१० ब्रह्मकूर्चपञ्चगव्यविधिः

पुण्याहान्तम्

एकादश्यां द्वादश्यां व [[वा??]] उपोष्य,
सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तः पवित्र-पाणिः

(ओं नमस्सदसे… इति)

ब्राह्मणैरनुज्ञातः प्राणान् आयम्य,

अस्यां शुभतिथौ पञ्चगव्यद्रव्यशुद्ध्यर्थे शुद्धिपुण्याहं वाचयिष्ये

इति सङ्कल्प्य,

शुद्धिपुण्याहं कृत्वा
तज्जलेन पञ्च-गव्य-द्रव्याणि प्रोक्ष्य,

नवकृतपदमध्ये दुग्धम्, ऐन्द्रे दधि स्यात्, यमदिशि घृतं, इन्दोर्वारुणे गोमये द्वे । अनल-निर्ऋति-वाय्वीशान-कोणेषु पिष्टाऽऽमलककण, हरिद्रा, तोयम् एवं प्रयुञ्ज्यात् ॥

पलमेकं तु गोमूत्रं अङ्गुष्ठार्धञ्च गोमयम् ।
क्षीरं सप्तपलं चैव दधि त्रिपलमुच्यते ॥
पलमेकं घृतं ग्राह्यं पलमेकं कुशोदकम्

इति द्रव्यमानम् ।

सङ्कल्पादि

प्राणान् आयम्य … ‘श्री गोविन्द’ इत्यादि..

अस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत् (श्रीमन्नारायण) प्रीत्यर्थं मम अन्येषाञ्च मनोवाक्कायैरनुष्ठित-अभक्ष्यभक्षणअस्पृश्यस्पर्शनादि-जनित-समस्तभगवन्निग्रहशान्त्यर्थं ब्रह्मकूर्चविधिना पञ्चगव्यद्रव्यसंमेलनं करिष्ये

इति सङ्कल्प्य,

[[46]]

(प्रायश्चित्तार्थं पञ्चगव्यसंमेलने

…गोत्रस्य … शर्मणः … गोत्रायाः … नाम्न्याः .. पापनिवृत्त्यर्थम्

इति सङ्कल्प्य)

सात्त्विकत्यागं कृत्वा,

आवाहनम्

गोमूत्रं यज्ञदैवत्यं गोमयं विष्णुमेव च ।
क्षीरं तु सोमदेवत्यं दधि ब्रह्माधिदैवतम् ।
घृतं तु वायुदेवत्यम् उदकं वारुणं तथा ॥

इत्युक्तप्रकारेण तत्तद्द्रव्ये तत्तद्दैवतात्मकं भगवन्तं श्रीमन्नारायणं ध्यात्वा, आवाहयेत् ॥ तत्प्रकारः -

गोमूत्रे –

१६ यज्ञेन यज्ञमयजन्त ...{Loading}...

+++(सर्वहुद्-)+++यज्ञे᳓न यज्ञ᳓म् अयजन्त देवाः᳓ ।
ता᳓नि ध᳓र्माणि प्रथमा᳓न्य् आसन्
+++(य एवं विदुः)+++ ते᳓ ह ना᳓कं +++(यज्ञैः)+++ महिमा᳓नः+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
यत्र पू᳓र्वे +++(नानापात्रेषु पश्चात्)+++ साध्याः᳓ स᳓न्ति देवाः᳓ । १८

(इति मन्त्रेण) यज्ञदेवताम् आवाहयामि ।

गोमये –

०१ सहस्रशीर्षा पुरुषः ...{Loading}...

+++(बहु-देवता-सङ्ग्रहात्)+++ सह᳓स्र+++(~अनन्त)+++शीर्षा पु᳓रुषः
सहस्राक्षः᳓ सह᳓स्रपात् ।
स᳓ +++(वक्ष्यमाणां विराजं)+++ भू᳓मिं विश्व᳓तो वृत्वा᳓
अ᳓त्यतिष्ठद् दशाङ्गुल᳓म् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

(इति मन्त्रेण) विष्णुम् आवाहयामि ।

(

वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒-स्पृश॑म्
मो॒ग्रञ् चेत्ता॑रम् अधिरा॒जम् अ॑क्रन्
अ॒र्वाञ्च॒म् इन्द्र॑म् अ॒मुतो॑ हवामहे ।
यो गो॒जिद् ध॑न॒जिद् अ॑श्व॒जिद् यः ॥

(इति मन्त्रेण) वसुं वा आवाहयामि ।)

क्षीरे –

२० सोमो धेनुं ...{Loading}...

सो᳓मो धेनुं᳓, सो᳓मो अ᳓र्वन्तम् आशुं᳓
सो᳓मो वीरं᳓ कर्मण्यं᳙ ददाति
सादन्यं᳙+++(←सदन)+++ विदथ्यं᳙ सभे᳓यं
पितृ-श्र᳓वणं यो᳓ द᳓दाशद्+++(=दद्यात्)+++ अस्मै +++(यजमानाय)+++ ॥

(इति मन्त्रेण) सोमम् आवाहयामि ।

[[47]]

दध्नि –

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

(इति मन्त्रेण) ब्रह्माणम् आवाहयामि ।

घृते –

20 वायोस् सवितुर् ...{Loading}...

वा॒योस् स॑वि॒तुर् वि॒दथा॑नि+++(=वेदनानि)+++ मन्महे
याव् आ॑त्म॒न्वद् बि॑भृ॒तो यौ च॒ रक्ष॑तः
यौ विश्व॑स्य परि॒भू ब॑भूवतुस्
तौ नो॑ मुञ्चत॒म् आग॑सः ॥

(इति मन्त्रेण) वायुम् आवाहयामि ।

शुद्धोदके –

१९ इमं मे ...{Loading}...

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः

इति मन्त्रेण वरुणं च आवाह्य, आसनादि-नैवेद्यवीटिकासमर्पणान्तैः उपचारैः सम्पूज्य, तद्दक्षिणतः स्वसूत्रोक्तविधानेन अग्निं प्रतिष्ठाप्य (उल्लेखनम्, अवोक्षणं, निरसनम्, अप उपस्पृश्य, भूर्भुवस्सुवरोम् इति अग्निं प्रतिष्ठाप्य, प्राक्तोयम्, अग्निम् इध्वा, प्रज्वाल्य, परिसमूह्य, परिस्तीर्य, दक्षिणानुत्तरान् उत्तरानधरान्, उत्तरेणाग्निं पात्रसादनम्) पात्रसादने दर्व्याज्यपात्रस्थाने सपालाशं कूर्चे पञ्चगव्यसंमेलनपात्रं च निधाय, प्रोक्षणीम्, इतरदर्वीं च सादयित्वा, प्रोक्ष्य, पवित्रान्तर्हिते पञ्चगव्यसमेलनपात्रे पञ्चगव्यसंमेलनं कुर्यात् ॥

पञ्चगव्यसंमेलनमन्त्राः

(तत्प्रकारः -)

(१) गायत्र्या चैव गोमूत्रं
(२) गन्धद्वारेति गोमयम् ।
(३) आप्यायस्वेति च क्षीरं
(४) दधिक्राव्ण्णेति वै दधि ॥
(५) शुक्रमसीति चैवाज्यं
(६) देवस्यत्वा कुशेदकम् ॥

इत्युक्तैः मन्त्रैः पञ्चगव्यसंमेलनं कृत्वा प्रणवेनालेढ्य,

[[48]]

॥ पञ्चगव्यसंमेलनमन्त्राः ॥

गोमूत्रम्

३५ तत् सवितुर्वरेण्यम् ...{Loading}...

तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त् ॥३५॥

गोमयम्

05 गन्धद्वारान् दुराधर्षान् ...{Loading}...

ग॒न्ध॒द्वा॒रान् दु॑राध॒र्षान्
नि॒त्य-पु॑ष्टाङ् करी॒षिणी॑म् ।
ई॒श्वरीँ॑ सर्व॑-भूता॒ना॒न्
त्वाम् इ॒होप॑ह्वये॒ श्रियम् ॥

क्षीरम्

०४ आ प्यायस्व ...{Loading}...

आ᳓ प्यायस्व स᳓मेतु ते
विश्व᳓तः सोम वृ᳓ष्ण्यम् ।
भ᳓वा वा᳓जस्य सङ्गथे᳓+++(=संगमने)+++ ॥

दधि

०६ दधिक्राव्णो अकारिषं ...{Loading}...

+++(pegasus-प्रोष्ठपदासु)+++ दधि-क्रा᳓व्णो अकारिषं
जिष्णो᳓र् अ᳓श्वस्य वाजि᳓नः ।
सुरभि᳓ नो मु᳓खा करत्
प्र᳓ ण आ᳓यूँषि तारिषत्

आज्यम्

(५) शुक्र॑म् असि॒ ज्योति॑र् असि॒ तेजो॑ऽसि ।

कुशोदकम्

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

उदीचोऽङ्गरान् निरूह्य, पञ्चगव्यात्मकमाज्यं तेष्वधिश्रित्य, ज्वलता तृणेनावद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य, त्रिः पर्यग्निकृत्वा, उदगुद्वास्य, अङ्गारानग्नौ प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारं पञ्चगव्यं त्रिरुत्पूय, पवित्रग्रन्थिं विस्रस्य, अप उपस्पृश्य, प्रागग्रमग्नौ प्रहरति । येन जुहोति, तदग्नौ प्रतितप्य, दर्भैस्सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य, दर्व्यौ निधाय, दर्भान् अद्भिस्संस्पृश्य अग्नौ प्रहरति ।

०१ अग्ने नय ...{Loading}...

अ᳓ग्ने न᳓य सुप᳓था राये᳓ अस्मा᳓न्
वि᳓श्वानि देव वयु᳓नानि+++(=ज्ञानानि)+++ विद्वा᳓न् ।
युयोध्य्+++(=अपनय)+++ अ᳙स्मज्-जुहुराण᳓म्+++(=कुटिलकारि)+++ ए᳓नो
भू᳓यिष्ठान् ते न᳓म-उक्तिव्ँ विधेम

इति परिषिच्य,

[[49]]

समन्थानसमित्कूर्चेन,

भूर् भुव॒स् सु॒व॒स् स्वाहा॑ ...{Loading}...
विश्वास-प्रस्तुतिः

ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥

मूलम्

ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥

(अग्नये चैव सोमाय शन्नो देवी त्र्यम्बकम् ।
इरावतीम् इदं विष्णुर् मानस्तोके प्रजापते ॥
गायत्र्या च व्याहृतीभिः महाव्याहृतिभिस् तथा ।
होतृभिश् चैव होतव्यं हुतशेषं तु पुण्यदम् ॥)

होमप्रकारः

॥ होमप्रकारः ॥

ओम् अ॒ग्नये॒ स्वाहा॑ ॥ (अग्नय इदं न मम)

ओं सोमा॑य॒ स्वाहा॑ ॥ (सोमायेदं न मम)

१२ शन्नो देवीरभिष्टयऽआपो ...{Loading}...

शन् नो॑ दे॒वीर् अ॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑।
शं योर् अ॒भि स्र॑वन्तु नः ॥१२ ॥

स्वाहा॑ ॥ (अद्भ्य इदं न मम)

१२ त्र्यम्बकं यजामहे ...{Loading}...

त्र्यम्बकं यजामहे
सुग᳓न्धिं पुष्टि-व᳓र्धनम्।
उर्वारुक᳓म् +++(स्थूलफलम्)+++ इव ब᳓न्धनान्
मृत्यो᳓र् मुक्षीय, मा᳓ ऽमृ᳓तात्॥

(त्र्यम्बकायेदं न मम)

०३ इरावती धेनुमती ...{Loading}...

+++(द्यावापृथिव्यौ!)+++ इ᳓रावती+++(=अन्नवत्यौ)+++ धेनुम᳓ती हि᳓ भूतँ᳓+++(=भवतं)+++
सू-यवसि᳓नी+++(=सु-गो-भक्ष्य-घासे)+++ म᳓नवे यशस्ये᳙
व्यस्कभ्नाद्+++(=व्यस्थापयत्)+++ रो᳓दसी वि᳓ष्णुर्+++(→आदित्यः)+++ एते᳓
दाधा᳓र +++(अन्तरिक्षरूपिणीम्)+++ पृथिवी᳓म् अभि᳓तो मयू᳓खैः+++(→कीलैः/ किरणैः)+++ ॥

(धेन्वा इदम्)

१७ इदं विष्णुर्वि ...{Loading}...

इदव्ँ᳓ वि᳓ष्णुर् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि᳓ चक्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रेधा᳓ नि᳓ दधे पद᳓म् ।
+++(तैर् आधारैर् जगत्)+++ स᳓म् ऊढम् अस्य पाँसुरे᳓ +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

(विष्णव इदं न मम )

[[50]]

07 मा नस् ...{Loading}...

मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।

(मन्त्रोक्तदेवताभ्य (रुद्राय) इदम्)

अप उपस्पृश्य,

१० प्रजापते न ...{Loading}...

प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

३५ तत् सवितुर्वरेण्यम् ...{Loading}...

तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त् ॥३५॥

(सवित्र इदं न मम) (सावित्र्या इदं न मम)

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा॑ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा॑ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा॑ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्रजापतय इदं न मम)

०२ भूर् अग्नये महाव्याहृतयः ...{Loading}...
सायणोक्त-विनियोगः

अथ होमार्थान् महाव्याहृतिसंज्ञकान्मन्त्रानाह।
अत्र द्रव्यविशेषस्यानुक्तत्वात्
सर्व-होम-साधारणम् आज्यम् एव द्रव्यम् इत्य् अवगन्तव्यम्।
फल-विशेषस्यानुक्तत्वात् पापक्षयोऽत्र साधारणं फलं द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नय इदं न मम)

मूलम्

भूर् अ॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायव इदं न मम)

मूलम्

भुवो॑ वा॒यवे॒ ऽन्तरि॑क्षाय॒ स्वाहा॑॥

सायण-टीका

भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि।
तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां प्रतिपद्याग्न्यादिदेवताप्रतिपादकानि।
तथा सत्ययमर्थः संपद्यते। भूरित्यनेन मन्त्रेण प्रतिपाद्यायाग्नये तन्मन्त्रप्रतिपाद्यायै पृथिव्यै च स्वाहा सुहुतमिदं द्रव्यमस्त्विति। एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम्।

विश्वास-प्रस्तुतिः

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्यायेदं न मम)

मूलम्

सुव॑र् आदि॒त्याय॑ दि॒वे स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥
(चन्द्रमस इदं न मम)

मूलम्

भूर् भुव॒स् सुव॑श् च॒न्द्रम॑से दि॒ग्भ्यस् स्वाहा॑॥

सायणोक्त-विनियोगः

चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वाऽन्ते प्राङ्मुखो नमो देवेभ्य इति मन्त्रेणोपतिष्ठेत।
पश्चाद् दक्षिणाभिमुखः स्वधा पितृभ्य इति मन्त्रेणोपतिष्ठेत।

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर् भुव॒स् सुव॒रोम् । (12) - । 2 ।

मूलम्

नमो॑ दे॒वेभ्य॑स्, स्व॒धा पि॒तृभ्यो॒,
भूर्भुव॒स्सुव॒रोम् । (12) - । 2 ।

सायण-टीका

स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते। भूर्भुवः सुवरिति लोकत्रयेऽपि पापरहितो भवामि। ओमित्ययं शब्दोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्था-ङ्गीकारं प्रतिपादयति।

नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वाद् अयं प्रपाठको नारायणीयः॥ इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः॥ २॥

[[51]]

०३ भूर् अन्नम् ...{Loading}...
विश्वास-प्रस्तुतिः

भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥
(अग्नये पृथिव्या इदं न मम)

मूलम्

भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवोऽन्नव्ँ॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॑॥
(वायवे अन्तरिक्षायेदं न मम)

मूलम्

भुवोऽन्नव्ँ॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॑॥
(आदित्याय दिव इदं न मम)

मूलम्

सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर्भुव॒स्सुव॒रन्न॑ञ्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॑॥
(चन्द्रमसे दिग्भ्य इदं न मम)

मूलम्

भूर्भुव॒स्सुव॒रन्न॑ञ्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॑॥

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् । (13) - । 3 ।

मूलम्

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् । (13) - । 3 ।

०४ भूर् अग्नये ...{Loading}...
विश्वास-प्रस्तुतिः

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥
(अग्नये महत इदं न मम)

मूलम्

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥
(वायवे महत इदं न मम)

मूलम्

भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥
(आदित्याय महत इदं न मम)

मूलम्

सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥
(चन्द्रमसे महत इदम्)

मूलम्

भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥

विश्वास-प्रस्तुतिः

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।

मूलम्

नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।

०१ प्राक् चित्तिस् सृक् ...{Loading}...
होता
भास्करोक्त-विनियोगः

अथ तृतीयः प्रपाठकः ॥ 1अथ चातुर्होत्रियम् अग्निम् अधिकृत्योच्यते ।
तत्राग्रेण दर्भ-स्तम्बं दश-होतारं
प्रतिमन्त्रं उदञ्चं उपदधाति -
चित्तिस्स्रुगित्य्-आदिभिर् दशभिर् मन्त्रैर् दशेष्टका उपदधाति

‘ब्रह्म वै चतुर्होतारः’ इति काठके ब्राह्मणमाम्नातम् ।
अत्र मन्त्रा आम्नायन्ते ।
सर्वत्रेष्टकाः स्तूयन्ते ।

‘चित्तिस्स्रुक्, तया देवतया’ इत्यादिर् उपधानक्रमः ।

विश्वास-प्रस्तुतिः

चित्ति॒स् स्रुक्

भट्टभास्कर-टीका

आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केनचिद् यागेन आध्यात्मिकेन इष्टवान् ।
तस्य यागस्य चित्तिस्स्रुक् ।
सिसृक्षोः या बुद्धिः सृष्टिसङ्कल्पात्मिका सा चित्तिः ।
सा अस्य यागस्य स्रुग्बभूव, सर्वस्य मूलत्वात् ।
सा सर्वयागसाधनस्रुग्भावेन रूप्यते ।
यथा जुह्वा विना यागो न निर्वतयितुं शक्यते,
एवं चित्त्या विना न शक्यते जगत्स्रष्टुम् ।
सैव स्रुक्कार्यमकरोदित्यर्थः ।

सायण-टीका

पुरा कदाचित्प्रजापतिः प्रजा उत्पादयितुं कामयमानस्तदुपायं वेदेषु परौक्ष्य दशहोत्राख्यं मन्त्रमपश्यत् ।

मूलम्

चित्ति॒स्स्रुक् ।

विश्वास-प्रस्तुतिः

चि॒त्तम् आज्य॑म्

भट्टभास्कर-टीका

चित्तमाज्यमिति सर्वध्येयतत्त्वाश्रयो महान् चित्तं, तदेवाज्यं, प्रधानोपकरणत्वात्, चित्तिस्रुक्स्थितत्वाच्च ।

मूलम्

चि॒त्तमाज्य॑म् ।

विश्वास-प्रस्तुतिः

वाग् वेदिः॑

भट्टभास्कर-टीका

वाग्वेदिः वाक् अभिलापात्मिका वेदिः, सर्वाभिधेयाधारत्वात् ।

मूलम्

वाग्वेदिः॑ ।

विश्वास-प्रस्तुतिः

आधी॑तं+++(=वाञ्छितम्, रूपम्)+++ ब॒र्हिः

भट्टभास्कर-टीका

आधीतं बर्हिः ।
आधेयं आधीतम् ।
हिभावाभावश्चान्दसः । रूपमुच्यते ।

यद्वा - आधीतं आवाञ्छितं, तदेव रूपं, तद्बर्हिः, वाग्वेद्यां स्तीर्णत्वात् । एवं नामरूपे उक्ते ।

मूलम्

आधी॑तं ब॒र्हिः ।

विश्वास-प्रस्तुतिः

केतो॑+++(←केत मन्त्रणे निःश्रावणे)+++ अ॒ग्निः

भट्टभास्कर-टीका

केतो अग्निः केतयिता व्याकर्ता येन ते व्याकृते नामरूपे,
तेषु सृष्टेषु अनुप्रविष्टो जीवात्मा अग्निराहवनीयः, चितिर्वा ।
यथोक्तं ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति ।

मूलम्

केतो॑ अ॒ग्निः ।

विश्वास-प्रस्तुतिः

विज्ञा॑तम् अ॒ग्निः /अ॒ग्नीत्।

भट्टभास्कर-टीका

विज्ञातम् अग्निः, विविधं ज्ञातं विज्ञातं सृष्टं विविधनामरूपं विश्वं अग्निः ।
यद्वा - सृष्टं विश्वं मयेति या तुष्टिः प्रजापतेः सा अग्निः ।
यद्वा - केतो अग्निः हुतभुक् , विज्ञात्मग्निः आग्नीध्रः ।
तथाऽन्येषां ‘अग्नीत् ’ इत्येव पाठः ।

मूलम्

विज्ञा॑तम॒ग्निः ।

विश्वास-प्रस्तुतिः

वाक्-प॑ति॒र् +++(→इन्द्रियम्)+++ होता॑ ।

भट्टभास्कर-टीका

वाक्पतिः वाचः प्रसवितृ प्राजापत्यं वाग्-इन्द्रियं, स होता ।

मूलम्

वाक्प॑ति॒र्होता॑ ।

विश्वास-प्रस्तुतिः

मन॑ उपव॒क्ता +++(=ब्रह्मा)+++ ।

भट्टभास्कर-टीका

मन उपवक्ता, मनः प्राजापत्यं उपवक्ता ब्रह्मा,
सर्व-कर्म-हेतुत्वात् ।

मूलम्

मन॑ उपव॒क्ता ।

विश्वास-प्रस्तुतिः

प्रा॒णो ह॒विः ।

भट्टभास्कर-टीका

प्राणो हविः प्राजापत्यः प्राणः बललक्षणः स एव हविः इष्टसाधनं, अग्निर्वा, हविषां अग्निरूपत्वात् ।

मूलम्

प्रा॒णो ह॒विः ।

विश्वास-प्रस्तुतिः

सामा॑ध्व॒र्युः ।

भट्टभास्कर-टीका

सामाध्यर्युः, समत्वं साम माध्यस्थ्यम् । यद्वा - सृष्ट्यर्थं तपस्साम कष्टवत्त्वात्, तदेवाध्वर्युः, जगत्सृष्टिलक्षणाध्वरनिर्वर्ति हेतुत्वात् ।

मूलम्

सामा॑ध्व॒र्युः ।

भट्टभास्कर-टीका

एवमयं दशहोता दशभूतो यज्ञात्मा प्रजापतिरेव । ‘ब्रह्मात्मन्वदसृजत’ इत्यादि ब्राह्मणम् । सर्वेषां चैषां चतुर्होतृत्वादेभिः कृतोऽग्निः चातुर्होत्र उच्यते ।
उक्तं च - ‘दशहोता चतुर्होता । पञ्चहोता षड्-होता सप्त-होता । अथ कस्माच्चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता ।’ इत्यादि ॥

ग्रहेष्टका
भास्करोक्त-विनियोगः

2अथ ग्रहेष्टकामुपदधाति - वाचस्पत इति ॥ तं ग्रहेणागृह्णात्’ इति ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

वाच॑स्पते! विधे! नामन्न्! +++(इष्टिके!)+++
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस् त्वम् अ॒स्माक॒न् नाम॑ ।
वा॒चस्-पति॒स् सोमं॑ पिबतु
आ ऽस्मासु॑ नृ॒म्णन्+++(=नॄणां मननीयं)+++ धा॒त् स्वाहा॑ ॥ (1)

भट्टभास्कर-टीका

वाचस्पतिः प्रजापतिः । तदात्मना इष्टकैवामन्त्र्यते । हे वाचस्पत्यात्मिके! इष्टके ! विधे! विधानात्मिके ! विधातृत्वाल्लोकानां, नामन्! नमनकारिन् ! लोकानां वशीकरणं नमनम् । ‘नामन्त्रिते समानाधिकणे’ इति अविद्यमानवत्त्वस्य निषेधः । ते तव नाम नमनं अनुग्राहकत्वं वयं विधेम परिचरेम, त्वमप्यस्माकं नाम नमनं अनुग्राहकत्वं विधेः विधेहि अनुमन्यस्व । इदं च प्रार्थयामहे वाचस्पतिर्यजमानः सम्यक्रियायां निर्वर्तितायां सोमं पिबतु सोमपानयोग्यस्सम्पद्यताम् ।

यद्वा - वाचस्पतिः प्रजापतिः सोमं सोमवत् प्रीणनं दशहोत्रात्मकं वागमृतं पिबतु शृणोत्विति यावत् । हे इष्टके ! अस्मासु नृम्णं धनं नॄणां मननीयं यागाख्यं आधात् आधेहि । दधातेर्लेटि शपो लुक् । स्वाहाकारो व्याख्यातः । ‘अग्निमादधानो दशहोत्राऽराणिमवदध्यात्’ इत्यादिषु विनियोगः । सर्वत्र प्रजापतियज्ञस्मरणादिदमभिमतं तत्र क्रियासिद्धिरिति ॥ इत्यारण्यके तृतीये प्रथमोऽनुवाकः ॥

मूलम्

वाच॑स्पते विधे नामन् ।
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माक॒न्नाम॑ ।
वा॒चस्पति॒स्सोमं॑ पिबतु ।
आऽस्मासु॑ नृ॒म्णन्धा॒त्स्वाहा॑ ॥ (1)

(वाचस्पतय इदं न मम)

०२ दक्षिणतः पृथिवी होता ...{Loading}...
होता
भास्करोक्त-विनियोगः

दक्षिणतः प्राञ्चं चतुर्होतारमुपदधाति - पृथिवी होतेति ॥
‘पृथिवी होता, तया देवतया’ इत्यादिरुपधानक्रमः सर्वत्र ॥

विश्वास-प्रस्तुतिः

पृ॒थि॒वी होता॑ ।

भट्टभास्कर-टीका

पृथिव्या होतृत्वं आसीनत्वसाम्यात् ।
होताऽप्यासीनश्शंसति ।
पृथिवी च आसीना भवति, ‘आस्त इव हीयं’ इति ।

मूलम्

पृ॒थि॒वी होता॑ ।

विश्वास-प्रस्तुतिः

द्यौर् अ॑ध्व॒र्युः ।

भट्टभास्कर-टीका

दिवश्चाध्वर्युत्वं तिष्ठत्त्वसाम्यात् । तिष्ठन् ह्यध्वर्युः प्रतिगृह्णाति । द्यौश्च तिष्ठन्ती भवति, ‘तिष्ठतीव ह्यसौ'10 इति

मूलम्

द्यौर॑ध्व॒र्युः ।

विश्वास-प्रस्तुतिः

रु॒द्रो॑ऽग्नीत् ।

भट्टभास्कर-टीका

रुद्रोऽग्नीत् रुद्रः अग्निः प्राणो वा, स एवाग्नीत् । गतम् ।

मूलम्

रु॒द्रो॑ऽग्नीत् ।

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र् उपव॒क्ता ।

भट्टभास्कर-टीका

बृहस्पतिरेवोपवक्ता बृहतां कर्मणां पातृत्वात् ।

मूलम्

बृह॒स्पति॑रुपव॒क्ता ।

ग्रहेष्टका
भास्करोक्त-विनियोगः

अथ ग्रहेष्टकामुपदधाति - वाचस्पत इति ॥

विश्वास-प्रस्तुतिः

वाच॑स्पते वा॒चो वी॒र्ये॑ण
संभृ॑ततमेन +आय॑क्ष्यसे
यज॑मानाय॒ वार्य॑म्
सुव॒स् कर् अ॑स्मै ।
वा॒चस्पति॒स् सोमं॑ पिबतु
ज॒जन॒द् इन्द्र॑म् इन्द्रि॒याय॒ स्वाहा॑ ॥ (2)

भट्टभास्कर-टीका

हे वाचस्पते! प्रजापते! वाचो वीर्येण तेन मन्त्रेण चतुर्होत्रात्मना सर्ववाङ्मयसारेण सम्भृततमेन अतिशयेनैकत्र सम्भृतेन आयक्ष्यसे आभिमुख्येन इज्यसे, त्वमेव सङ्गन्यसे वा । व्यत्ययेन वर्तमाने लृट् । यद्वा - यक्ष पूजायां इत्यस्मात्कर्मणि लट् ।
स त्वं अस्मै यजमानाय वार्यं वरणीयं स्रुवः सुखं आकः आभिमुख्येन कुरु । करोतेश्छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । यद्वा – लेटि शपो लुक् । वाचस्पतिस्सोमं पिबति पिबत्विति व्याख्यातम् । लिङर्थे लेट् । जजनत् जनयतु इन्द्रं यजमानं कर्मेश्वरं इन्द्रियाय वीर्यार्थं वीर्यस्याश्रयोऽयं यथा स्यादिति । स्वाहेति गतम् । जनेर्लेटि शपः श्लुः, अडागमः । दर्शपूर्णमासादिष्वस्य विनियोगः ॥

इत्यारण्यके तृतीये द्वितीयोनुवाकः ॥

मूलम्

वाच॑स्पते वा॒चो वी॒र्ये॑ण ।
संभृ॑ततमे॒नाय॑क्ष्यसे ।
यज॑मानाय॒ वार्य॑म् ।
आसुव॒स्कर॑स्मै ।
वा॒चस्पति॒स्सोमं॑ पिबतु ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा॑ ॥ (2)

(पृथिव्या इदं न मम )

[[52]]

०३ पश्चात् अग्निर् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः

1पश्चाद् उदञ्चं पञ्चहोतारम् उपदधाति - अग्निर्होतेति ॥

विश्वास-प्रस्तुतिः

अ॒ग्निर् होता॑ ।

भट्टभास्कर-टीका

देवानां आह्वातृत्वादग्नेर्होतृत्वम् ।

मूलम्

अ॒ग्निर्होता॑ ।

विश्वास-प्रस्तुतिः

अ॒श्विना॑ऽध्व॒र्यू ।

भट्टभास्कर-टीका

कर्मठत्वात् अश्विनौ अध्वर्यू अध्वरस्य नेतारौ अध्वर्युः प्रतिप्रस्थाता च ।

मूलम्

अ॒श्विना॑ऽध्व॒र्यू ।

विश्वास-प्रस्तुतिः

त्वष्टा॒ऽग्नीत् ।

भट्टभास्कर-टीका

त्वष्टा अग्नीत् आग्नीध्रः उत्तेजनहेतुत्वात्, अग्नीधश्च विहरणादिकृत्त्वात् ।

मूलम्

त्वष्टा॒ऽग्नीत् ।

विश्वास-प्रस्तुतिः

मि॒त्र उ॑पव॒क्ता ।

मूलम्

मित्र उपवक्ता ब्रह्मा, कर्मसाक्षित्वात् ॥

मूलम्

मि॒त्र उ॑पव॒क्ता ।

ग्रहेष्टका
भास्करोक्त-विनियोगः

2अथ ग्रहेष्टकाम् उपदधाति ॥

विश्वास-प्रस्तुतिः

सोम॒स् +++(वल्ली-रूपेण)+++ सोम॑स्य पुरो॒-गाः
शु॒क्रश् शु॒क्रस्य॑ पुरो॒-गाः
श्रा॒तास्+++(=पक्वाः)+++ त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्+++(←वात+आप्)+++ हवन॒-श्रुत॒स् +++(←श्रुत् ←श्रु [त इन्द्र])+++ स्वाहा॑ ।

भट्टभास्कर-टीका

सोमो वल्ली सोमस्य पुरोगाः प्रधानभूतः ओषधीशत्वात् ।
शुक्रः सोमरसः सर्व-रस-प्रधान-भूतः
शुक्र एव वा ।
ताभ्यामेव ते सोमाः श्राताः पक्वाः साधुसम्पादिताः हे इन्द्र !
वातापेः वात-तुल्य-गमनस्य हवनश्रुतः अह्वानस्य श्रोतुः, भक्तवत्सलस्येति यावत् । एवं भूतस्य तवेति । स्वाहेति गतम् । चातुर्मास्यादिषु विनियोगः ॥ इत्यारण्यके तृतीये तृतीयोनुवाकः ॥

मूलम्

सोम॒स् सोम॑स्य पुरो॒गाः ।
शु॒क्रश्शु॒क्रस्य॑ पुरो॒गाः ।
श्रा॒तास्त॑ इन्द्र॒ सोमाः॑ ।
वाता॑पेर्हवन॒श्रुत॒स्स्वाहा॑ ।

(3)

(अग्नय इदं न मम)

०४ सूर्यन् ते ...{Loading}...
होता
भास्करोक्त-विनियोगः

1द्वौ षढ्ढोतारौ, ‘सूर्यं ते’ इत्येकः,
‘वाग्योता’ इत्यन्यः
तत्र च होतृब्राह्मणे ‘वाग्घोता षढ्ढोतॄणाम्’ इति दर्शनात् ।
स एव ‘उत्तरतः प्राञ्चं षढ्ढोतारम्'12 इति विधीयते ।
‘सूर्य ते’ इत्यस्य तु पशुबन्धादिषु विनियोगः ।

विश्वास-प्रस्तुतिः

सूर्य॑न् ते॒ चक्षुः॑ ।

भट्टभास्कर-टीका

सूर्य ते चक्षुः । हे वाचस्पते! तव चक्षुः सूर्यं अनुप्रविष्टमिति शेषः । सूर्यात्मना चक्षुषा त्वं विश्वं पश्यसीतिभावः ।

मूलम्

सूर्य॑न्ते॒ चक्षुः॑ ।

विश्वास-प्रस्तुतिः

वातं॑ प्रा॒णः ।

भट्टभास्कर-टीका

वातमनुप्रविष्टस्तव प्राणः त्वदीयेन प्राणेन विश्वं प्राणितीति ।

मूलम्

वातं॑ प्रा॒णः ।

विश्वास-प्रस्तुतिः

द्यां पृ॒ष्ठम् ।

भट्टभास्कर-टीका

द्यां पृष्ठं उपरिभागः, स एव द्यौरिति ।

मूलम्

द्यां पृ॒ष्ठम् ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्षमा॒त्मा ।

भट्टभास्कर-टीका

अन्तरिक्षं तव अत्मा ।

मूलम्

अ॒न्तरि॑क्षमा॒त्मा ।

विश्वास-प्रस्तुतिः

अङ्गै॑र्य॒ज्ञम् ।

भट्टभास्कर-टीका

अङ्गैः अवयवैः यज्ञं, तव अङ्गानि यज्ञाङ्गानि ।

मूलम्

अङ्गै॑र्य॒ज्ञम् ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वीँ शरी॑रैः +++(मन्यन्ते)+++।

विश्वास-प्रस्तुतिः

पृथिवीं शरीरैः शरीरेण । वचनव्यत्ययः । शरीरभेदैर्वा तव शरीरं पृथिवी इति ॥

भट्टभास्कर-टीका

पृथिवीं शरीरैः शरीरेण । वचनव्यत्ययः । शरीरभेदैर्वा तव शरीरं पृथिवी इति ॥

मूलम्

पृ॒थि॒वीँ शरी॑रैः ।

ग्रहः
भास्करोक्त-विनियोगः

2अथ ग्रहः ॥

विश्वास-प्रस्तुतिः

वाच॑स्प॒ते ऽच्छि॑द्रया वा॒चा ।
अच्छि॑द्रया जु॒ह्वा॑ ।
दि॒वि दे॑वा॒वृधँ॒ होत्रा॒म्+++(=होतव्यं)+++ एर॑यस्व॒ स्वाहा॑ ।
(4)

भट्टभास्कर-टीका

हे वाचस्पते!
अच्छिद्रया अविनाशया षढ्ढोत्रात्मिकया अच्छिद्रया जुह्वा अच्छिद्रजुहू-स्थानीयया
दिवि देवावृधं देवानां वर्धयित्रीं होत्रां होतव्यं सोमादिहविः एरयस्व आभिमुख्येन ईरयस्व ।
स्वाहेति गतम् ।
वृधेर्ण्यन्तात् क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ॥ इत्यारण्यके तृतीये चतुर्थोऽनुवाकः ॥

मूलम्

वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा ।
अच्छि॑द्रया जु॒ह्वा॑ ।
दि॒वि दे॑वा॒वृधँ॒ होत्रा॒मेर॑यस्व॒ स्वाहा॑ ।
(4)

(सूर्यायेदं न मम)
०५ प्राक् महाहविर् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः

1उपरिष्टात्प्राञ्चं सप्तहोतारमुपदधाति - महाहविरिति ॥ सौम्येष्वध्वरेषु विनियोगः ।

विश्वास-प्रस्तुतिः

म॒हा-ह॑वि॒र् होता॑ ।

भट्टभास्कर-टीका

महत् सर्वं हविः यस्य तन्महाग्रासं ब्रह्मैव होता, होत्रा च महनीयं हविः भवतीति । यद्वा - महाहाविः अग्निः सर्वभक्षकत्वात् ।

मूलम्

म॒हाह॑वि॒र्होता॑ ।

विश्वास-प्रस्तुतिः

स॒त्य-ह॑विर् अध्व॒र्युः ।

भट्टभास्कर-टीका

सत्यहविरध्वयुः सत्यमेव हविः यस्य स सत्यहविः प्रजापतिः सोऽध्वर्युः, कर्तृत्वसाम्यात् ।

मूलम्

स॒त्यह॑विरध्व॒र्युः ।

विश्वास-प्रस्तुतिः

अच्यु॑त-पाजा+++(=बलं)+++ अ॒ग्नीत् ।

भट्टभास्कर-टीका

अच्युतं पाजः बलं वेगो वा यस्य स वायुः सोऽग्नीत् विहरणादिकृत्त्वात् ।

मूलम्

अच्यु॑तपाजा अ॒ग्नीत् ।

विश्वास-प्रस्तुतिः

अच्यु॑तमना उपव॒क्ता +++(→ब्रह्मा)+++।

भट्टभास्कर-टीका

अच्युतं नित्यं सर्वत्र स्थितं मनो यस्य स विष्णुः स उपवक्ता ब्रह्मा सर्वकर्मसाक्षित्वात् ।

मूलम्

अच्यु॑तमना उपव॒क्ता ।

विश्वास-प्रस्तुतिः

अ॒ना॒धृ॒ष्यश् चा॑प्रतिधृ॒ष्यश् च॑ य॒ज्ञस्या॑भिग॒रौ+++(=गानौ)+++ ।

भट्टभास्कर-टीका

अनाधृष्यः केन चिदप्यनभिभवनीयः अभिभवितुमशक्यः इन्द्रः, अप्रतिधृष्यः स्वयं अभिभवन्नपि योऽन्येन प्रत्यभिभवितुं न शक्यते सोऽप्रतिधष्यः अग्निः, रुद्र इत्येके । उभयत्रापि ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।

तावेवाभिगरौ यज्ञस्य उद्गातारम् अभिगन्तारौ प्रस्तोतृ-प्रतिहर्तारौ । केचिदाहुः - चर्मकर्ते व्यायच्छमानौ शूद्रार्यावेतौ यज्ञस्याभिगरौ प्रशसांनिन्दयोः कर्तारौ । पचाद्यच् ।

मूलम्

अ॒ना॒धृ॒ष्यश्चा॑प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ ।

विश्वास-प्रस्तुतिः

अ॒यास्य॑+++(=अयानमयः)+++ उद्गा॒ता ।

भट्टभास्कर-टीका

अयास्यः अङ्गिरसः पुत्र इत्येके । अन्य आहुः - अयानमयाः अविनाशः तत्र स्थितः अयास्यः । बहुव्रीहिर्वा । अविनाशे महिम्नि स्थितो अयास्यः, सर्वोत्तीर्ण ईश्वर एव । स उद्गाता गानस्थितत्वात् ॥

मूलम्

अ॒यास्य॑ उद्गा॒ता ।

ग्रहः
विश्वास-प्रस्तुतिः

वाच॑स्पते हृद्-विधे नामन् ।
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस् त्वम् अ॒स्माक॒न् नाम॑ ।

भट्टभास्कर-टीका

2अथ ग्रहः हे वाचस्पते! हे हृत्! उपसंहारकाले सर्वस्य हर्तः यद्वा - हृदि स्थितः सर्वस्य । विधे! नामन् ! इत्यादि गतम् ।

मूलम्

वाच॑स्पते हृद्विधे नामन् ।
वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माक॒न्नाम॑ ।

विश्वास-प्रस्तुतिः

वा॒चस्-पति॒स् सोम॑म् अपात्
मा दैव्य॒स् तन्तु॒श् छेदि॒, मा म॑नु॒ष्यः॑ ।
नमो॑ दि॒वे ।
नमः॑ पृथि॒व्यै स्वाहा॑ ।
(5)

भट्टभास्कर-टीका

अपादिति विशेषः, पिबत्वित्येवार्थः । छान्दसो लुङ् । दैव्यः दिवि भवः तन्तुः देवजातिः मा छेदि । ‘देवाद्यञञौ’ इति यञ् । मा च मनुष्यजातिः, छेदीत्येव । यद्वा - देवार्थो मनुप्यार्थश्च तन्तुः यज्ञः मा छेदि विच्छिन्नो मा भूत् । नमो दिवे नमः पृथिव्यै च तयोः तन्त्वोः स्थानाभ्याम् । स्वाहेति गतम् ॥ इत्यारण्यके तृतीये पञ्चमोऽनुवाकः ॥

मूलम्

वा॒चस्पति॒स्सोम॑मपात् ।
मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ ।
नमो॑ दि॒वे ।
नमः॑ पृथि॒व्यै स्वाहा॑ ।
(5)

(वाचस्पतय इदं न मम)
०६ वाग् होता ...{Loading}...
होता
भास्करोक्त-विनियोगः

1उत्तरतः प्राञ्चं षढ्ढोतारमुपदद्धाति - वाग्घोतेति ॥ ‘वाग्घोता षढ्ढोतॄणां’ इत्येतद्-ब्राह्मणोक्तत्वाद् अयमेवोत्तरत इत्येके ।
क्रमाम्नानात् ‘सूर्यं ते’ इत्ययमेव, न ‘वाग्घोता’ इति । द्वयोरपि स्तुतिरित्यन्ये । अपरे तु विकल्प इत्याहुः ।

विश्वास-प्रस्तुतिः

वाग् घोता॑ ।

भट्टभास्कर-टीका

वागेव मदीया मम होता

मूलम्

वाग्घोता॑ ।

विश्वास-प्रस्तुतिः

दी॒क्षा पत्नी॑ ।

भट्टभास्कर-टीका

शस्त्रादिवाक्स्थानीया दीक्षा नियमपरम्परा सैव पत्नी ।

मूलम्

दी॒क्षा पत्नी॑ ।

विश्वास-प्रस्तुतिः

वातो॑ऽध्व॒र्युः ।

भट्टभास्कर-टीका

वातः प्राणः स एव अध्वर्युः कर्तृत्वात् ।

मूलम्

वातो॑ऽध्व॒र्युः ।

विश्वास-प्रस्तुतिः

आपो॑ऽभिग॒रः ।

भट्टभास्कर-टीका

आपोऽभिगरः आभिगरिता ब्रह्मा । यद्वा - अभिगरणं उद्देशादिर्यजमानव्यापारः, तद्धेतुत्वात् ।

मूलम्

आपो॑ऽभिग॒रः ।

विश्वास-प्रस्तुतिः

मनो॑ ह॒विः ।

भट्टभास्कर-टीका

मनो हविः आज्यादि, तृप्तिहेतुत्वात् ।

मूलम्

मनो॑ ह॒विः ।

विश्वास-प्रस्तुतिः

तप॑सि जुहोमि ।

भट्टभास्कर-टीका

तपसि अग्निस्थानीये तत् मनोहविः जुहोमि स्थापयामि अविनाशेन प्रवर्तयामि इति सूचितं हविग्रहणेन ॥

मूलम्

तप॑सि जुहोमि ।

ग्रहः
विश्वास-प्रस्तुतिः

भूर् भुव॒स् सुवः॑ ।
ब्रह्म॑ स्वयं॒-भु ।
ब्रह्म॑णे स्वयं॒-भुवे॒ स्वाहा॑ ।
(6)

भट्टभास्कर-टीका

2अथ ग्रहः ॥ भूरादयस्सर्वेऽपि लोकाः ब्रह्मैव स्वयम्भु, स्वयमेव ब्रह्म भूरादिरूपेण भवतीति । अहं च मदीयः च यज्ञः सर्वं तदेव । तस्मै ब्रह्मणे स्वयम्भुवे स्वाहा स्वाहुतं भव, सुष्ठूपहिता वा भव ॥ इत्यारण्यके तृतीये षष्ठोऽनुवाकः ॥

मूलम्

भूर्भुव॒स्सुवः॑ ।
ब्रह्म॑ स्वयं॒भु ।
ब्रह्म॑णे स्वयं॒भुवे॒ स्वाहा॑ ।
(6)

(वाचस्पतये ब्रह्मण इदं न मम)
०७ ब्राह्मण एकहोता ...{Loading}...
भास्करोक्त-विनियोगः

1चातुर्मास्येषु केशनिवर्तनेषु ‘तदृतं तत्सत्यं’ इति जपित्वा
तमेतम् अनुवाकं जपति ।
ब्रह्ममेधे च आदीयमानं प्रेतमेतेनानुवाकेन अभिमन्त्रयते - ब्राह्मण एकहोता इति ॥

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒ण एक॑-होता +++(यज्ञः)+++। स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
य॒ज्ञश् च॑ मे भूयात्

होमे त्यागः

(ब्रह्मण इदं न मम)

भट्टभास्कर-टीका

एको होता ऋत्विक् यस्य स एकहोता । ‘ऋतश्छन्दसि’ इति कबभावः ।

ईडशो यज्ञविशेषो ब्राह्मणो नाम, तपोमयत्वात् तस्य तद्वदृत्विग् उपकारित्वेन रूप्यते ।

स यज्ञः स एवाग्निष्टोमादिः सर्वो यज्ञः, तत्साध्यत्वात् । स मे ददातु प्रजादि । स च यज्ञः सर्वदा मे भूयात् । एवं ‘अग्निर्द्विहोता’ इत्यादि द्रष्टव्यम् ॥

मूलम्

ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
य॒ज्ञश्च॑ मे भूयात् ।

मूलम्

स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
य॒ज्ञश्च॑ मे भूयात् ।

विश्वास-प्रस्तुतिः

अ॒ग्निर् द्वि-हो॑ता +++(यज्ञः)+++।
भ॒र्ता +++(पाक-हविर्-वहनाभ्यां)+++।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
भ॒र्ता च॑ मे भूयात्

भट्टभास्कर-टीका

2अग्निः द्वाभ्यां पाक-हविर्-वहनाभ्यां विश्वं बिभर्तीति द्विहोता यज्ञः । स एव सर्वस्य भर्ता ॥

मूलम्

अ॒ग्निर् द्विहो॑ता +++(यज्ञः)+++।
स भ॒र्ता ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
भ॒र्ता च॑ मे भूयात् ।

विश्वास-प्रस्तुतिः

पृ॒थि॒वी त्रिहो॑ता +++(यज्ञः)+++।
स प्र॑ति॒ष्ठा ।
(7)
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
प्र॒ति॒ष्ठा च॑ मे भूयात्

होमे त्यागः

(पृथिव्या इदं न मम)

भट्टभास्कर-टीका

3पृथिवी त्रिभिः अग्न्य्-अन्न-यागैः सर्वप्रतिष्ठाहेतुः इति त्रिहोता यज्ञः ॥

मूलम्

पृ॒थि॒वी त्रिहो॑ता ।
स प्र॑ति॒ष्ठा ।
(7)
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्र॒ति॒ष्ठा च॑ मे भूयात् ।

विश्वास-प्रस्तुतिः

अ॒न्तरि॑क्ष॒ञ् चतु॑र्-होता +++(यज्ञः)+++।
स वि॒ष्ठाः +++(दिक्-सङ्ख्यया)+++।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
वि॒ष्ठाश् च॑ मे भूयात्

होमे त्यागः

(अन्तरिक्षायेदं न मम)

भट्टभास्कर-टीका

4अन्तरिक्षं चतुर्भिः वाग्-वृष्ट्य्-अवकाश-स्थानैः विश्वं विविधं स्थापयतीति ॥

मूलम्

अ॒न्तरि॑क्ष॒ञ्चतु॑र्होता ।
स वि॒ष्ठाः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
वि॒ष्ठाश्च॑ मे भूयात् ।

विश्वास-प्रस्तुतिः

वा॒युः पञ्च॑-होता +++(यज्ञः)+++।
स प्रा॒णः +++(पञ्चत्वात्)+++।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
प्रा॒णश्च॑ मे भूयात्
(8)

होमे त्यागः

(वायव इदं न मम)

भट्टभास्कर-टीका

5वायुः पञ्चभिः प्राणादिवृत्तिभिः विश्वं प्राणयति ॥

मूलम्

वा॒युः पञ्च॑होता ।
स प्रा॒णः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्रा॒णश्च॑ मे भूयात् ।
(8)

विश्वास-प्रस्तुतिः

च॒न्द्रमा॒ष् षड्-ढो॑ता ।
स ऋ॒तून् क॑ल्पयाति
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
ऋ॒तव॑श् च मे कल्पन्ताम्

होमे त्यागः

(चन्द्रमस इदं न मम)

भट्टभास्कर-टीका

6चन्द्रमाः षढ्ढोता षड्भिः ऋतुकल्पनाभिः विश्वं धारयति ॥

मूलम्

च॒न्द्रमा॒ष्षड्ढो॑ता ।
स ऋ॒तून्क॑ल्पयाति ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
ऋ॒तव॑श्च मे कल्पन्ताम् ।

विश्वास-प्रस्तुतिः

अन्नँ॑ स॒प्त-हो॑ता ।
स प्रा॒णस्य॑ प्रा॒णः ।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात्

भट्टभास्कर-टीका

7अन्नं सप्तभिः शीर्षण्यादिभिः प्राणवृत्तिभिः प्राणयति विश्वं, तेषां प्राणनहेतुत्वात् ॥

मूलम्

अन्नँ॑ स॒प्तहो॑ता ।
स प्रा॒णस्य॑ प्रा॒णः ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् ।

विश्वास-प्रस्तुतिः

द्यौर् अ॒ष्ट-हो॑ता ।
सो॑ ऽनाधृ॒ष्यः ।(9)
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
अ॒ना॒धृ॒ष्यश् च॑ भूयासम्

होमे त्यागः

(दिव इदं न मम)

भट्टभास्कर-टीका

8द्यौः अष्टाभिः इन्द्रियात्मभिः प्राणाद्यन्तःकरणान्तैः विश्वं वृष्ट्यादिद्वारेण तर्पयति, अनाधृष्टं सुखस्थानं भवति ॥

मूलम्

द्यौर॒ष्टहो॑ता ।
सो॑ऽनाधृ॒ष्यः ।(9)
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
अ॒ना॒धृ॒ष्यश्च॑ भूयासम् ।

विश्वास-प्रस्तुतिः

आ॒दि॒त्यो नव॑होता ।
स ते॑ज॒स्वी ।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
ते॒ज॒स्वी च॑ भूयासम् ।

होमे त्यागः

(आदित्यायेदं इदं न मम)

भट्टभास्कर-टीका

9आदित्यो नवभिः पूर्वोक्तैरष्टभिः आत्मना च विश्वं निवर्तयन् सर्वप्रत्यक्षं तेजस्वी भवति ॥

मूलम्

आ॒दि॒त्यो नव॑होता ।
स ते॑ज॒स्वी ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
ते॒ज॒स्वी च॑ भूयासम् ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र् दश॑-होता ।
स इ॒दँ सर्वम्॑ ।
स मे॑ ददातु प्र॒जां प॒शून् पुष्टिय्ँ॒ यशः॑ ।
सर्व॑ञ् च मे भूयात्
(10)

होमे त्यागः

(प्रजापतय इदं न मम)

भट्टभास्कर-टीका

10प्रजापतिर्दशभिः पूर्वोक्तैः नवभिः स्थावरात्मना च सर्वमिदं भूत्वा तिष्ठति ॥ इत्यारण्यके तृतीये सप्तमोऽनुवाकः ॥

मूलम्

प्र॒जाप॑ति॒र्दश॑होता।
स इ॒दँ सर्वम्॑ ।
स मे॑ ददातु प्र॒जां प॒शून्पुष्टिय्ँ॒यशः॑ ।
सर्व॑ञ्च मे भूयात् ।
(10)

[[54]]

सर्वप्रायश्चित्ताहुतयः

सर्वप्रायश्चित्ताहुतयः

प्राणान् आयम्य,

श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं ब्रह्मकूर्चपञ्चगव्यहोमकर्मणि मध्ये सम्भावितमन्त्रतन्त्रदेवताविपर्यासन्यूनातिरेक(रिक्त)स्वराक्षरपदभ्रेषप्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतीर्होष्यामि; प्राणायामञ्च करिष्ये ।

भूर् भुव॒स् सु॒व॒स् स्वाहा॑ ...{Loading}...
विश्वास-प्रस्तुतिः

ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥

मूलम्

ओं भूर् भुव॒स् सुव॒स् स्वाहा॑ ॥
(प्रजापतय इदं न मम) ॥१॥

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना॑ज्ञातय्ँ॒यदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥

०४ त्वं नो ...{Loading}...

त्व᳓न् नो अग्ने व᳓रुणस्य विद्वा᳓न्
देव᳓स्य हे᳓डो᳓+++(=क्रोधो )+++ ऽव यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
य᳓जिष्ठो +++(हविर्)+++व᳓ह्नितमश् शो᳓शुचानो+++(=देदीप्यमानः)+++
वि᳓श्वा द्वे᳓षाँसि प्र᳓ मुमुग्ध्य् अस्म᳓त् ।

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

०५ स त्वं ...{Loading}...

स᳓ त्व᳓न् नो अग्ने ऽवमो᳓+++(=मूलभूतो)+++ भव+ऊती᳓+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
ने᳓दिष्ठो+++(=अन्तिकतमो)+++ अस्या᳓ उष᳓सो व्यु᳙ष्टौ+++(=व्युष्टायाम्)+++ ।
अ᳓व यक्ष्व नो व᳓रुणँ, र᳓राणो
वीहि᳓+++(=खाद)+++ मृडीकँ᳓+++(=सुखयितारं [हविः])+++ सुह᳓वो न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

[[55]]

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा॑ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा॑ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा॑ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा॑ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा॑ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा॑ ॥
(प्रजापतय इदं न मम)

ओं विष्ण॑वे॒ स्वाहा॑ ॥
(विष्णवे परमात्मन इदं न मम)

प्राणायामम् । परिषेचनम् ।

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

०१ अग्ने नय ...{Loading}...

अ᳓ग्ने न᳓य सुप᳓था राये᳓ अस्मा᳓न्
वि᳓श्वानि देव वयु᳓नानि+++(=ज्ञानानि)+++ विद्वा᳓न् ।
युयोध्य्+++(=अपनय)+++ अ᳙स्मज्-जुहुराण᳓म्+++(=कुटिलकारि)+++ ए᳓नो
भू᳓यिष्ठान् ते न᳓म-उक्तिव्ँ विधेम

इति अग्न्युपस्थानम्

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

पञ्चगव्यप्राशनश्लोकः

यत् त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं ब्रह्मकूर्चस्य (पञ्चगव्यस्य) दहत्वग्निरिवेन्धनम् ॥

इति मन्त्रेण प्राश्य, आचम्य, सात्त्विकत्यागं कुर्यात् ॥

॥ ब्रह्मकूर्चपञ्चगव्यविधिः समाप्तः ॥

[[56]]