मासि श्राद्धम् अस्य प्रकृतिः।
कालः
- माघमासस्य कृष्णपक्षस्याष्टम्याम्
- तथा द्वे दिने स्तश् चेत् तयोर् यस्य ज्येष्ठा-नक्षत्रसंयोगस् स्यात् तस्मिन्।
पूर्वेद्युः सायम् औपकार्यम्
- अपूप-पाकः
- औपासनाग्नौ
- चतुःशराव-मात्रक+ओदनैः अपूपं श्रपयति।
- अष्टसु कपोलेषु संस्कृतः पुरोडाशोऽष्टकपालः ।
सः श्रपयितव्य इत्येके ।
- अञ्जलिनापूपहोमः
- दैवकार्यमेवैतत्
- पार्वणवदग्नेरुपसमाधानाद्यग्निमुखान्ते
- स्थालीपाकवत् स्वकीयेनावदानधर्मेण+अपूपात् पुरोडाशाद्वा+अवदाय उत्तरयर्चा “यां जनाः प्रतिनन्दन्ति” इत्येतया अञ्जलिना जुहोति ।
- उपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता ।
- स्विष्टकृतं तु दर्व्यैव जुहोति
- शेषस्याष्टधा कृतस्य ब्राह्मणेभ्य उपहरणम् ।
कर्मदिने
प्रातः दध्यञ्जलिहोमः
- दैवकार्यम्
- पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् ।
- केचित् अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति ।
- “यां जना"इति अपूपहोमवत्
अपराह्ने
- ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्रीद्धवत्कृत्वा
- प्राचीनावीतिः
- गवालम्भः
- दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति।
- पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् ।
- ततो गवालम्भः
- तद्वपाग्रहणं तूष्णीम्
- दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति।
- वपाहोमः
- तूष्णीं पञ्चाज्याहुतीर्हुत्वा
- बर्हिर् उपस्तीर्य
- वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वा
- अभिघार्य
- बर्हिषि स्थापयित्वा
- पुनरभिघार्य
- मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चा “वह वपा"मित्येतया ।
- मांसौदनहोमाः
- पशोर्विशसनं कारयित्वा
- श्रपयित्वा अन्यानि च हविष्यौदनादीनि
- होमकाले च मिश्रणम् ।
न श्रपणकाले । - तान्यभिघार्य
- बर्हिषि प्रतिष्ठाप्य
- पुनरभिघार्य
- दर्व्या जुहोत्यवदानकल्पेन ।
- नात्र सकृदुपघातकल्पः ।
- “यां जनाः प्रतिनन्दन्ति"इत्येताभिः सप्तभिः ।
- पिष्टान्नहोमाः
- पिष्टेन कृतमन्नं तस्य पयसि श्रपणम्
- उत्तरयर्चा “उक्थ्यश्चे"त्येतया जुहोति
- आज्याहुतयः
- उत्तरैर्मन्त्रैः"भूः पृथिव्यग्निनर्चे"त्यादिभिः
- स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासश् च सर्व पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेव
- अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति
अपरेद्युर् अन्वष्टका
- मासिश्राद्धवत्
- पूर्वदिनात् शिष्टेन मांसेन
स्रोतांसि
- टीकानुमता टिप्पणिर् अत्र।