१५ दर्शादितर्पणम्


एकैकस्य तर्पणस्य सप्ताष्टौ वा तिला ग्राह्या।

पित्रादीनाम् आब्दिकं वा कृत्वा
परेद्युः पित्रादीन् मात्रादींश्च तपयेत्।
तीर्थ-श्राद्धे हिरण्य-श्राद्धे च श्राद्धात् परं,
महालये - परेद्युः ।


दर्शादौ अपराह्णे

अमुक-गोत्राणाम् अमुक-शर्मणां पितृ-पितामह-प्रपितामहानां स-पत्नीकानाम्
अमुक-गोत्राणाम् अमुक-शर्मणां मातामह–मातुः-पितामह–मातुःप्रपितामहानां स-पत्नीकानाम्
उभयवंश-पितृणां दर्शादि-श्राद्धं तिल-तर्पण-रूपेण करिष्ये

इति सङ्कल्प्य
द्वेधा दक्षिणाग्रान् दर्भान् संस्तीर्य

आवाहनादि

पूर्व-दर्भेषु “आयात पितर” इति सपत्नीकान् पित्रादीन् आवाह्य

AyAta_pitaraH ...{Loading}...

आया॑त पितरस् सो॒म्या
ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम् अ॒स्मभ्यं॑ ददतो+++(=ददत + उ)+++ र॒यिञ् च॑
दीर्घायु॒त्वं च॑ श॒तशा॑रदं च ॥

“सकृद् आच्छिन्नम्” इति दर्भान् आसनार्थं दत्वा

90 सकृदाच्छिन्नं बर्हिर् ...{Loading}...

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर् ऊर्णा॑-मृदु ।
स्यो॒नं पि॒तृभ्य॑स् त्वा भराम्य् अ॒हम् ।
अ॒स्मिन् सी॑दन्तु मे पि॒तर॑स् सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश् चानु॒गैस् स॒ह ॥33॥

तिलैर् अभ्यर्च्य
“ऊर्जं वहन्तीर्” इति तिलोदकम् उत्सृज्य

३४ ऊर्जं वहन्तीरमृतम् ...{Loading}...

ऊर्जं॒ वह॑न्तीर् अ॒मृतं॑ घृ॒तं
पयः॑ की॒लालं॑ परि॒स्रु॑तम्।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥

पश्चिम-दर्भेषु “आयात मातुः पितरः” इति सपत्नीकान् मातामहादीन् आवाह्य

AyAta_pitaraH ...{Loading}...

आया॑त पितरस् सो॒म्या
ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम् अ॒स्मभ्यं॑ ददतो+++(=ददत + उ)+++ र॒यिञ् च॑
दीर्घायु॒त्वं च॑ श॒तशा॑रदं च ॥

“सकृदाच्छिन्नमि"ति दर्भान् आसनार्थं दत्वा

90 सकृदाच्छिन्नं बर्हिर् ...{Loading}...

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर् ऊर्णा॑-मृदु ।
स्यो॒नं पि॒तृभ्य॑स् त्वा भराम्य् अ॒हम् ।
अ॒स्मिन् सी॑दन्तु मे पि॒तर॑स् सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश् चानु॒गैस् स॒ह ॥33॥

तिलैः अभ्यर्च्य
तिलोदकम् उत्सृज्य

पितृ-तर्पणम्

“उदीरताम् अवरे” “अङ्गिरसो नः पितरः” “आयन्तु नः पितरस्सोम्यासः” इति मन्त्रम्

०१ उदीरतामवर उत्परास ...{Loading}...

उ᳓द् ईरताम् अ᳓वर उ᳓त् प᳓रास
उ᳓न् मध्यमाः᳓ पित᳓रः सोमिया᳓सः
अ᳓सुं य᳓ ईयु᳓र् अवृका᳓ ऋतज्ञा᳓स्
ते᳓ नो अवन्तु पित᳓रो ह᳓वेषु

०६ अङ्गिरसो नः ...{Loading}...

अ᳓ङ्गिरसो नः पित᳓रो न᳓वग्वा
अ᳓थर्वाणो भृ᳓गवः सोमिया᳓सः
ते᳓षां वयं᳓ सुमतउ᳓ यज्ञि᳓यानाम्
अ᳓पि भद्रे᳓ सौमनसे᳓ सियाम

५८ आ यन्तु ...{Loading}...
विश्वास-प्रस्तुतिः

आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑
ऽग्निष्वा॒त्ताः प॒थिभि॑र् देव॒यानैः॑।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्त्व्
अधि॑ ब्रुवन्तु॒ ते᳖ अवन्त्व् अ॒स्मान् ॥

मूलम्

आय॑न्तु नः पि॒तर॑स्सो॒म्यासौ॑ऽग्निष्वा॒त्ताः प॒थिर्भिर्देव॒यानैः॑ ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॑ मद॒न्त्वधि॑ ब्रुवन्तु॒ ते अव॑न्त्व॒स्मान् ॥

MS

टीका

MS