०२ १२ सर्व-ऋतवो विवाहस्य
०२ १२ सर्व-ऋतवो विवाहस्य ...{Loading}...
सर्वऋतवो +++(=मासाः)+++ विवाहस्य शैशिरौ मासौ +++(= माघफाल्गुनौ)+++ परिहाप्योत्तमं च नैदाघम् +++(= आषाढः)+++ १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- All seasons are fit for marriage with the exception of the two months of the śiśira season, and of the last summer month.
हरदत्त-प्रस्तावः
एकाग्निविधिकाण्डे विवाह-मन्त्राणां पूर्वमाम्नानात् विवाहम् एव पूर्वं व्याख्यास्यन् तस्योदगयनादि-नियमापवादेन कालमाह—
हरदत्तः
अथ विवाह-विधिः प्राग् उपनयनात् ।
शिशिरं परिहाप्येति वक्तव्ये शैशिरौ मासाव् इत्य् उच्यते - “उत्तमञ्च नैदाघम्” इत्यत्र मास-प्रतिपत्त्य्-अर्थम् । अन्यथा दिवसोऽपि प्रतीयेत ।
सर्वर्तुविधानं उदगयनापवादः । पूर्व-पक्षादयस् तु परिभाषाप्राप्ताः विवाहेऽवस्थिता एव यथोपनयने वसन्तादि-विधान इति केचित् ।
अन्ये तु पूर्वपक्षादेर् अप्य् अपवादं मन्यन्ते ।+++(5)+++ तेषाम् अपरपक्षे रात्रौ च न निषिध्यते विवाहः ॥१२॥
सुदर्शनः
सर्वे षड् ऋतवः प्रत्येकं मास-द्वय-रूपाः विवाहस्य कालाः । द्वादशापि मासाः सापर-पक्षादिकाः कार्त्स्न्येन काला इत्य् अर्थः ।
ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः। नर्तव इति कुतोऽवगम्यते ? उच्यते– शैशिरौ मासाविति मासपर्युदासात् । अन्यथा विधि-पर्युदासयोर् एक-विषयत्वात् लघुत्वाच् च शिशिरं परिहाप्येति ब्रूयात् ।
प्रयोजनं तु विवाहस्य पूर्व-पक्षादि-नियमाभावः । यत्र पुनर् उपनयनादाव् एवं-विध-हेत्व्-अभावाद् ऋतोर् एव विधित्सा, तत्र द्व्य्-अवदान-द्वारा पुरोडाशस्य याग-साधनत्व-वत् सामान्य-विध्य्-अवरुद्ध-पूर्व-पक्षादि-द्वारेणापि ऋतोः कर्म-साधनत्वासिद्धेः पूर्व-पक्षादिर् नियत एव ।
शिशिरस्यर्तोः यौ द्वौ मासौ माघ-फाल्गुनौ, निदाघस्य ग्रीष्मस्य यश् चोत्तमो ऽन्त्य आषाढः, तानेतांस् त्रीन् मासान् परिहाप्य वर्जयित्वा । अत्रोत्तमम् इति तमप्-प्रत्ययात् यस् सौरतोऽन्त्यो नैदाघः, यश् चाधिकमासतो द्वितीय आषाढः ताव् अपि पर्युदस्तौ ॥१२॥
मूलम् ...{Loading}...
सर्व-ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम्।
०२ १३ सर्वाणि पुण्योक्तानि
०२ १३ सर्वाणि पुण्योक्तानि ...{Loading}...
+++(अनेन पूर्वपक्षादिनियमाभावः।)+++ सर्वाणि पुण्योक्तानि नक्षत्राणि +++(सर्वापवादत्वात्पुण्याहविधानार्थमिदम् । तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।)+++१३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- All Nakṣatras which are stated to be pure, (are fit for marriage);
हरदत्तः
सर्वर्तुविधानस्य सर्वापवादत्वात् पुण्याहविधानार्थमिदम् । तथा च रात्र्यपरपक्षयोः विवाहप्रतिषेधः । एवमप्युक्तग्रहणमनर्थकं तत् क्रियते मुहूर्तपरिग्रहार्थं–यानि पुण्यानि नक्षत्राणि यानि पुण्योक्तानि मुहूर्तानि तानि सर्वाणि विवाहस्य यथा स्युरिति । तत्र नक्षत्राणि ज्योतिश्शास्त्रादवगन्तव्यानि । प्रातस्सङ्गवो मध्यन्दिनोऽपराह्णस्सायमित्येते मुहूर्ताः ॥१३॥
सुदर्शनः
यानि ज्यौतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि । नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात् तिथ्यादीन्यपि । तत्र पुण्योक्तानि सर्वाण्यत्रोपसंहर्तव्यानि ॥१३॥
मूलम् ...{Loading}...
सर्वाणि पुण्योक्तानि नक्षत्राणि।
०२ १४ तथा मङ्गलानि
०२ १४ तथा मङ्गलानि ...{Loading}...
तथा मङ्गलानि १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And all auspicious performances.
हरदत्तः
“ब्राह्मणान् भोजयित्वाशिषो वाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि । मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्तः, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि । तान्येतानि सर्वाणि प्रत्येतव्यानि ॥१४॥
सुदर्शनः
शङ्खदुन्दुभिवीणातूणववादित्रसम्प्रवादनानि कुलस्त्रीगीतानि केशश्मश्र्वादिप्रकल्पनाहतधौताच्छिद्रविचित्रवासोधारणगन्धानुलेपनसुगन्धस्रग् धारणापदातिगमनच्छत्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाहे उपसंहर्तव्यानि ॥१४॥
मूलम् ...{Loading}...
तथा मङ्गलानि।
०२ १५ आवृतश्चास्त्रीभ्यः प्रतीयेरन्
०२ १५ आवृतश्चास्त्रीभ्यः प्रतीयेरन् ...{Loading}...
+++(“ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि । मङ्गलानि स्नातोऽहतवासा गन्धानुलिप्त, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।)+++ आवृतश्च +++(=प्रसिद्धाः)+++ +आस्त्रीभ्यः प्रतीयेरन् १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And one should learn from women what ceremonies (are required by custom).
हरदत्तः
मन्त्ररहिताः क्रियाः आवृत इत्युच्यन्ते । यस्मिन् जनपदे ग्रामे कुले वा या आवृतः प्रसिद्धाः तास्तथैव व्यवस्थिताः यथा प्रतीयेरन्न सर्वत्रैवमर्थम् ॥१५॥
सुदर्शनः
आवृतः क्रियाः वैवाहिक्यः अविशेषात् समन्त्रका अमन्त्रकाश्च । तास्सर्वा आस्त्रीभ्यः सर्ववर्णेभ्यस्सकाशादवगम्य प्रतीयेरन् कुर्वीरन् विवोढारः । तत्र समन्त्रका ग्रहपूजाङ्कुरारोपणप्रतिसरबन्धाद्या आचारसिद्धाः । अमन्त्रकाः नाकबलियक्षबलीन्द्राणीपूजादयः । ताश्च यथाजनपदं यथावर्णं यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव । न तु सर्वास्सर्वत्र समुच्चिताः ॥१५॥
मूलम् ...{Loading}...
आवृतश्चास्त्रीभ्यः प्रतीयेरन्।
०२ १६ इन्वकाभिः प्रसृज्यन्ते
०२ १६ इन्वकाभिः प्रसृज्यन्ते ...{Loading}...
इन्वकाभिः +++(=मृगशिरसि)+++ प्रसृज्यन्ते +++(कन्यार्थं प्रेष्यन्ते)+++ ते वराः प्रतिनन्दिताः १६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Under the Invakās (Nakṣatra), (the wooers who go to the girl’s father) are sent out: such wooers are welcome.
हरदत्तः
नक्षत्रप्रशंसार्था गाथा विवाहप्रकरणे वरप्रसङ्गार्थमुदाहृता । यदि वराः कन्याया वरयितारः कन्या वरणार्थं इन्वकाभिः प्रसृज्यन्ते ॥ १६ ॥
ते वरास्तैर्दुहितृमद्भिः । प्रतिनन्दिताः सिद्धार्था भवन्ति । तस्माद्वरप्रसङ्गे प्रशस्तमिन्वका नाम नक्षत्रम् । “इन्वकाशब्दो मृगशिरसी"ति स्वयमेव व्याख्यास्यति । तस्मात् ज्ञायते– स्मृत्यन्तरप्रसिद्धा लौकिक्येवेयं गाथा, न सूत्रकारस्य कृतिरिति ॥१७॥
सुदर्शनः
इन्काभिः मृगशिरसि “नक्षत्रे च लुपि” (पा.२-३-४५. ) इति सप्तम्यर्थे तृतीया । ये वराः वरयितारो मृगशिरसि प्रसृज्यन्ते कन्यावरणार्थं प्रेष्यन्ते, ते दुहितृमद्भिः प्रतिवन्दिताः प्रकर्षेण पूजिताः, सिद्धार्था भवन्तीत्यर्थः ॥१६॥ इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने द्वितीयः खण्डः ॥
मूलम् ...{Loading}...
इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः।
०३ ०१ मघाभिर्गावो गृह्यन्ते
०३ ०१ मघाभिर्गावो गृह्यन्ते ...{Loading}...
मघाभिर्गावो गृह्यन्ते +++(दानार्थम्)+++१
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 Under the Maghās (Nakṣatra) cows are provided;
हरदत्तः
यदि मघाभिः गावः क्रयादिना गृह्यन्ते ताश्च गावः प्रतिनन्दिता भवन्ति । तस्मात् गोपरिग्रहे मघाः प्रशस्ताः ॥१॥
सुदर्शनः
“आर्षे दुहितृमते मिथनौ गावौ देयौ” (आप.ध. २-११-१८.) इति वचनादार्षे विवाहे वरैर्दीयमाना गावो दुहितृमद्भिर्मघासु गृह्यन्ते । एतदुक्तं भवति– आर्ष विवाहं मघास्वेव कुर्यात्, न ब्राह्मादिवत् नक्षत्रान्तरेऽपीति ॥१॥
मूलम् ...{Loading}...
मघाभिर्गावो गृह्यन्ते।
०३ ०२ फल्गुनीभ्यां व्यूह्यते
०३ ०२ फल्गुनीभ्यां व्यूह्यते ...{Loading}...
फल्गुनीभ्यां व्यूह्यते +++(= सेनाया इति केचित्, विवाहविशेषेषु कन्याया इत्यपरे)+++ २
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Under the Phalgunī (Nakṣatra) marriage is celebrated.
हरदत्तः
यदि फल्गुनीभ्यां व्यूह्यते सेना युद्धकाले सा च प्रतिनन्दिता भवति । तस्मात् सेनाव्यूहे प्रशस्ते फल्गुन्यौ । अविशेषात् पूर्वे उत्तरे च । सर्वत्र “नक्षत्रे च लुपी”(पा.सू.२-३-४५.)त्यधिकरणे तृतीया ॥२॥
सुदर्शनः
अत्र च वधूः फल्गुन्योरेव व्यूह्यते नीयते स्वगृहात्, न तु “तां ततः” (आप.गृ.५-११.) इति वचनात् ब्राह्मादिवत्तदानीमेव ॥ केचित्– “इन्वकाभिर्” इत्यादि “फल्गुनीभ्यां व्यूह्यते” इत्यन्तमुत्तरत्रेन्वकाशब्दस्य व्याख्यानात् शाखान्तरीया गाथेति कल्पयन्तः, मघासु गवां क्रयादिना स्वीकारः, सेनायाश्च युद्धे व्यूहः, अविशेषात् पूर्वयोरुत्तरयोर्वा फल्गुन्योरिति प्रकृतानुपयोगितया व्याचक्षते ॥२॥
मूलम् ...{Loading}...
फल्गुनीभ्यां व्यूह्यते।
०३ ०३ याङ् कामयेत
०३ ०३ याङ् कामयेत ...{Loading}...
यां कामयेत दुहितरं प्रिया स्यादिति, तां निष्ट्यायां दद्यात् प्रियैव भवति, नैव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः ३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 3 A daughter whom he wishes to be dear (to her husband), a father should give in marriage under the Niṣṭyā (Nakṣatra); thus she becomes dear (to her husband); she does not return (to her father’s) house: this is an observance based on a Brāhmaṇa.
हरदत्तः
यां दुहितरं पिता प्रियां कामयेत भर्तुरियं प्रियास्यादिति तां निष्ठायां नक्षत्रे दद्यात् । एवं दत्ता सा भवत्येव तस्य प्रिया । अयं चापरोऽस्य नक्षत्रस्य गुणः सा पितृगृहात् पुनरर्थिनी नागच्छति । पतिगृह एव तस्यास्सर्वे कामास्सम्पद्यन्ते । अन्ये तु निन्दामिमां मन्यन्ते । ब्रह्मणावेक्षो विधिरिति वचनात् अन्येऽपि स्मृत्यपेक्षा नक्षत्रविधयो भवन्ति । अन्यथा पुंसवने तिष्यवत् विवाहे इदमेव नक्षत्रं स्यात् ॥३॥
सुदर्शनः
इयं भर्तुः प्रिय स्यादिति यां दुहितरं पिता कामयेत तां निष्ट्यायां स्वातौ वराय दद्यात् । सा तस्य प्रियैव भवति । नेव तु नैव च रोगदारिद्र्यादिना पीड्यमाना अर्थिनी पुनः पितृगृहमागच्छति ; स्वगृह एव तस्यास्सर्वे अर्थास्सम्पद्यन्त इति ब्राह्मणावेक्षो विधिः । अत्रापि पूर्ववत् स्मार्तपुण्योक्तनक्षत्रैर्विकल्पः ॥३॥
मूलम् ...{Loading}...
यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छतीति ब्राह्मणावेक्षो विधिः।
०३ ०४ इन्वकाशब्दो मृगशिरसि
०३ ०४ इन्वकाशब्दो मृगशिरसि ...{Loading}...
इन्वकाशब्दो मृगशिरसि ४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 4 The word Invakās means Mṛgaśiras; the word Niṣṭyā means Svāti.
हरदत्तः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
इन्वकाशब्दो मृगशिरसि।
०३ ०५ निष्ट्याशब्दस्स्वातौ छन्दसि
०३ ०५ निष्ट्याशब्दस्स्वातौ छन्दसि ...{Loading}...
निष्ट्याशब्दस्स्वातौ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- the word Niṣṭyā means Svāti.
हरदत्तः
छन्दसि प्रयुक्तत्वादेतयोरर्थकथनम् ॥४॥
सुदर्शनः
एते सूत्रे व्यक्तार्थे ॥४-५॥
मूलम् ...{Loading}...
निष्ट्याशब्दस्स्वातौ।
०३ ०६ विवाहे गौः
०३ ०६ विवाहे गौः ...{Loading}...
विवाहे +++(=विवाहस्थाने)+++ गौः ६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 5 At the wedding one cow;
हरदत्तः
विवाहस्थाने गौरालब्धव्या दुहितृमता ॥५॥
सुदर्शनः
विवाहस्थाने गौस्सन्निधाप्या ॥६॥
मूलम् ...{Loading}...
विवाहे गौः।
०३ ०७ गृहेषु गौः
०३ ०७ गृहेषु गौः ...{Loading}...
गृहेषु +++(=शालायां)+++ गौः ७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- In the house one cow:
हरदत्तः
गृहेषु च गौरालब्धव्या तेनैव दुहितृमता । तयौर्विनियोगः ॥६॥
सुदर्शनः
तथा गृहेषु शालायां अन्या गौस्सन्निधाप्या ॥७॥
मूलम् ...{Loading}...
गृहेषु गौः।
०३ ०८ तया वरमतिथिवदर्हयेत्
०३ ०८ तया वरमतिथिवदर्हयेत् ...{Loading}...
तया वरमतिथिवदर्हयेत् ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the (first cow) he should prepare an Argha reception for the bridegroom as for a guest,
हरदत्त-प्रस्तावः
किमर्थमित्यत आह–
हरदत्तः
या विवाहे गौः तया वरमतिथिवत् पूजयेत् । अतिथिवदिति वचनात् मधुपर्केण च । “गोमधुपर्कार्हो वेदाध्याय” (आप.ध. २-८-५.) इति वचनात् ॥७॥
सुदर्शनः
तया विवाहस्थाने सन्निधापितया गवा, न त्वनन्तरोक्तया, **वरमतिथिवत् ** अतिथिं यथा तथा अर्हयेत् पूजयेत् । तया हविरुत्पत्तिद्वारेणोत्सर्गद्वारेण वा अङ्गभूतया युक्तेन मधुपर्केण वरमेवदाध्यायिनमपि पूजयेदित्यर्थः ॥८॥
मूलम् ...{Loading}...
तया वरमतिथिवदर्हयेत्।
०३ ०९ योऽस्यापचितस्तमितरया
०३ ०९ योऽस्यापचितस्तमितरया ...{Loading}...
योऽस्यापचितस्तमितरया ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the other (the bridegroom [?] should do so) for a person whom he reveres.
हरदत्तः
योऽस्य वरस्यापचितः पूज्यः तेन सहागत आचार्यस्तम् इतरया गृहेषु या गौरालभ्यते तया । किमिवेत्यपोक्षायां अतिथिवदर्हयेद् इत्येव । विवाहे वराय तत्सहायेभ्यश्चान्यस्मिन्नग्नौ पृथगन्नसंस्कारो भवति । वपाहोमश्च तत्रैव । अपचिताय तत्सहायेभ्यश्च गृहेषु पृथगन्नसंस्कारः । गोश्च वपाश्रपणं होमश्चौपासन एवेत्यनुष्ठानप्रकारः ॥८॥
सुदर्शनः
योऽस्य वरस्य पित्राचार्यत्वादिना सम्बन्धी, लोके चापचितो विद्याभिजनादिसम्पत्त्या । यद्वा वरस्यापचितः पूज्यः । तमितरया गृहेषु सन्निधापितया अतिथिवदर्हयेदिति सम्बन्धः । एतन्मधुपर्कद्वयमपि विवाहाङ्गं, प्रकरणात् । दातृपुरुषार्थत्वे तु “आचार्यायर्त्विजे श्वशुराय राज्ञे वरायापचिताय च” इति ब्रूयात् । प्रत्युत “अतिथिः पितरो विवाहश्च” (आप.गृ.३-१०.) इति विवाहसम्बन्धमेवाह । ननु–वरं चापचितं चातिथिवदर्हयेदिति वक्तव्ये “विवाहे गौः” इत्यादि किमर्थम्? उच्यते– उभयोः पूजयोर्भिन्नदेशत्वेन भिन्नतन्त्रत्वज्ञापनार्थम् ; इतरथा सम्भवतां तन्त्रता स्यात् । “सर्वेभ्यो वैकामविभवत्वात्” इति कल्पान्तरे सर्वेभ्यः ऋत्विग्भ्यो विकल्पेन गवैकत्वदर्शनादिहापि वरापचितयोर्विकल्पेन प्रसक्तं गवैकत्वं माभूदिति प्रतिषेधार्थं च ॥९॥
मूलम् ...{Loading}...
योऽस्यापचितस्तमितरया।
०३ १० एतावद्गोरालम्भस्थानमतिथिः
०३ १० एतावद्गोरालम्भस्थानमतिथिः ...{Loading}...
एतावद्गोरालम्भनम् - अतिथिः पितरो विवाहश्च १०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- These are the occasions for killing a cow: (the arrival of) a guest, (the Aṣṭakā sacrifice offered to) the Fathers, and marriage.
हरदत्तः
एतेष्वेव त्रिषु स्थानेषु गोरालम्भः नान्यत्र पाकयज्ञेषु । अतिथिशब्देनातिथ्यकर्म व्यपदिश्यते “यत्रास्मा अपचितिं कुर्वन्ति” (आप.गृ.१२.३.) इत्येवमादि । पितृशब्देनाष्टका कर्म “श्वोभूते दर्भेण गाम्”(आप.गृ.२२-३) इत्यादि । विवाहशब्देनानन्तरोक्तस्य ग्रहणम् । कल्पान्तरेष्वीशानयज्ञादावपि गोरालम्भ आम्नातः, तत्प्रतिषेधार्थो नियमः । एवं ब्रुवता कल्पान्तरे दृष्टा अन्ये विशेषा अभ्यनुज्ञाता भवन्ति ॥९॥
सुदर्शनः
अतिथिः वेदाध्याय्यागतः पितरः अष्टकाकर्म, विवाहश्चेति, यदेतत्त्त्रयं एतावत् गवालम्भाङ्गकर्मनिमित्तम् । एतदुक्तं भवति– यथाऽतिथिः पितरश्च गवालम्भाङ्गकर्मनिमित्तभूताः एवं विवाहोऽप्यस्मादेव वचनाद्विशेषणान्तरनिरपेक्षा इति । यद्येतत्सूत्रमेवं न व्याख्यायेत तदा “गौरिति गां प्राह” (आप.गृ.१३-१५.) “श्वोभूते दर्भेण गामुपाकरोति” (आप.गृ.२२-३.) “विवाहे गौः” (आप.गृ.३-६.) इत्येतैरेव सिद्धत्वात् व्यर्थमेव स्यात् ; तेन अवेदाध्यायिभ्यामपि वरापचिताभ्यां धर्मोक्तगोरहितो मधुपर्को देयः । वेदाध्यायिभ्यां तु तत्सहित इति ॥ केचित्– एतत्त्त्रयमेवास्माकं गोरालम्भस्थानम्, न पुनरन्येषामिव विकल्पेनापीशानबलिश्शूलगवापरनामा । एवं वदन्नस्माकमपि कल्पान्तरोक्तानपि विशेषान् विकल्पेनानुजानातीति ॥१०॥
मूलम् ...{Loading}...
एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च।
०३ ११ सुप्तां रुन्दन्तीम्
०३ ११ सुप्तां रुन्दन्तीम् ...{Loading}...
+++(वरे प्राप्ते)+++ सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत् ११
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 6 Let (the wooer) avoid in his wooing a girl that sleeps, or cries, or has left home.
हरदत्त-प्रस्तावः
अथ विवाहे वर्जनीयाः कन्या आह–
हरदत्तः
वरेषु वरणार्थं प्राप्तेषु या कन्या स्वपिति रोदिति निष्क्रामति वा गृहात्, तस्या वरणं न कर्त्तव्यम् । अशुभलिङ्गान्येतानीति । परिशब्दोऽत्यन्तप्रतिषेधार्थः मनश्चक्षुषोर्निबन्धे सत्यपीति ॥११॥
सुदर्शनः
या वरेषु वरणार्थं प्राप्तेषु स्वपिति, या रोदिति, या वा गृहान्निष्क्रामति, ता एता वरणे परिवर्जयेत् अत्यन्तं वर्जयेत्, ऋद्धौ ज्योतिषादिभिर्ज्ञातायामपि ; यतस्स्वापादीनामत्रानृद्धिलिङ्गत्वं प्रबलत्वं च विवक्षितम् ॥११॥
मूलम् ...{Loading}...
सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत्।
०३ १२ दत्ताङ् गुप्ताम्
०३ १२ दत्ताङ् गुप्ताम् ...{Loading}...
दत्तां गुप्तां +++(=अदर्शिता)+++ द्योताम् +++(=पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा)+++ ऋषभां +++(=ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा)+++ शरभां +++(= शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, केचित्दर्शनीया)+++ विनतां +++(=कुब्जां)+++ विकटां +++(विस्तीर्ण-जङ्घां)+++ मुण्डां मण्डूषिकां +++(=वामनाङ्गा, दग्धाङ्गा वा ।)+++ साङ्कारिकां रातां +++(=रतिशीलां)+++ पालीं +++(=वत्सादीनां पालयित्रीं)+++ मित्रां +++(=बहुमित्रां)+++ स्वनुजां +++(=केचित्वरजन्मसंवत्सर एव पश्चाज्जातेति।)+++ वर्षकारीं +++(=स्वेदशीलामिति केचित्। वराद्वर्षेणाधिका ।)+++ च वर्जयेत् १२
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 7 And let him avoid one who has been given (to another), and who is guarded (by her relations), and one who looks wicked (?), or who is a most excellent one (?), or (who is like the fabulous deer) śarabha (?), a hunch-back, a girl of monstrous appearance, a bald-headed girl, a girl whose skin is like a frog’s (?), a girl who has gone over to another family (?), a girl given to sensual pleasures (?), or a herdess, or one who has too many friends, or who has a fine younger sister, or one whose age is too near to that of the bridegroom (?).
हरदत्तः
दतावाचान्यस्मै दत्ता । गुप्ता प्रयत्नेन रक्ष्यमाणा । दुश्शीला वा सा भवति अशुभलक्षणा वा । द्योता विषमदृष्टिः । ऋषभा ऋषभशीला । शरभा अतिदर्शनीया । जारास्तां कामयेरन् सा च तान् । विनता विनतगात्रा, कुब्जा वा । विकटा विस्तीर्णजङ्घा । मण्डा अपनीतकेशा । मण्डूषिका मण्डूकत्वकश्लक्ष्णेत्यर्थः । वामनेत्यन्ये । सांकारिका कुलान्तरे जाता कुलान्तरस्यापत्यत्वं गता वा, यस्यां वा गर्भस्थायां माता अस्थिसञ्चितवती । राता रतिशीला । पाली वत्सादीनां पालयित्री । मित्रा वमित्रवती बहुमित्रेत्यर्थः । स्वयं वा मित्रभूता । स्वनुजा यस्या स्वनुजा शोभना स्वयंदर्शनीया सा स्वनुजा वरजननादूर्ध्वमल्पीयसि काले जाता तस्मिन्नेव संवत्सरे जातेत्यन्ये । वर्षकारी वर्षेणाधिका वर्षकारी स्वेदनशीला इत्यन्ये । वर्जयेदित्युच्यते वरणे परिवर्जयेदित्यस्यानुवर्तनं माभूदिति । तेन येषु वरणं नास्ति ब्राह्मादिषु विवाहेषु तेष्वप्यासां प्रतिषेधः । किञ्च तदनुवृक्तावत्यन्तप्रतिषेधप्रसङ्गः ॥१२॥
सुदर्शनः
दत्ताद्याःपञ्चदश कन्या वर्जयेत् । दत्ताअन्यस्मै वाचा प्रतिश्रुता, उदकपूर्व वा प्रतिपादिता । गुप्ताअदर्शनार्थ कञ्चुकादिभिरावृता, प्रयत्नसंरक्ष्यमाणा वा दौश्शील्यादिशङ्कया । द्योता पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा । ऋषभा प्रधाना, ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा, ककुद्वास्ति यस्यास्सा । शरभा शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, निष्प्रभा वा । केचित् दर्शनीया, यतस्सा जारकाम्या । विनता कुब्जा । विकटा विकटजङ्घा, विस्तीर्णजङ्घा वा । मुण्डा अपनीतकेशा, अजातकेशा वा । मण्डूषिका अल्पकाया, अरुणदती वा मण्डूकत्वग्वा । अपरेवामनाङ्गा, दग्धाङ्गा वा । साङ्कारिका गर्भस्थायां यस्यां सत्यां माता भर्तुरस्थिसञ्चयनकारिका, कुलान्तरस्य दुहितृत्वं गता वा । राता रमणाशीला कन्दुकादिक्रीडाप्रियेत्यर्थः, ऋतुस्नाता वा । केचित्– रतिशीला विषयोपभोगशीलेत्यर्थः । पाली वत्सक्षेत्रादिपालिका । मित्रा बहुमित्रा, सखी वा । स्वनुजा शोभनानुजा यस्यास्सा, न तु शोभनोऽनुजो यस्याः शोभनायामनुजायां कदाचित् प्रमादस्स्यादिति । केचित् वरजन्मसंवत्सर एव पश्चाज्जातेति । वर्षकारी वराद्वर्षेणाधिका । यात्यन्तं स्रवति सा वा । परिवर्जयेदित्यनुशङ्गे सत्यपि वर्जयेदिति पुनर्वचनं ब्राह्मादिषु सर्वेषु विवाहेष्वासां प्रतिषेधार्थम्; सति गत्यन्तरे ऋद्धावपि परीक्षितायां दत्तेततरासामनिषेधार्थं वा ॥१२॥
मूलम् ...{Loading}...
दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत्।
०३ १३ नक्षत्रनामा नदीनामा
०३ १३ नक्षत्रनामा नदीनामा ...{Loading}...
नक्षत्र-नामा नदी-नामा वृक्ष-नामा च गर्हिताः १३
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 8 Girls who have the name of a Nakṣatra, or of a river, or of a tree, are objectionable.
हरदत्तः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
नक्षत्रनामा नदीनामा वृक्षनामाच गर्हिताः।
०३ १४ सर्वाश्च रेफलकारोपान्ता
०३ १४ सर्वाश्च रेफलकारोपान्ता ...{Loading}...
रेफ-लकारोपान्ता +++(=गौरी शालीत्याद्या)+++ वरणे परिवर्जयेत् १४
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And all girls in whose names the last letter but one is r or l, one should avoid in wooing.
हरदत्तः
नक्षत्रं नाम यासां ता तथा नक्षत्रनामाः, नदीनामाः वृक्षनामाश्च रोहिणी गङ्गा करेजेत्यादयः । ताश्च विवाहे गर्हिताः । तथा सर्वाश्च रेफलकारोपान्त्याः एवं भूतं नाम इत्यर्थः । करा काला सुवेलेत्यादयः । ताः वरणे परिवर्जयेत् वरणमप्यासां न कर्तव्यमित्यर्थः ॥१४॥
सुदर्शनः
नक्षत्रस्य नामेव नाम यासां नक्षत्रनामाः । एकस्य नामशब्दस्य लेपः, उष्ट्रमुखादिवत् । एवमिखादिवत् विग्रहः रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः । गङ्गेत्यादयो नदीनामाः । शिंशुपेत्याद्या वृक्षनामाः । गर्हीताः वर्जनीयाः ॥१३॥ रेफो वा लकारो वा यासां नाम्नौपान्त उपधेत्यर्थः यथा गौरी शालीत्यादि । शेषं व्यक्तम् । अत्र चकारेण गर्हिता इत्यनुकर्षणा तासां वर्जनीयत्वे सिद्धे “सर्वा वरणे परिवर्जयेत्” इति व्यर्थम् । न; सुग्रहार्थत्वात् । अथ वा या एता रेफलकारोपान्ता गौरी शालीत्याद्या, याश्च प्रकारान्तरेणापि स्मृत्यन्तरोक्ता रेफलकारोपान्ताः, यथा सगोत्रा समानप्रवरा पुंश्चलीति तास्सर्वा वरणे परिर्जयेदिति ज्ञापनार्थम् । इदं त्विहवक्तव्यमसत्यपि गत्यन्तरे व्यक्तेऽप्यृद्धिलिङ्गे सगोत्रादीनां सर्वथा निषेध एव । गौर्यादीनां तु न तथा गुप्तादीनामिवेति ॥ केचित्– नक्षत्रनामेत्यादिकेयं शास्त्रान्तरगीता गाथा, तस्याः पादपूरणानि “सर्वा वरणे परिवर्जयेद्” इति पदानीति परिकल्पयन्तो, यस्मान्नक्षत्रादिनामा रेफलकारोपान्ताश्च गर्हिताः तस्मात्तास्सर्वो वरणे परिवर्जयेदिति व्याचक्षते ॥१४॥
मूलम् ...{Loading}...
सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत्।
०३ १५ शक्तिविषये द्रव्याणि
०३ १५ शक्तिविषये द्रव्याणि ...{Loading}...
कन्या-परीक्षा - शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति १५
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- If possible, he should place (the following) objects hidden before the girl, and should say to her, ‘Touch (one of these things).’
हरदत्तः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति।
०३ १६ नाना बीजानि
०३ १६ नाना बीजानि ...{Loading}...
नाना बीजानि संसृष्टानि, वेद्याः पांसून्, क्षेत्राल्लोष्टं, शकृच्, छ्मशानलोष्टमिति १६
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The objects are), different kinds of seeds mixed together, loose earth from (the kind of sacrificial altar called) vedi, an earth-clod from a field, cow-dung, and an earth-clod from a cemetery.
हरदत्तः
“लक्षणसम्पन्नामुपयच्छेत” इति वक्ष्यति । तत्र लक्षणानामज्ञातत्वात् तत्परीक्षणोपाय उपदिश्यते । न चायं नित्यो विधिः; “शक्तिविषय” इति वचनात् । शक्तिस्सामर्थ्यं यदि सम्भवः । यदि वधूज्ञातयोऽनुमन्येरन् तदा कर्तव्यं नान्यथेत्यर्थः । तत् कथं कर्तव्यम्? उच्यते–द्रव्याणि पञ्चवक्ष्यमाणानि मृत्पिण्डेषु प्रतिच्छन्नानि कृत्वा उपनिधाय कन्यासमीपे निधाय तां ब्रूयाद्वरः–एषां पिण्डानां एकमुपस्पृशेति । कानि पुनस्तानि द्रव्याणि? नानाबीजानि संसृष्टानि व्रीहियवादीनि । वेद्याः पांसूनाहृतान्, सस्यसम्पन्नात् क्षेत्रादाहृतं लोष्टं, शकृत् गोमयं, श्मशानादाहृतं लोष्टमित्येतानि । बीजानां द्रव्यत्वाव्यभिचारेऽपि द्रव्याणीत्युच्यते–शास्त्रान्तरे दृष्टानामन्येषामपि द्रव्याणामिह विकल्पेन प्राप्त्यर्थं तद्यथा– अविदासिनो हृदात्सर्वसम्पन्ना देवनात् कितवी इरिणादधन्येति (आश्व. गृ. १-५-६.) ॥१६॥
सुदर्शनः
शक्तिस्सामर्थ्यम् । विषयोऽवकाशः । अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः । यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् । द्रव्याणि वक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति ॥१५॥ कानि तानीत्यत आह– नानाबीजानि व्रीहियवादिबीजानि । संसृष्टानि एकस्मिन् पिण्डे क्षिप्तानि । वेद्याः सौमिक्याः आहृतान् पांसून् । क्षेत्रात् सस्यसम्पन्नादाहृतं लोष्टम् । अविशिष्टे प्रसिद्धे ॥१६॥
मूलम् ...{Loading}...
नाना बीजानि संसृष्टानि वेद्याः पाँसून् क्षेत्राल्लोष्टँ शकृच्छ्मशानलोष्टमिति।
०३ १७ पूर्वेषामुपस्पर्शने
०३ १७ पूर्वेषामुपस्पर्शने ...{Loading}...
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः १७
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 If she touches one of the former (objects, this portends) prosperity as characterized (by the nature of what she has touched).
हरदत्तः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी- इदं सूत्रम् अग्रिमे व्याख्यातम् ।)+++
मूलम् ...{Loading}...
पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः।
०३ १८ उत्तमम् परिचक्षते
०३ १८ उत्तमम् परिचक्षते ...{Loading}...
उत्तमं परिचक्षते १८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The last is regarded as objectionable.
हरदत्तः
तत्र बीजस्पर्शने प्रजाभिस्समृद्धिः । वेदिपुरीषे यज्ञैः, क्षेत्रलोष्टे धनधान्यैः, गोमये पशुभिः, श्मशानलोष्टे मरणमिति यथालिङ्गार्थः । उत्तमम् अन्त्यं द्रव्यं परिचक्षते गर्हन्ते वर्जयन्तीत्यर्थः ॥१८॥
सुदर्शनः
पूर्वेषां चतुर्णामुपस्पर्शने यथालिङिगमृद्धिः । नानाबीजानामुपस्पर्शने प्रजानां समृद्धिः । वेद्याः पांसूनां यज्ञानां, क्षेत्राल्लोष्टस्य सस्यानां, शकृतश्च पशूनामिति । ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्थः ॥१७॥ उत्तमं श्मशानलोष्टं परिचक्षते गर्हन्ते शिष्टाः, जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादिति ॥१८॥
मूलम् ...{Loading}...
उत्तमं परिचक्षते।
०३ १९ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत
०३ १९ बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ...{Loading}...
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत १९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Let him marry a girl of good family and character, with auspicious characteristics, and of good health.
हरदत्त-प्रस्तावः
उद्वाह्यामाह–
हरदत्तः
उक्ता वर्जनीयाः कन्याः । अथ ग्राह्या उच्यन्ते । बन्धुशब्देन कुलमुच्यते । यदुक्तमाश्वलायनेन “कुलमग्रे परिक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरस्ताद्” (आश्व. गृ. १-५-१०.) इति । शीलसम्पन्ना आर्यशीला । लक्षणसम्पन्ना स्त्रीलक्षणैरुपेता रोगराहिता क्षयापस्मारादिरहिता ॥१९॥
सुदर्शनः
अत्र सम्पन्नाम् इति प्रत्येकं सम्बध्यते । बन्धुसम्पन्नां प्रशस्ताभिजनाम् । शीलसम्पन्नाम् आस्तिक्यादिगुणान्विताम् । लक्षणसम्पन्नां गूढगुल्फत्वादिस्त्रीलक्षणयुक्ताम् । अरोगां क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिताम् । उपयच्छेत उद्वहेत् ॥१९॥
मूलम् ...{Loading}...
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ।
०३ २० बन्धुशीललक्षणसम्पन्नश्रुतवानरोग
०३ २० बन्धुशीललक्षणसम्पन्नश्रुतवानरोग ...{Loading}...
(वर-चयनम् -) बन्धुशील-लक्षण-सम्पन्नश् श्रुतवान् अरोग इति वरसम्पत् २०
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Good family, a good character, auspicious characteristics, learning, and good health: these are the accomplishments of a bridegroom.
हरदत्त-प्रस्तावः
अथ वरगुणानाह–
हरदत्तः
श्रुतवान् श्रुताध्ययनसम्पन्नः । वरसम्पत् वरगुणाः । एवंगुणाय कन्यका देयेत्यर्थः ॥१६॥
सुदर्शनः
बन्धुशीललक्षणसम्पन्न इति पूर्ववद्व्याख्यानम् । श्रुतवान् श्रुताध्ययनसम्पन्नः ; अविदुषश्चोदितकर्मानधिकारात्, धर्माद्यर्थत्वाच्च विवाहस्य । अरोग इति पूर्ववत्; तस्याप्यसमर्थत्वेनानधिकारात् । एवंभूता वरसम्पत् । एवङ्गुणाय वराय कन्या देयेत्यर्थः ॥२०॥
मूलम् ...{Loading}...
बन्धुशीललक्षणसम्पन्नश्रुतवानरोग इति वरसम्पत् ।
०३ २१ यस्याम्
०३ २१ यस्याम् ...{Loading}...
यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिर् नेतरद् आद्रियेतेत्य् एके २१
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- A wife who is pleasing to his mind and his eyes, will bring happiness to him; let him pay no attention to the other things: such is the opinion of some.
हरदत्त-प्रस्तावः
अथर्द्धिनिश्चये एकीयं मतमाह–
हरदत्तः
यस्यां कन्यायां वरस्य मनसश्चक्षुषश्च निबन्धः तृप्तिरुत्पद्यते तस्यामृद्धिर् ध्रुवा, नेतरत् न दत्तादिगुणदोषाद्यनुदर्शनमादरणीयमित्य् एके शिष्टा ब्रुवते । अत्र पक्षे सर्वगुणसम्पन्नायामपि यस्यां मनश्चक्षुषी न निबध्येते सा वर्जनीया । शास्त्रनिषिद्धास्तत्रापि पक्षे वर्ज्या एव, यथा सवर्णा सगोत्रेति ॥२१॥
सुदर्शनः
यस्यां कन्यायां वरस्य मनश्चक्षुषोर्निबन्धः नितरां बन्धनं, यस्यामासक्त्यतिशयेन मनश्चक्षुषी निबद्धे अव तिष्ठत इत्यर्थः । **तस्यां जायायां सत्यां धर्मादीनां समृद्धिः, नेतरत् **गुणदोषानुदर्शनम् आद्रियेत इत्येके ब्रूवते । एतदुक्तं भवति– अत्र मनश्चक्षुषोर्निबन्ध एवादरणे कारणम्, न तु ज्योतिषादिना ज्ञाता गुणाः । तथा तदभाव एव परिवर्जने कारणम्, न स्वापादयो दोषा इति । उभयोरपि मतयोर्दत्तादीनां निषेधमाद्रियेतैव; “सवर्णापूर्वशास्त्रविहितायाम्” (आप.ध. २-१३-१.) “असमानार्षगोत्रजाम्” “पञ्चमात् सप्तमादूर्ध्वम्” इत्यादिवचनजातात् ॥२१॥ इत्थं सुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥ प्रथमे पटलेऽकारि यथाभाष्यं यथामति ॥ इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने तृतीयः खण्डः ॥ समाप्तश्च प्रथमः पटलः
मूलम् ...{Loading}...
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके ।
-
On the Nakṣatra Invakās, comp. Section 3, Sūtra 4. This Sūtra forms a Śloka-hemistich, on which Haradatta observes, ‘This verse has not been made by the Sūtrakāra.’ ↩︎ ↩︎
-
3, 1, 2. Comp. Ṛg-veda X, 85, 13; Atharva-veda XIV, i, 13; Kauśika-sūtra 75; Rāmāyaṇa I, 71, 24; 72, 13; Weber, Die vedischen Nachrichten von den Naxatra, II, 364 seq. These parallel passages most decidedly show that in Sūtra 2 we ought to read vyuhyate, not vyūhyate. ↩︎
-
Comp. Taittirīya Brāhmaṇa I, 5, 2, 3. ↩︎
-
Comp. Sūtra 3, and above, Section 2, Sūtra 16. ↩︎
-
5-8. Comp. Śāṅkhāyana-Gṛhya I, 12, 10. It is clear that with the first cow the bride’s father has to receive the bridegroom. The ‘house’ mentioned in Sūtra 6 seems to be the house of the newly-married couple. In the expression ‘whom he reveres,’ ‘he,’ according to the commentaries, is the bridegroom. ↩︎
-
This Sūtra forms a half-śloka. ↩︎
-
Most expressions in this Sūtra are quite doubtful, and their translation rests on the explanations of the commentators (see pp. 44, 45 of Dr. Winternitz’s edition), which are evidently for the most part only guesses. ↩︎
-
12, 13. These Sūtras would require only slight alterations to make a śloka. ↩︎