तमिळ्
சீமலங்கீடேன். வேசிக்ககூட
ஸ்ரீரங்கம் ஸ்ரீமதாண்டவன் (ஸ்ரீமுஷ்ணம்)
ஸ்ரீரங்கம் ஸ்ரீமதாண்டவன் ஸ்ரீமுகம்
अयिभोः अखण्डवैभवभवनभूतपण्डितप्रकाण्डमण्डल मण्डनायमानाः ! विदितचरोप्यं विषयः विषयानुगुणपक्षपातिनां अक्षीणगुणवतां समक्षे निक्षिप्यते सनातनधर्मप्रकर सदातन रक्षणार्थं इतरशिक्षणार्थं क्षणार्थञ्च ।
अपि च निकषा मदीयमनीषानिकषं प्राप्य निष्कर्षायसंप्रेषितश्श्रौतिकुलतिलकैः सदाचारसदाचार्यसेवाधिगतधिषणाविलासैः सदाचारनिरतैः सत्संप्रदायदिदर्शायिषुभिः बहुस्मृतिसमालोचन समासादितसमीचीन स्मृतिसंततिभिः आजानशुद्धैः जनताहिताऽऽहितचित्तैः श्रीदेशिकाचार्यवर्यैः प्रयोगप्रकारनिकरप्रतिपादकोऽयं ग्रन्थतल्लजः ।
समुन्मेषितसुस्वरूपप्रयोगजातं अद्यानवद्ययाशैल्या निरूप्यते, निरुप्यते च प्राचीनमिदं समनन्तर समीचीनाङ्कुर प्ररोहणाय सर्वजनतावनाय च सर्वधर्मकर्म मर्मज्ञक्षेत्रज्ञ पवित्रमानसेषु
इत्येतदेवस्माकं समेषां सदामोदावहम् ।
मदीयमनीषानिकषं प्राप्य सदाचारसदाचार्यसेवासमधिसत्संप्रदायदिदर्शायिषुभिः -
प्रचिख्यापयिषुणामया तदीयसर्वप्रयोगसामञ्जस्यं, प्रतिपाद्यन्ते स्थालीपुलाकन्यायेनात्र द्वित्रविषयाः । कुत्रचिदुक्तं
धृत धौताचारवस्त्र
इति । तत्तदाचारानुगुणं वस्त्रं, अपि च धौतं, धृतञ्च येन सः इत्यादिरूपं निर्वाहसौकर्यं अनभ्युपगच्छद्भिः मान्यैरन्यैः कैश्चिद्दोषोऽस्मिन्नुदघोषि विमर्शकशीर्षभूषाभूतेर्ष्यया शललीशलाकयेव शैल्या च । अत्र कुत्र चित्
अत्र शाकादिदानेन क्लेशिताः यूयमीदृशाः
इतिपाठस्स्मृत्यन्तर दृष्टत्वादादृतः ।
परिभाषाप्रकरणञ्चानितरसाधारणरीत्या न्यरूपि संदेह संदोह समुन्मूलनाय ।
सपिण्डीकरण प्रकरणस्थब्राह्मणवरणेपौराणिकी गाथा संगृहीता कर्मसाद्गुण्याय ।
अपि च तत्रैव पादप्रक्षालनप्रकरणं संशयविपर्यय विदूरतयानायासेन शोधितञ्च । इत्थमनेकविधाबाधिप्रयोगाः सूक्ष्मेक्षिकया संगृह्यसंयोजिताश्च ।
एतेषां प्रबन्धॄणां कृषिः इतोप्यधिकवैभवशालिनी एधतामितः परमपीति आशास्य
क्रियते
श्रीरङ्गनाथदिव्यमणिपादुकास्मृतिः
श्रीरङ्गरामानुजमुनिना.