होम-मन्त्र-सङ्ग्रहः

वैश्वदेवम्

०५ ओम् अग्नये ...{Loading}...

  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।

०६ सोमाय स्वाहा ...{Loading}...

  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++

०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...

  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।

०८ ध्रुवाय भूमाय ...{Loading}...

  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।

०९ ध्रुवक्षितये स्वाहा ...{Loading}...

ध्रु॒व॒-क्षित॑ये॒+++(←स्वरः??)+++ +++(खे)+++ स्वाहा॑।
+++(विवाहे ध्रुव-दर्शन-मन्त्रेऽप्य् अयम् प्रयोगः)+++

१० अच्युतक्षितये स्वाहा ...{Loading}...

अ॒च्यु॒त॒-क्षित॑ये॒+++(←स्वरः??)+++ स्वाहा॑।

११ अग्नये स्विष्टकृते ...{Loading}...

  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++

१३ धर्माय स्वाहा ...{Loading}...

  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...

  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++

१५ गृह्यभ्यस् स्वाहा ...{Loading}...

  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++

१६ कामय स्वाहा ...{Loading}...

  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++

१७ यदेजति जगति ...{Loading}...

  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++

१८ पृथिव्यै स्वाहा ...{Loading}...

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।

१९ स्वधा पितृभ्यस् ...{Loading}...

  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++

२० नमो रुद्राय ...{Loading}...

  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++

२१ ये भूताः ...{Loading}...

  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++

समारोपणावारोपणे

19 अयन्ते योनिर् ...{Loading}...

अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम्

21 उपावरोह जातवेदᳶ ...{Loading}...

उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।

07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्त् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...

उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वँस् त्वा॑ पि॒तरय्ँ॒ युवा॑नम्
अ॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।

जयादिः

जयाः

चि॒त्तं च॒ ...{Loading}...
विश्वास-प्रस्तुतिः

चित्तं᳓ च [स्वा᳓हा]। चि᳓त्तिश् च [स्वा᳓हा]।
आ᳓कूतं च [स्वा᳓हा]। आ᳓कूतिश् च [स्वा᳓हा]।
वि᳓ज्ञातं च [स्वा᳓हा]। विज्ञा᳓नं च [स्वा᳓हा]।
म᳓नश् च [स्वा᳓हा]। श᳓क्वरीश् च [स्वा᳓हा]।
द᳓र्शश् च [स्वा᳓हा]। पूर्ण᳓मासश् च [स्वा᳓हा]।
बृह᳓च् च [स्वा᳓हा]। रथन्तरं᳓ च [स्वा᳓हा]।

मूलम्

चि॒त्तञ्च॒ चित्ति॒श्चाकू॑त॒ञ्चाकू॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथन्त॒रञ्च॑

भट्टभास्कर-टीका

चित्तं चेत्यादयस्स्रुवाहुतयः । चशब्दस्समुच्चयार्थः; वाक्यस्यापरिसमाप्तत्वात् । माऽस्त्विति शेषः । येन चेतयते तच्चित्तम् ।

चित्तिश्चेतना ।

आकूतं संकल्प्यो विषयः ।

आकूतिस्संकल्पः ।

विज्ञातं विविधं ज्ञातव्यम् ।

विज्ञानं विविधं वेदनम् ।

मनः अन्तःकरणम् ।

शक्वरी शक्वर्यः चक्षुरादिबाह्येन्द्रियशक्तयः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । आकूत्यादिषु त्रिषु गतेः प्रकृतिस्वरत्वम् ।

दर्शपूर्णमासौ कालौ, कर्मणी वा । सर्वेषां कर्मकालानां कर्मणां च प्रधानयोरुपादानमुपलक्षणार्थम् ।

एवं बृहद्रथन्तरयोस्साम्नोर्वेदितव्यम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजा᳓पतिर् ज᳓यान् इ᳓न्द्राय वृ᳓ष्णे
प्रा᳓यच्छद् उग्रᳶ᳓ पृतना᳓ज्येषु।
त᳓स्मै वि᳓शस् स᳓मनमन्त स᳓र्वास्
स᳓ उग्र᳓स् स᳓ हि᳓ ह᳓व्यो बभू᳓व॥
[स्वा᳓हा॥]

विश्वास-प्रस्तुतिः - सङ्क्षेपः

अग्नि᳓र्भूता᳓नाम् [अ᳓धिपतिः स᳓ माऽवतु, अस्मि᳓न्ब्र᳓ह्मन्न् +++(अस्मिन्ब्रह्मण्य् इत्यथर्ववेदे)+++᳓ अस्मि᳓न्क्षत्रे᳙ ऽस्यामाशि᳓ष्यस्या᳓म्पुरोधा᳓याम् अस्मि᳓न्क᳓र्मन्नस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]]…।

इ᳓न्द्रो ज्येष्ठा᳓नाम् ……। यमः᳓ पृथिव्या᳓…। वायु᳓र् अन्त᳓रिक्षस्य…।
सू᳓र्यो दिवः᳓…। चन्द्र᳓मा न᳓क्षत्राणाम्…। बृ᳓हस्प᳓तिर् ब्र᳓ह्मणः…।
मित्रः᳓ सत्या᳓नाम्…। व᳓रुणोऽपा᳓म्…। समुद्रः᳓ स्रोत्या᳓नाम्…।
अ᳓न्नँ सा᳓म्राज्यानाम् अ᳓धिपति, त᳓न् माऽवतु…।
सो᳓म ओ᳓षधीनाम्…। सविता᳓ प्रसवा᳓ना᳓म्…।
रुद्रः᳓ पशूना᳓म्…। त्व᳓ष्टा रूपा᳓णा᳓म्…। वि᳓ष्णुः प᳓र्वतानाम्…। मरु᳓तो गणा᳓नाम् अ᳓धिपतयस् ते᳓ मावन्तु…।
पि᳓तरः पितामहाः परेऽवरे त᳓ता᳓स् त᳓ता᳓म᳓हा᳓ इह᳓ मावत …। …।…।

विश्वास-प्रस्तुतिः - सङ्क्षेपः

ऋताषा᳓ड् +++(=ऋतेन शाततीति)+++ ऋत᳓धामा ऽग्नि᳓र् गन्धर्वः᳓।
त᳓स्यौ᳓षधयोऽप्सर᳓स ऊ᳓र्जो ना᳓म। स᳓ इदं᳓ ब्र᳓ह्म क्षत्रं᳓ पातु। ता᳓ इदं᳓ ब्र᳓ह्म क्षत्रं᳓ पान्तु।
त᳓स्मै स्वा᳓हा । ता᳓भ्यः स्वा᳓हा ।

सँहितो᳓ विश्व᳓सामा +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सू᳓र्यो गन्धर्वः᳓ ।
त᳓स्य म᳓रीचयोऽप्सर᳓स आयु᳓वो ना᳓म । … ।

सुषुम्नः᳓+++(=सुखम्)+++ सू᳓र्यरश्मिश् चन्द्र᳓मा गन्धर्वः᳓ ।
त᳓स्य न᳓क्षत्राण्य् अप्सर᳓सो बेकु᳓रयो+++(=चित्तविकारहेतवः)+++ ना᳓म । … ।

भुज्यु᳓स् +++(=पालयिता, यो भुनक्ति)+++ सुपर्णो᳓ यज्ञो᳓ गन्धर्वः᳓ ।
त᳓स्य द᳓क्षिणा अप्सर᳓सस् स्तवा᳓ ना᳓म । … ।

प्रजा᳓पतिर्विश्व᳓कर्मा म᳓नो गन्धर्वः᳓ ।
त᳓स्यर्क्सामा᳓न्य् अप्सर᳓सो व᳓ह्नयो +++(सौन्दर्यं वहन्तीति)+++ ना᳓म । … ।

इषिरो᳓ +++(इष्यमानवस्तुवत्त्वात्)+++ विश्व᳓व्यचा +++(विश्वं वियातीति)+++ वा᳓तो गन्धर्वः᳓ ।
त᳓स्या᳓पोऽप्सर᳓सो मुदा᳓ ना᳓म । … ।

भु᳓वनस्य-पते य᳓स्य त उप᳓रि गृहा᳓ इह᳓ च । स᳓ नो रास्व᳓+++(=देहि)+++ +आ᳓ज्यानिँ+++(=दीर्घायुः)+++ राय᳓स्पो᳓षाँ
सुवी᳓र्यँ संवत्सरी᳓णाँ स्वस्तिँ᳓ स्वा᳓हा ।

परमेष्ठ्य् +++(=परमस्थानो)+++ अ᳓धिपतिर् मृत्यु᳓र् गन्धर्वः᳓ ।
त᳓स्य वि᳓श्वम् अप्सर᳓सो भु᳓वो ना᳓म । … ।

सुक्षिति᳓स् सु᳓भूतिर् भद्रकृ᳓त् सु᳓वर्वान् पर्ज᳓न्यो गन्धर्वः᳓ ।
त᳓स्य विद्यु᳓तोऽप्सर᳓सो रु᳓चो ना᳓म । … ।

दूरे᳓हेतिर् अमृडयो᳓ मृत्यु᳓र् गन्धर्वः᳓ ।
त᳓स्य प्रजा᳓ अप्सर᳓सो भीरु᳓वो ना᳓म । … ।

चा᳓रुः कृपणकाशी᳓ +++(कृपणेषु मनो दीपयतीति)+++ का᳓मो गन्धर्वः᳓ ।
त᳓स्याध᳓यो +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्सर᳓सश् शोच᳓यतीर् ना᳓म । … ।

स᳓ नो भुवनस्य-पते य᳓स्य त उप᳓रि गृहा᳓ इह᳓ च।
उरु᳓+++(=विपुल)+++ब्र᳓ह्मणे ऽस्मै᳓ क्षत्रा᳓य
म᳓हि+++(=महत्)+++ श᳓र्म यच्छ स्वा᳓हा ॥

प्राजापत्यादि

१० प्रजापते न ...{Loading}...

प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं᳓) भू᳓स्स्वा᳓हा ॥ (अग्न᳓य +इदं᳓ न᳓ मम)

(ओं) भुवस्स्वा᳓हा ॥ (वाय᳓व +इदं᳓ न᳓ मम)

(ओं) सुवस्स्वा᳓हा ॥
(सू᳓र्याय +इदं᳓ न᳓ मम)

मूलम्

(ओं) भूस्स्वाहा॑ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्याय इदं न मम)

Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः

य᳓द् अस्य क᳓र्मणो᳓ ऽत्य᳓रीरिचं
य᳓द् वा न्यू᳙नम् इहा᳓करम् ।
अग्नि᳓ष् ट᳓त् स्विष्टकृ᳓द् विद्वा᳓न्थ्
स᳓र्वँ स्वि᳙ष्टँ सु᳓हुतं करोतु
स्वा᳓हा ।

मूलम्

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्त्सर्व॒ग्ग्॒ स्वि॑ष्टँ॒ सुहु॑तं करोतु॒ स्वाहा॑ ।

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

०४ त्वं नो ...{Loading}...

त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

०५ स त्वं ...{Loading}...

स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++

सर्व-प्रायश्चित्तम्

१७ इदं विष्णुर्वि ...{Loading}...

इद᳓व्ँ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

वसोर्धारादि

०३ वसोर्धारा होममन्त्राः ...{Loading}...

अग्निर्ऋषिः

चतुर्थकाण्डे सप्तमप्रपाठके तृतियोऽनुवाकः

सायणोक्त-विनियोगः

९ अथ चतुर्थाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ।
तृतीयमाह— शं च म इति ।

मूलम् (संयुक्तम्)

शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [5] मे॒ मह॑श्च मे सव्ँ॒विच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मेऽय॒क्ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे ॥ [6]

विश्वास-प्रस्तुतिः

श᳓ञ्च मे म᳓यश्च मे

मूलम्

शञ्च॑ मे॒ मय॑श्च मे

सायण-टीका

शंशब्द ऐहिकसुखवाची ।
मयःशब्द आमुष्मिकसुख वाची।

विश्वास-प्रस्तुतिः

प्रिय᳓ञ्च मेऽनुकाम᳓श्च मे

मूलम्

प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒

सायण-टीका

प्रियं प्रीतिकारणं वस्तु ।

अनुकामोऽनुकूलत्वनिमित्तेन काम्यमानः पदार्थः। एतदुभयमैहिकामेव तारतम्योपेतम् ।

विश्वास-प्रस्तुतिः

का᳓मश्च मे सौमनस᳓श्च मे

मूलम्

काम॑श्च मे सौमन॒सश्च॑ मे

सायण-टीका

काम आमुष्मिकः स्वर्गादिः ।
सौमनसो मनःस्वास्थ्य करो बन्धुवर्गः ।

विश्वास-प्रस्तुतिः

भद्र᳓ञ्च मे श्रे᳓यश्च मे

मूलम्

भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒

सायण-टीका

भद्रं कल्याणमिह लोके रमणीयम् ।
श्रेय परलोकहितम् ।

विश्वास-प्रस्तुतिः

व᳓स्यश्च मे य᳓शश्च मे

मूलम्

वस्य॑श्च मे॒ यश॑श्च मे॒

सायण-टीका

वस्यो निवासहेतुर्गृहादिः ।
यशः कीर्तिः ।

विश्वास-प्रस्तुतिः

भ᳓गश्च मे द्र᳓विणञ्च मे

मूलम्

भग॑श्च मे॒ द्रवि॑णञ्च मे

सायण-टीका

भगः सौभाग्यम् ।
द्रविणं धनम् ।

विश्वास-प्रस्तुतिः

यन्ता᳓ च मे धर्ता᳓ च मे

मूलम्

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒

सायण-टीका

यन्ता नियामक आचार्यदिः ।
धर्ता पोषकः पित्रादिः ।

विश्वास-प्रस्तुतिः

क्षे᳓मश्च मे धृ᳓तिश्च मे

मूलम्

क्षेम॑श्च मे॒ धृति॑श्च मे॒

सायण-टीका

क्षेमो
२२३० विद्यमानधनस्य रक्षणशक्तिः ।
धृतिर्धैर्यमापद्यपि निश्चलत्वम् ।

विश्वास-प्रस्तुतिः

वि᳓श्वञ्च [5] मे म᳓हश्च मे

मूलम्

विश्व॑ञ्च [5] मे॒ मह॑श्च मे

सायण-टीका

विश्वं सर्वजना नुकूल्यम् ।
महः पूजा ।

विश्वास-प्रस्तुतिः

सव्ँवि᳓च्च मे ज्ञा᳓त्रञ्च मे

मूलम्

सव्ँ॒विच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒

सायण-टीका

संविद्वेदशास्त्रादिविज्ञानम् ।

शात्रं ज्ञापयितृत्वसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सू᳓श्च मे प्रसू᳓श्च मे

मूलम्

सूश्च॑ मे प्र॒सूश्च॑ मे॒

सायण-टीका

सूः पुत्रादिप्रेरणसामर्थ्यम् ।
प्रसूर्भृत्यादिप्रेरणसामर्थ्यम् ।

विश्वास-प्रस्तुतिः

सी᳓रञ्च मे लय᳓श्च म+

मूलम्

सीर॑ञ्च मे ल॒यश्च॑ म+

सायण-टीका

सीरं लाङ्गलादिकृषि साधनसंपत्तिः ।
लयस्तत्प्रतिबन्धनिवृत्तिः ।

विश्वास-प्रस्तुतिः

ऋत᳓ञ्च मेऽमृ᳓तञ्च मे

मूलम्

ऋ॒तञ्च॑ मे॒ऽमृत॑ञ्च मे

सायण-टीका

ऋतं यज्ञादिकर्म ।
अमृतं तत्फलम् ।

विश्वास-प्रस्तुतिः

+ऽयक्ष्म᳓ञ्च मे᳓ऽनामयच्च मे

मूलम्

ऽय॒क्ष्मञ्च॒ मेऽना॑मयच्च मे

सायण-टीका

अयक्ष्मं राजयक्ष्मादिप्रबलव्याधिराहित्यम् ।
अनामयज् ज्वराद्य्-अल्प-व्याधि-राहित्यम् ।

विश्वास-प्रस्तुतिः

जीवा᳓तुश्च मे दीर्घायुत्व᳓ञ्च मे

मूलम्

जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मे

सायण-टीका

जीवातुर्जीवनकारणं व्याधिपरिहारार्थमौषधम् ।
दीर्घायुत्वमपमृत्सुराहित्यम् ।

विश्वास-प्रस्तुतिः

+ऽन᳓मित्र᳓ञ्च मे᳓ऽभयञ्च मे

मूलम्

ऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे

सायण-टीका

अनमित्रं वैरिराहित्यम् ।
अभयं भयराहित्यम् ।

विश्वास-प्रस्तुतिः

सुग᳓ञ्च मे श᳓यनञ्च मे

मूलम्

सु॒गञ्च॑ मे॒ शय॑नञ्च मे

सायण-टीका

सुगं शोभनगमनं सर्वैरङ्गीकृताचरणमित्यर्थः ।
शयनं शय्योपधानदिसंपत्तिः ।

विश्वास-प्रस्तुतिः

सूषा᳓ च मे सुदि᳓नञ्च मे

मूलम्

सू॒षा च॑ मे सु॒दिन॑ञ्च मे

सायण-टीका

सूषा स्नानसंध्यावन्दनादियुक्तः शोभनः प्रातःकालः ।
सुदिनं यज्ञदानाध्ययनादियुक्तं कृत्स्नं दिनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः ॥
३ ॥

02 सप्त ते ...{Loading}...

स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वास्
स॒प्त [11] ऋष॑यस्, स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः॑, सप्त॒धा त्वा॑ यजन्ति,
स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑

रक्षा

07 मा नस् ...{Loading}...

मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।