०१ ०१ अथ कर्माण्य्
०१ ०१ अथ कर्माण्य् ...{Loading}...
अथ कर्माण्य् आचाराद् यानि गृह्यन्ते।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 Now (follow) the ceremonies (the knowledge of) which is derived from practice (and not from the Śruti).
हरदत्तः
नमो रुद्राय यद्गृह्यमापस्तम्बेन निर्मितम् । क्रियते हरदत्तेन तस्य वृत्तिरनाकुला ॥ द्विप्रकाराणि कर्माणि–श्रुतिलक्षणानि आचारलक्षणानि च । तत्र श्रुतिलक्षणानि व्याख्यातानि । अथेदानीं यानि कर्माणि विवाहप्रभृतीनि आचारात् प्रयोगात् गृह्यन्ते ज्ञायन्ते, न प्रत्यक्षश्रुतेः, तानि व्याख्यास्यामः । किं प्रयोजनं सूत्रस्य? स्मार्तानां कर्मणां अधिकारः । तेन उदगयनादिनियमः -“सर्वत्र स्वयं प्रज्वलितेऽग्नाव्”(आप.गृ.८-५.) इत्येवमादीनि च गार्ह्येष्वेव कर्मसु भवन्ति, न श्रौतेषु । अत्राथशब्देन श्रौतोपदेशानन्तरं स्मार्तोपदेशं करिष्यामीति वदन् तदपेक्षामस्य दर्शयति । तत्र याः परिभाषाः “स त्रयाणां वर्णानां”(आप.परि १-२.) “मन्त्रान्तैः कर्मादीन् सन्निपातयेत्”(आप.परि.२-१.)“रौद्र, राक्षस”(आप.परि. २-९.) “तदिदं सर्वप्रायश्चित्त"मित्येवमाद्यास्ता इहापि भवन्ति (इदंकार्याणि) ॥
सुदर्शनः
यो वर्णैरिज्यते नित्यैः कर्मभिश्चोदितैर्निजैः । तेभ्योऽ(१) पवर्गदो यश्च तं नमाम्यद्वयं हरिम्(२) ॥१॥ आपस्तम्बमुनिं वन्दे मन्दधीहितकाम्यया । योऽनुष्ठेयपदार्थानां क्रमकल्पमकल्पयत् ॥२॥ यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः । स कपर्दी चिरं जीयाद्वेदवेदार्थतत्त्ववित् ॥३॥ सुदर्शनार्यः(३)कुरुते गृह्यतात्पर्यनिर्णयम्(४) । केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि ॥४॥
अथशब्द आनन्तर्यार्थः । तदर्थं पूर्ववृत्तमुच्यते । इह हि यज्ञा एकविंशतिभेदाः । तत्र च सप्त पाकयज्ञसंस्थाः- औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति । सप्त च हविर्यज्ञसंस्थाः–अग्निहोत्रं, दर्शपूर्णमासा, वाग्रयणं, चातुर्मास्यानि, निरूढपशुबन्धस्, सौत्रामणिः, पिण्डपितृयज्ञादयो दर्वीहोमा इति । (५)सप्तैव च सोमसंस्थाः–अग्निष्टोमो,ऽत्यग्निष्टोम, उक्थ्य, ष्षोडशी, वाजपेयो,ऽतिरात्रोऽप्तोर्याम इति । एते च नित्याः नियतप्रदोषादिकालीनजीवननिमित्तका इत्यर्थः । कुत एते नित्याः? “जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः”, (तै.सं.६-३-१०.) इत्यत्र “यज्ञेन” इत्यकवचनं “यज्ञं व्याख्यास्यामः”(आप.परि.१-१.) इतिवत् जात्यभिप्रायं मन्यमानस्य भगवतो वसिष्ठस्य “नैयमिकं ह्येतदृणत्रयं संस्तुतम्” (व.सं.११-४७.) इति वचनेन एषामवश्यानुष्ठेयत्वावगमात् । तथा “सायं प्रातरत ऊर्ध्वम्”(आप.गृ. ७-१९.) “यावज्जीवमग्निहोत्रं जुहोति,” “वसन्ते ज्योतिष्टोमेन यजेत”(आप.श्रौ.१०-२-५.) इत्येवमादिभिः,“अहरहः प्रवृज्यते”( तै.ब्रा. २-१-३.), अर्धमासेऽर्धमासे प्रवृज्यते”(तै.बार.३-२-८.), “पुनर्भक्ष्योऽस्य सोमपीथो भवति” (तै.ब्रा. ३-२-३). इत्येवमादिभिः, (१) कर्मण्यारम्भन्यायेन च प्रयोगाभ्यासावगमात् । तथैव सोमस्येषट्यादेश्चाकरणे ऐन्द्राग्नपशुविभ्रष्टेष्ट्यादि प्रायश्चित्तविधानेन प्रत्यवायोत्पत्त्यवगमात् । तथैव"स एतांश्चतुर्होतॄनात्मस्परणानपश्यत्" (तै.ब्रा.२-३-७.) इति अग्निहोत्रादिसोमान्तानामात्मनिष्क्रयणार्थत्वावगमात् । न तु सौर्यादिवत्(२) केवलं काम्याः उक्तहेतूनां सर्वेषामनुपपत्तेः । यत एवैते नित्याः अत एव “अनाहिताग्निता स्तेयम्” (मनु.११-६५. ) इत्यनाहिताग्निताया उपपातकगणे पाठः । अत एव नित्याधिकारविधिप्रयुक्तमाधानम् । काम्यसिद्धिस्तु नित्यानुष्टानेनैव गुणफलाधिकारविधया प्रासङ्गिकी भवतु ।
मीमांसकमत्या तु यद्यपि काम्याधिकारविधिप्रयुक्तमाधानं, काम्यानुष्ठानेन च नित्यसिद्धिः(३) प्रसङ्गात् ; तथापि कल्पसूत्रकाराणां प्रक्रियया साधिकारत्वेन (४)प्रयुक्तिशक्तियोग्यतया अन्यतोऽप्रयुक्तौ नित्याधिकारविधिप्रयुक्तिरप्युपपन्ना । यथा (५)विवरणमते स्वविधिप्रयुक्तमध्ययनमिति । तस्मात् मन्दमध्यमोत्कृष्टबुद्धिभिस्(६)सर्वैरपि त्रैवर्णिकैरेतेऽवश्यं कर्तव्याः । ते च नानासाधनका नानाशाखान्तरस्थाङ्गका मीमांसान्यायसहस्रनिर्धार्यवचनव्यक्तिका मन्दबुद्धिभिरिदानीन्तनैर्(७) दुर्ज्ञानाः अज्ञाने चानुष्ठातुमशक्ताः कथञ्चन प्रत्यवेयुरिति कृपाविष्टचेतस्कतया सूत्रकारेण “यज्ञं व्याख्यास्यामः” (आप.परि.१-१. ) इति परिभाषायामेकविंशतियज्ञान् सामान्यतः (८)संक्षेपतश्च व्याखायाय तावन्मात्रेणानुष्ठानानुपयोगात् “अथातो दर्शपूर्णमासौ” (आप.श्रौ.१-१) इत्यारभ्य श्रौता हविर्यज्ञास्सोमसंस्थाः (९) क्षामवत्यादयो नैमित्तिकाः प्रसङ्गात् काम्याश्च (१०)विशेषतो व्याख्याताः ॥ अथ अनन्तरम् । आचारात्– आङित्युपसर्गस्य अविच्छेदो व्याप्तिरभिप्रेतोऽर्थः । चारः चरणं कर्मसु प्रवर्तनम्, “पिण्डपितृयज्ञेन चरन्ति” (आप.श्रौ.१-७-२. ) इत्यादौ दर्शनात् । तेन यत्सर्वेषु देशेषु सर्वेषु कोलेषु च सर्वैस्त्रैविद्यवृद्धैश्शिष्टैर्लौकिकप्रयोजनाभावेऽप्यविच्छिन्नमवि(१)गानेनाद्रियमाणं, अतएव मूलान्तरासम्भावात् स्वमूलभूतवेदानुमाने लिङ्गभूतं कर्मसु प्रवर्तनं स आचारः । तस्मादाचारात् अनुमितैर्वेदैः यानि औपासनहोमादीनि पाकयज्ञशब्दवाच्यानि पाणिग्रहणादीनि च यज्ञेष्वधिकारिष्यमाणदेहसंस्कारार्थानि कर्माणि गृह्यन्ते ज्ञायन्ते कर्तव्यत्वेन तानि व्याख्यास्याम इति शेषः । यत एव आचारानुमेयवेदावगम्यानि गार्ह्याणि कर्माणि अत एव तेभ्यः प्रथममनुष्ठेयेभ्योऽपि पूर्व श्रौतानां व्याख्यानं कृतम् ; प्रत्यश्रुतिविहितेषु जिज्ञासायाः प्रथमभावित्वात्, अनुमितवेदार्थजिज्ञासाया(२)श्चरमभावित्वात्, जिज्ञासाशान्त्यर्थत्वाच्च व्याख्यानस्येति । अत्र च आचारादित्याचारेणोपलक्ष्य गार्ह्याणि कर्माणि वदन्नेवं ज्ञापयति– इह साक्षादनिबद्धानामपि येषां “जमदग्नीनां तु पञ्चावत्तम्” (आप.श्रौ.२-१८-२. ) इत्यादीनां पदार्थानामाचारः कृत्स्नदेशादिव्याप्तस्स्यात् तेऽपि वेदमूला एवेति । कृत्स्नदेशादिव्याप्तिश्चाधिकपौनरुक्त्यादिभिश्श्रौते दर्शनेन गृह्यान्तरैर्धर्मशास्त्रैः न्यायबलेन सम्प्रदायविद्व्याख्यातृवचनैर्वा निश्चेतव्या । इदं चाधिकारसूत्रम् । यान्यङ्गान्युत्तरत्र “पुरस्तादुदग्वोपक्रमः” (आप.गृ १-५.) इत्यादीनि वक्ष्यन्ते तेषां गार्ह्यकर्मार्थतां, श्रौतानां सार्वत्रिकाणामपि स्वतोऽनिदमर्थतां च ज्ञापयितुम् । एतच्च(३) समानोपदेशातिदेशयोरभावात् ॥ केचित् — कर्माणीत्येतद्गृह्ये वक्ष्यमाणान्यस्मच्चरणार्थान्येव, न तु धर्मशब्दाधिकृतधर्मशास्त्रोक्तवत्सर्वार्थानि । तथा श्रौतानन्तरं गार्ह्याधिकारः श्रौतोक्तसार्वत्रिकधर्मामामिह प्राप्त्यर्थ इति ॥
मूलम् ...{Loading}...
अथ कर्माण्य् आचाराद् यानि गृह्यन्ते।
०१ ०२ उदगयन-पूर्वपक्षाहः-पुण्याहेषु
०१ ०२ उदगयन-पूर्वपक्षाहः-पुण्याहेषु ...{Loading}...
उदगयन-पूर्वपक्षाहः-पुण्याहेषु कार्याणि।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- They should be performed during the northern course of the sun, on days of the first fortnight (of the month), on auspicious days,
हरदत्तः
उदगयनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् । समुच्चयश् चोदगयनादीनां न विकल्पः । पुण्याहाः देवनक्षत्राणि ज्योतिश्शास्त्रे प्रसिद्धानि यमनक्षत्राणि च तद्-विहितानि ।
सुदर्शनः
उदगयनादयः प्रसिद्धाः । पुण्याहास् त्व् अह्नो नवधा विभक्तस्यायुजो भागाः–प्रातस्सङ्गव(१) मध्याह्नापराह्णसांयशब्दवाच्याः पुण्यनक्षत्रापरपर्यायाः पञ्च । “समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि” (तै. ब्रा.१-५-३) ‘मित्रस्य सङ्गवः । तत्पुण्यं तेजस्स्व्यहः’ (तै. ब्रा.१-५-३.) इत्यादिश्रुतेः । युग्मास्त्वश्लीलाः, “चत्वार्यश्लीलानि” (तै. ब्रा.१-५-३.) इति श्रुतेः ।
केचित् कृत्तिकादिविशाखान्तानि देवनक्षत्राणि पुण्याहाः, ‘यान्येव देवनश्रत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते’ (तै. ब्रा.१-५-२.) इति श्रुतेः ।
उदगयनेत्यादिरयं समासो द्वन्द्वः । तेषु कार्याणि । गार्ह्याणीति शेषः ।
एषां समुच्चयः न विकल्पः ।
एतच् च सामान्यविधानं तत्र तत्र विशेष-विधानेनापोद्यते नियम्यते च ।
एवम् उदग्-अयनादीनां विधाने सत्य् अपि क्वचिदनियमः प्रतिभासते । “सर्व ऋतवो विवाहस्य” (आप. गृ. २-१२.) इति वचनाद् यदा दक्षिणायनेऽपि विवाहस् स्यात् तदा समावर्तनं तत्-काल-समीपकाल एव । इतरथा उदगयन-समावृत्तस्य शरदि विवाहे सति बहु-काल-व्यवधाने,“अनाश्रमी न तिष्ठेत दिनम् एकमपि द्विजः” । (दक्षसं.अ. १. ) इति निषेधातिक्रम-प्रसङ्गात् ।
किञ्च आश्वलायनगृह्ये “उदगयन आपूर्यमाण-पक्षे कल्याणे नक्षत्रे चौल-कर्मोपनयन-गोदान-विवाहाः” (आश्व. गृ. १-५.) इत्यत्र चौलविकारत्वादेव गोदानस्य उदगयनप्राप्तौ पुनस्तत्र तद्विधिः तद्विकारान्तरे समावर्तने उदगयन-नियम-निवृत्त्यर्थ इति गम्यते ।
तथा बौधायनीये समावर्तनस्य चौल-विकारत्वाद् एव आपूर्यमाण-पक्षप्राप्तौ पुनस् तत्र तद्विधिर्(२) उदगयनानियमार्थ इति गम्यते । तथा गृहनिर्माणप्रवेशयोः ज्योतिश्-शास्त्रे दक्षिणायनस्यापि विधानात् अविगीतशिष्टाचाराच् च उदगयनानियमः ।
तथा अपरपक्षेऽप्यापञ्चम्याः ज्योतिश्-शास्त्राद् एव शिष्टाः कर्माणि आचरन्ति। तथैव ज्योतिश्-शास्त्राद् अन्न-प्राशन(३)-गृहनिर्माण-प्रवेशान् रात्राव् अप्याचरन्ति । तथैव यदा पुण्याहाः ज्यौतिषोक्त-दोषोपहताः तदा अश्लीलेष्व् अपि तदुक्त-गुण-युक्तेषु(४) अविगानेन कर्माण्य् आचरन्ति ।
ज्योतिश्शास्त्रम् अपि (१) वेदाङ्गत्वाद् अगृह्यमाण-कारणत्वात्, शिष्ट-परिगृहीतत्वाच् च कल्पसूत्रादिवद् आदरणीयम् एव । निर्णये तु शिष्टाः प्रमाणं सर्वत्र ॥
मूलम् ...{Loading}...
उदगयन-पूर्वपक्षाहः-पुण्याहेषु कार्याणि।
०१ ०३ यज्ञोपवीतिना कार्याणि
०१ ०३ यज्ञोपवीतिना कार्याणि ...{Loading}...
+++(देवकर्मसु)+++ यज्ञोपवीतिना ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the sacrificial cord suspended over (the sacrificer’s) left shoulder.
हरदत्तः
कार्याणि इत्यनुवर्तते ॥
सुदर्शनः
कार्याणीति सम्बन्धः । ननु यज्ञोपवीतं पाकयज्ञेषु “प्रागपवर्गाणि” (आप. प.२-५. ) इत्यादिना सिद्धम् । विवाहादिहोमेषु जपादिषु च “होमे जप्यकर्मणि” (आप. ध. १-१-१५.) इत्यादिना । अतोऽत्रैतद्विधिर्व्यर्थः । सत्यम्; यत्राप्राप्ति(२)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव ॥
मूलम् ...{Loading}...
यज्ञोपवीतिना।
०१ ०४ प्रदक्षिणम् प्रदक्षिणम्
०१ ०४ प्रदक्षिणम् प्रदक्षिणम् ...{Loading}...
प्रदक्षिणम्।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The rites should be performed) from left to right.
हरदत्तः
प्रदक्षिणं च तानि कर्तव्यानि दक्षिणं पाणिं प्रतिगतं प्रदक्षिणम् । उदाहरणं परिस्तरणादि । ननु–तदिदमुभयमविधेयं, पूर्वमेव श्रौतेषु विहितत्वात् “दैवानी"ति (आप. प. २-१५) तत्रोच्यते, इह मानुषेषु जातकर्मादिष्वप्येतयोः प्रवृत्तिरिष्यते(३)तदर्थमयमारम्भः ।
सुदर्शनः
कार्याणीत्येव सम्बन्धः । इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(४) तद्व्यतिरिक्तगार्ह्यार्थं विधीयते । “तथापवर्गः” (आप.गृ.१–६.) इति चेत्थमेव ॥
मूलम् ...{Loading}...
प्रदक्षिणम्।
०१ ०५ पुरस्तादुदग्वोपक्रमः अनियमे
०१ ०५ पुरस्तादुदग्वोपक्रमः अनियमे ...{Loading}...
+++(देवकर्मसु)+++ पुरस्तादुदग्वोपक्रमः
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The beginning should be made on the east side or on the north side,
हरदत्तः
अनियमे नियमार्थमिदं वचनम् । दक्षिणतः पश्चाद्वोपक्रामो माभूदिति । परिस्तरणाद्येवोदाहरणम् ॥
सुदर्शनः
कार्य इति शेषः । अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते ॥
मूलम् ...{Loading}...
पुरस्तादुदग्वोपक्रमः।
०१ ०६ तथाऽपवर्गः तेषामपवर्गोऽपि
०१ ०६ तथाऽपवर्गः तेषामपवर्गोऽपि ...{Loading}...
तथाऽपवर्गः।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- And also the end.
हरदत्तः
तेषामपवर्गोऽपि तथा प्रत्येतव्यः । पुरस्तादुदग्वेत्यर्थः । अपवर्गः परिसमाप्तिः । न चात्र उपक्रमापवर्गयोः समानमिदं नियमनं क्रियते — पुरस्तादुपक्रान्ते तत्रैव समाप्यं उदगारभ्यं च तत्रैवेति । किं तर्हि यथासंभवं प्रवृत्तिः, तद्यथा परिस्तरणस्य पुरस्तादुपक्रान्तस्य तत्रैवापवर्गासम्भवादुदगपवर्गः । तत्रापवर्गविधेरानर्थक्यं, श्रौतेष्वेव परिभाषितत्वात् “प्रागपवर्गाण्युदगपवर्गाणि वे"ति (आप.प. २-१५.) । उच्यते । यद्यपवर्गविधिः पुनरिह नारभ्यते, अपरेणाग्निं द्वे कुटी कृत्वेऽ(आप.गृ.१२-१४)त्यत्र दक्षिणापवर्गता प्राप्नोति, अत्रोपक्रमस्योदग्गतत्वनियमात् । अतो विप्रतिषेधे अपवर्गबलीयस्त्वं यथा स्यादित्ययमारम्भः । अन्यथा प्रदक्षिणपरिभाषया सामान्यपरिभाषा बाध्यते किञ्चिद्दैवानि कर्माणीति तत्र विशेषितम् । अत्र मानुषेषु कर्मादिष्वपि प्राप्त्यर्थोऽपवर्गनियमः ॥
सुदर्शनः
पुरस्तादुदग्वा क्रियापरिसमाप्तिः कार्येत्यर्थः । ननु– “पुरस्तादुदग्वोपक्रमः” इति विधेरेव समन्तपरिषेकादावर्थसिद्धत्वान्नारब्धव्यं तथापवर्गः, इति । न; अनारभ्यमाणेऽस्मिन् सूत्रे प्राचीलेखोत्पवनादेरुदीचीलेखा(१) कुटीकरणादेश्चापवर्गः प्रत्यक् दक्षिणा च स्यात् । अतस्तद्बाधनायेदमारब्धव्यमेव । केचित्—प्राचीनानां लेखानामुदगुपक्रमः, उदीचीनां च प्रागपवर्गः, अग्निपरिस्तरणवदुभयविध्यसम्भवात्(२) इति ॥
मूलम् ...{Loading}...
तथाऽपवर्गः।
०१ ०७ अपरपक्षे पित्र्याणि
०१ ०७ अपरपक्षे पित्र्याणि ...{Loading}...
अपरपक्षे पित्र्याणि।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 Ceremonies belonging to the Fathers (are performed) in the second fortnight (of the month),
हरदत्तः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
अपरपक्षे पित्र्याणि।
०१ ०८ प्राचीनावीतिना
०१ ०८ प्राचीनावीतिना ...{Loading}...
+++(पित्र्येषु)+++ प्राचीनावीतिना ८
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- With the sacrificial cord suspended over the right shoulder,
हरदत्तः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
प्राचीनावीतिना।
०१ ०९ प्रसव्यम्
०१ ०९ प्रसव्यम् ...{Loading}...
+++(पित्र्येषु)+++ प्रसव्यम् ९
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- From right to left,
हरदत्तः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
सुदर्शनः
+++(सम्पादकटिप्पनी - इदम् सूत्रम् दशमे व्याख्यातम्।)+++
मूलम् ...{Loading}...
प्रसव्यम्।
०१ १० दक्षिणतोऽपवर्गः
०१ १० दक्षिणतोऽपवर्गः ...{Loading}...
दक्षिणतोऽपवर्गः।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Ending in the south.
हरदत्तः
पितृदैवत्यकर्माण्यपरपक्षे कार्याणि । “मासिश्राद्धस्यापरपक्षे”(आप.गृ. २१.१.) “या माध्याः पौर्णमास्या उपरिष्टाद्व्यष्टकेति” (आप. गृ.२१-१०.) तत्रापरपक्ष उपदिष्टः । इदं तु नियमनं यानि गयाश्राद्धादीनि देशविशेषेण पात्रविशेषेण काम्यान्युपदिष्टानि अस्माभिश्च परिगृहीतानिपार्वणे क्रान्तादीनीत्यत्र तेष्वपरपक्षप्राप्त्यर्थं च। तेन पूर्वपक्षे मृतस्यापरपक्ष एकोद्दिष्टं कर्तव्यं न त्वेकादशेऽहनि । अनुष्ठानञ्चै(त्वे)कादशेऽहनि । मासिश्राद्धस्यापरपक्षविधेः प्रयोजनं तत्रैव वक्ष्यामः । अयं चापरपक्षविधिः कृत्स्नस्योदगयनादेरपवादो न पूर्वस्मादुदग्वा यथायोगम् । उदाहरणं परिस्तरणादि । तदिदं प्राचीनावीत्यादित्रयमविधेयम् । श्रौतेष्वेव परिभाषितत्वात्; उच्यते— “यज्ञोपवीतिना प्रदक्षिणं” “तथापवर्ग” इत्येताः परिभाषा अविशेषेणात्र प्रकरणे पठिताः सामान्यपरिभाषाया बाधितत्वात् पित्र्येष्वपि प्राप्नुवन्ति तद्बाधार्थमिदम् । अत्र च येषां पित्र्याणां स्वातन्त्र्येण स्वकाले प्रवृत्तिः तेषामेवायं प्राचीनावीतविधिः नत्वन्यत्राङ्गत्वेन प्रयुज्यमानानाम् । तेन दैवेषु मानुषेषु च कर्मसु “पितरः पितामहा” इत्यत्र यज्ञोपवीतमेव भवति । अपर आह– “तस्मादभ्याताना वैश्वदेवा”(तै.सं.३-४-५. ) इति दर्शनात् “पितरः पितामहा” इत्यस्यापि पित्र्यत्वादेव प्राचीनावीतस्याप्रसङ्गः इति । तथा “अपरपक्षे पित्र्याणी"त्यस्मिन्नधिकारे (१)अभिहितं प्राचीनावीतमविशेषेण पित्र्ये कर्मणि साङ्गे प्रवर्तते । तेन पित्र्ये आज्यभागान्ते कर्मणि जयादौ च प्राचीनावीतमेव भवति ॥
सुदर्शनः
कार्याणीत्येव । अयं च विधिस्स्वतन्त्रपित्र्योद्देशेन । (२)अङ्गानां तु सहप्रयोज्यानां मुख्यकालत्वेन कालविध्यपेक्षाऽभावात् । एष च न पूर्वपक्षमात्रापवादः । किं तर्हि? सर्वापवादार्थं विध्यन्तरम् । आः!कुत एतद्ज्ञायते ? । “न च नक्तं श्राद्धं कुर्वीत” (आप.ध. २-१७-२३.) इति ज्ञापनात् । (३)यदि ह्ययं पूर्वपक्षमात्रापवादस्स्यात्, तत उदगयनादीनां त्रयाणामपवादाभावाद्रात्रावप्रसक्तेः प्रतिषेधो न स्यात्, (४) अस्ति च प्रतिषेधः, इत्यतो ज्ञायते विध्यन्तरमेवेति । प्रयोजनं त्वविशेषेण दक्षिणायनेऽप्यपरपक्षेऽह्नि काम्यश्राद्धानि कर्तव्यानीति । मासिश्राद्धं तु “मासि मासि कार्यम्” (आप. धर्म.२-२६-४.) इति (५)वीप्सया दक्षिणायनेऽपि सिद्धमेव । नन्वस्मिन् सति “मासिश्राद्धस्यापरपक्षे” (आप.गृ.२१-१.) इति विधिः किमर्थः? । नियमार्थः । तथा हि– अपरपक्ष एव मासिश्राद्धम्, न पुनर्दैवान्मानुषाद्वा(१) विघातादपरपक्षेऽतिक्रान्ते “सर्वोऽपरपक्षः पूर्णमासस्य” इत्यादिवत् पूर्वपक्षेऽपि कर्तव्यम् । किन्तु प्रारब्धस्मार्तनित्यकर्मव्यापत्तौ प्रायश्चित्तमेव । तच्च “भूर्भुवस्सुवस्स्वाहा” इत्येको होमस्सर्वप्रायश्चित्ताख्यः । “यद्यविज्ञाता सर्वव्यापद्वा भूर्भुवस्स्वरिति सर्वा अनुद्रुत्याहवनीय एव जुहुयात्” (ऐ.ब्रा. २४-३४.) इति बह्वृचश्रुतेः । अयं चात्रौपासने, नैमित्तिकैकविधिपरश्रुतिस्थाहवनीयशब्दस्य न्यायतो निमित्तवत्कर्मार्ताग्निमात्रप्रदर्शनार्थत्वात् । उपवासश्च कार्यः । वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ (मनु. ११-२०३.) इति मनुवचनात् । (२)आतमितोः प्राणायामश्च, “नियमातिक्रमे वान्यस्मिन्” (आप. ध.२-१२-१८. ) इति वचनात् । एतोषां समुच्चय एव न विकल्पः, “एकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्” (आप. श्रौ. ९-१-२.) इति दर्शितत्वात् । प्रसङ्गादन्येषां लोपेऽपि प्रायश्चित्तमुच्यते । एवमन्येषामपि प्रारब्धानां प्रायश्चित्तं पाकयज्ञानां व्यापत्तौ, गौणकालेऽप्यतिक्रान्ते । गौणकाले तु सर्वप्रायश्चित्तपूर्वकं तेऽनुष्ठेयाः । औपासनहोमस्य तु बहुकालातिक्रमे अष्टभ्यो होमकालेभ्यः पूर्वं प्रत्येकं सर्वप्रायश्चित्तपूर्वकं (३) अतीता होमाः कर्तव्याः । अत्रोपवासप्राणायामयोराचारो न दृश्यते । ऊर्ध्वं तु धार्यमाणेऽप्यग्नौ “अनुगतो मन्थ्यः” (आप.गृ. ५-१५.) इत्याद्यग्न्युत्पत्तिप्रायश्चित्ते भवतः, “चतूरात्रमहूयमानोऽग्निर्लौकिकस्सम्पद्यते” इति वचनात् । यदि पुनरालस्यादिनोत्सन्नाग्निरेव चिरकालं वर्तेत तदा स्मृत्यन्तरतस्तत्कालानुरूपं कृच्छ्रादिकं होमद्रव्यदानं च वेदितव्यम् । स्वकाले अनारब्धानां तु पाकयज्ञानां सर्वप्रायश्चित्तं हुत्वाऽऽरम्भः कर्तव्यः ॥ (४)केचित्—पाकयज्ञानां (५)स्वकालेष्वनारम्भे आरब्धानां चाकरणे गौणकालातिक्रमे च चतुर्गृहीतेनाज्येन सग्रहेण सप्तहोत्रा जुह्वति । यद्यपि “सप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहीतेनाज्येन” (आप. श्रौ.१४-१४-११.) इति श्रौतो दर्वीहोमः यज्ञविभ्रषे युक्तः, तथापि “एषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारः” (आप.श्रौ.१४-१३-२.) इत्युपक्रम्य “आहिताग्नेस्तान् प्रतियादुभयोरितरान्” (आप. श्रौ. १४-१५-५.) इत्युपसंहारात्, गार्ह्ये विभ्रेषे आहत्य प्रायश्चित्तविधानेनापेक्षितत्वाच्च तद्विभ्रेषेऽपि युक्त एवेति । तत्तु कपर्दिस्वामिनोक्तम् ॥ जातकर्मादीनां तु (१)स्वकालातिक्रमे सर्वप्रायश्चित्तपूर्वकं तदनुष्ठानम् । कर्माङ्गानां तु लोपे सर्वप्रायश्चित्तं प्राणायामश्च । अनुष्ठानं चारादुपकारकाणामाकर्मसमाप्तेः । द्रव्यसंस्काराणां तु द्रव्योपयोगात् पूर्वमेव सम्भवताम् । पाकयज्ञेष्वाग्निहोत्रिक(२)विधौ चोपनयने चाङ्गव्यापत्तौ “भुवस्स्वाहा” इति तत्त(३)त्कर्माङ्गाग्नौ होमः । “अनाज्ञातम्” इति तिसृभिश्च होमो जपो वा । भुवरनाज्ञातविध्यर्थयोर्विकल्पो वा, “ब्राह्मणावेक्षो विधिः” (आप.गृ.२-११.) इति “श्रुतितस्संस्कारः” (आप. धर्म.२-१-८.) इति श्रौतप्रायश्चित्तप्राप्त्यर्थत्वात् । ननु–“भुवः” इति दक्षिणाग्नौ “अनाज्ञातं” इति चाहवनीये । सत्यम्, इह तयोरग्न्योरभावात् नैमित्तिकानामप्यङ्गत्वेनेतराङ्गवत् प्रधानाग्नौ होमस्य युक्तत्वाच्च ॥
(४) केचित् सर्वेषु गार्ह्यकर्मसु तदङ्गेषु च भ्रेषे “अनुक्तमन्यतो ग्राह्यम्” इति न्यायेन गृह्यान्तरोक्तानि प्रायश्चित्तान्याहुः, तच्चिन्त्यम् ॥ अलं प्रासङ्गिकेन । प्रकृतमुच्यते । यत्तु “अपरपक्षस्यापराह्णश्श्रेयान्” (आप. धर्म.२-१६-५.) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवते “सर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम्” (आप. श्रौ. १२-१४-२.) इत्यनुवषट्काराभावे प्राप्तेऽपि “अपि वोपांश्वनुवषट्कुर्यात्” (आप. श्रौ.१३-१४-९,१०.) इति । “सर्वेष्वेवापरपक्षस्याहस्सु” (आप.धर्म. २-१६-७.) इति त्वहर्विशेषणार्थम् । अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति । इतरथा आशौचादतिक्रान्तेऽपरपक्षे दैवात् पितॄणां श्राद्धे तु आशौचं जायते यदि । आशौचेऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते ॥ इति स्मृत्यन्तरात् कदाचित् पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् । नित्यश्राद्धं तु “एवं संवत्सरम्” (आप. ध.२-१८-१२) इति अत्यन्त(४) संयोगे द्वितीयाबलात् पूर्वपक्षेऽपि ॥७॥ पित्र्याणि कार्याणीति शेषः । इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्, “प्राचीनावीतिना पित्र्याणि” इत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(१) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेये “अपरपक्षे पित्र्याणि” इतिवदनपेक्षितत्वाभावाच्च । तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितीयनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि । इत्थमेव “यज्ञोपवीतिना” इत्यपि । तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव । इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव ॥ केचित्–अङ्गानां प्रधानधर्मता(२) न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यपि यज्ञोपवीतिनेति, तच्चिन्त्यम् ॥ ८ ॥ तथैव शेषः ॥९॥ अत्र “प्राचीनावीती” (आप.परि. २.१६.) इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात् अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः ॥१०॥
“प्राचीनावीतिना प्रसव्यं दक्षिणतोऽपवर्ग” इति पूर्वसूत्रेण सम्बन्धः ।
मूलम् ...{Loading}...
दक्षिणतोऽपवर्गः।
०१ ११ निमित्तावेक्षाणि नैमित्तिकानि
०१ ११ निमित्तावेक्षाणि नैमित्तिकानि ...{Loading}...
निमित्तावेक्षाणि नैमित्तिकानि।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Ceremonies occasioned by special occurrences (are performed) according as their occasions demand.
हरदत्तः
निमित्तानि - यानि नैमित्तिकानि कर्माणि, तानि निमित्तम् अवेक्ष्य तद् अनन्तरम् एव कर्तव्यानि, न तत्र +उदगयनाद्य्-अपेक्षा ।
“अगारस्थूणाविरोहण” (आप.गृ. २३-९.) इत्य् उदाहरणानि ।
तत्रामावास्यायां निशायाम् इति वचनात् तावान् उत्कर्षः ।
गृहप्रवेशनं नैमित्तिकमिति केचित् ।
नेत्यन्ये ॥११॥
सुदर्शनः
नैमित्तिकान्य् आग्रयणातिथ्य-सीमन्तादीनि निमित्तावेक्षाणि ।
निमित्तानि व्रीहि-पाकादीन्य् एवानुष्ठाने ऽवेक्षन्ते नोदग्-अयनादीनीत्य् अर्थः ।
अत्रापि सम्भवतः पूर्व-पक्षादेर् नापवादः ॥११॥
मूलम् ...{Loading}...
निमित्तावेक्षाणि नैमित्तिकानि।