः आदित्यमुपतिष्ठते । सदार्थक एवकारः पौनर्वाचनिकः ॥९॥
सुदर्शनः
एतस्मिन्नेव कामे वधूः “उदसौ सूर्यो अगात्” इत्यनुवाकेन प्राग्भोजनादहरहरादित्यमुपतिष्ठते । सदेति वचनं च सिद्धेऽपि सपत्नीबाधने, यावदविधवा तावन्नित्यमिदमुपस्थानमित्येवमर्थम् । केचित्—इदमुपस्थानं पूर्वाधिकारशेषो वा, सपत्नीबाधनकामे कर्मान्तरं वेति ॥९॥
मूलम् ...{Loading}...
एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते ।
०९ १० यक्ष्मगृहीतामन्यां वा
०९ १० यक्ष्मगृहीतामन्यां वा ...{Loading}...
यक्ष्मगृहीतामन्यां +++(मातृप्रभृतिं)+++ वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर् +++(“अक्षीभ्यां ते नासिकाभ्यां”)+++ यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् +++(प्रतिमन्त्रं सम्मर्शनं निरसनं च ।)+++ १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If a wife is affected with consumption or is otherwise sick, one who has to observe chastity, should rub her limbs with young lotus leaves which are still rolled up, and with lotus roots, with the next (formulas, limb by limb) according to the characteristics (contained in those formulas; M. I, 17, 1-6), and should throw away (the leaves and roots) towards the west.
हरदत्तः
यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन गृहीतां भार्या अन्यां वा स्वां स्त्रियं मातृप्रभृतिं ज्ञात्वा भैषज्यमिदं कर्तव्यम् । किं तत्? उत्यते— ब्रह्मचर्येण युक्तः पुष्करस्य संवर्तमूलैः परिमण्डलाकारैः मूलैः । संवर्तमूलैश्चेत्यन्ये । संवर्तिका नवदलमिति नैघण्टुकाः । उत्तरैर्मन्त्रैः “अक्षीभ्यां ते नासिकाभ्यां” इत्यादिभिः । यथालिङ्गं तस्या अक्ष्यादीन्यङ्गानि संमृश्य प्रतीचीनं यथा तथा निरस्येत् । यथालिङ्गवचनात् प्रतिमन्त्रं सम्मर्शनं निरसनं च । एकैकेन मूलेन सम्मर्शनम्, बहुवचनस्य सर्वापेक्षत्वात् । आन्त्रादीनामन्तर्गतत्वात् बहिस्तत्प्रदेशे सम्मार्जनम् ॥१०॥
सुदर्शनः
राज्यक्ष्मणा गृहीतां, अन्यां वा राजयक्ष्मणोऽन्यैः कुष्ठादिभिर्गृहीतां वा वधूं तद्धितैषी उक्तलक्षणब्रह्मचर्ययुक्तः पुष्करस्य पद्मस्य संवर्तिकाभिर् दलैर्मूलैश्च “अक्षीभ्यां ते” इत्याद्यृग्रूपैष्षड्भिर्मन्त्रैः यथालिङ्गं मन्त्रलिङ्गप्रतिपन्नानि भाष्ये व्याख्यातान्यक्ष्यादीन्य् अङ्गानि संमृश्य प्रतिमन्त्रं तानि प्रतीचीनं निरस्येत् । एतेन भैषज्येनागदा स्यादिति तात्पर्यम् ॥ केचित्— यक्ष्मगृहीतां भार्यां अन्यां वा मात्रादिं पुष्करस्य संवर्तैः परिमण्डलाकारैः मूलैरिति ॥१०॥
मूलम् ...{Loading}...
यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि सम्मृश्य प्रतीचीनं निरस्येत् ।
०९ ११ वधूवास उत्तराभिरेतद्विदे
०९ ११ वधूवास उत्तराभिरेतद्विदे ...{Loading}...
वधूवास उत्तराभिर् +++(“परा देही"त्यादयश्चतस्रः)+++ एतद्+++(मन्त्रकर्म-)+++विदे दद्यात् ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the next (verses; M. I, 17, 7-10) he should give the wife’s garment (which she has worn at the wedding [?]) to (a Brāhmaṇa) who knows this (ceremony).
हरदत्तः
विवाहकाले यत् वासः परिधापितं, तत् एतद्विदे ब्राह्मणाय दद्यात्, योऽस्मिन् प्रश्ने पठितान् मन्त्रान् सार्थान् वेद तस्मै । केचित्–भैषज्यशेषमिदं मन्यन्ते । आनन्तर्यात् । तेषां वधूवास इति विशेषणमन्यस्याः स्त्रियाः यक्ष्मगृहीतायाः वाससो दाननिवृत्त्यर्थम् । एतद्विद इति च भैषज्यकर्मकृत इत्यर्थः मन्त्रेषु तु परादेहि इत्यादिषु विवाहकाले परिहितस्य वधूवाससः स्पर्शनिन्दा । सूर्याविदे ब्राह्मणाय तद्दानं च दृश्यते । कल्पान्तरे च तद्व्यक्तम्– “चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्” (आश्व.गृ. १.८.१३.) इति । तस्मात् भैषज्यशेषत्वमनुपपन्नम् । यत् पुनरुक्तं आनन्तर्यादिति, तत्र कारणमुक्तमेव । कथम्? एवमन्तं विवाहप्रकरणं स्यादिति ॥११॥
सुदर्शनः
यस्या वध्वा इदं भैषज्यं क्रियते तस्या वासः । एतद्विदे एतत्कर्म समन्त्रार्थं यो वेत्ति तस्मै “परा देहि” इत्यादिभिश्चतसृभिर्दद्यात् । केचित्— विवाहकाले वध्वा यदाच्छादितं वासस्तद्विमुच्यासंस्पृशन्नेव पञ्चम्यां “परा देहि” इत्यादिभिश्चरितव्रताय एतद्विदे सूर्याविदे, य एतान् मन्त्रान् सार्थान् वेद तस्मै दद्यात् । असंस्पर्शश्च “क्रूरमेतत्” इति लिङ्गात् । अस्य च समावेशनानन्तरमुपदेष्टव्यस्य इहोपदेशो हृदयसंसर्गार्थे कर्मणि शम्याज्ञापनार्थमिति । नेदं युक्तम्, सन्निहितकर्मपरित्यागेन वासोदानस्य अतिव्यवहितविवाहर्थज्ञानानुदयात्, अस्मदीयानामाचाराभावाच्च ॥११॥
इन्थं सुदर्शनार्येण साहसैकप्लवाश्रयात् । कृच्छ्रात्तीर्णोऽतिगूढार्थस्तृतीयपटलोदधिः ॥१॥ अत्रानुक्तं दुरुक्तं वा मतेर्मान्द्याच्छ्रुतस्य वा । सन्मार्ग प्रवणत्वेन तत्क्षमध्वं विपश्चितः ॥२॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने नवमः खण्डः ॥ तृतीयश्च पटलः समाप्तः ॥
मूलम् ...{Loading}...
वधूवास उत्तराभिरेतद्विदे दद्यात् ॥
-
9, 5. Comp. Gobhila II, 6, 6 seq. ↩︎