‘ब्रह्मजज्ञानम्’ इत्यादि, ‘ब्रह्मसमिद्भवत्याहुतीना’मित्यन्तं ब्रह्मसूक्तं,
८ २१-२६ ब्रह्म जज्ञानम् ...{Loading}...
सायणोक्त-विनियोगः
21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।
मूलम् ...{Loading}...
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒नऽआ॑वः। स बु॒ध्न्या᳖ऽ उप॒माऽ अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥३ ॥
तैत्तिरीयम् - मूलम्
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता᳚त् ।
वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒ मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ब्रह्म॑। ज॒ज्ञा॒नम्। प्र॒थ॒मम्। पु॒रस्ता॑त्। वि। सी॒म॒तः। सु॒रुच॒ इति॑ सु॒ऽरुचः॑। वे॒नः। आ॒व॒रित्या॑वः। सः। बु॒ध्न्याः᳖। उ॒प॒मा इत्यु॑प॒ऽमाः। अ॒स्य॒। वि॒ष्ठाः। वि॒स्था इति॑ वि॒ऽस्थाः। स॒तः। च॒। योनि॑म्। अस॑तः। च॒। वि। व॒रिति॑ वः। ३।
अधिमन्त्रम् (VC)
- आदित्यो देवता
- वत्सार ऋषिः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को किस स्वरूपवाला ब्रह्म उपासना के योग्य है, यह विषय अगले मन्त्र में कहा है ॥
सायणटीका
यदेतज्जगत्कारणं ब्रह्म ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिश्रुतिप्रसिद्धं तदेतत् प्रथमं सृष्ट्यादौ जज्ञानं जगदाकारेणोत्पद्यमानं सत् पुरस्तात् पूर्वस्यां दिशि वेनः कमनीय आदित्यो भूत्वा सुरुचः सुष्ठु दीप्यमानः सीमतः पूर्वदक्षिणपश्चिमोदग्दिग्विशेषसीम्नो विभज्य आवः आवृणोत् । स वेनः आदित्यो बुध्नियाः बुध्नं मूलं तत्र भवाः आकाशवाय्वग्निजलपृथिव्यः विष्ठाः विभज्यावस्थिता अकरोदिति शेषः । तथा सतश्च विद्यमानस्य गिरिनदीसमुद्रादेः असतश्च अविद्यमानस्य योनिं कारणं प्रमाणं भ्रान्तिरूपं विवः विवृतवान् सर्वजगद्व्यवस्थां निर्मितवानित्यर्थः ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (पुरस्तात्) सृष्टि की आदि में (जज्ञानम्) सब का उत्पादक और ज्ञाता (प्रथमम्) विस्तारयुक्त और विस्तारकर्ता (ब्रह्म) सब से बड़ा जो (सुरुचः) सुन्दर प्रकाशयुक्त और सुन्दर रुचि का विषय (वेनः) ग्रहण के योग्य जिस (अस्य) इस के (बुध्न्याः) जल सम्बन्धी आकाश में वर्तमान सूर्य, चन्द्रमा, पृथिवी और नक्षत्र आदि (विष्ठाः) विविध स्थलों में स्थित (उपमाः) ईश्वर ज्ञान के दृष्टान्त लोक हैं, उन सब को (सः) वह (आवः) अपनी व्याप्ति से आच्छादन करता है, वह ईश्वर (विसीमतः) मर्य्यादा से (सतः) विद्यमान देखने योग्य (च) और (असतः) अव्यक्त (च) और कारण के (योनिम्) आकाशरूप स्थान को (विवः) ग्रहण करता है, उसी ब्रह्म की उपासना सब लोगों को नित्य अवश्य करनी चाहिये ॥३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस ब्रह्म के जानने के लिये प्रसिद्ध और अप्रसिद्ध सब लोक दृष्टान्त हैं, जो सर्वत्र व्याप्त हुआ सब का आवरण और सभी को प्रकाश करता है और सुन्दर नियम के साथ अपनी-अपनी कक्षा में सब लोकों को रखता है, वही अन्तर्य्यामी परमात्मा सब मनुष्यों के निरन्तर उपासना के योग्य है, इससे अन्य कोई पदार्थ सेवने योग्य नहीं ॥३ ॥
दयानन्द-सरस्वती (सं) - विषयः
किं स्वरूपं ब्रह्म जनैरुपास्यमित्याह ॥
दयानन्द-सरस्वती (सं) - पदार्थः
पदार्थान्वयभाषाः - यत्पुरस्ताज्जज्ञानं प्रथमं ब्रह्म यः सुरुचो वेनो यस्यास्य बुध्न्या विष्ठा उपमाः सन्ति, स सर्वभावः स विसीमतः सतश्चासतश्च योनिं विवस्तत्सर्वैरुपासनीयम् ॥३ ॥
दयानन्द-सरस्वती (सं) - भावार्थः
भावार्थभाषाः - यस्य ब्रह्मणो विज्ञानाय प्रसिद्धाऽप्रसिद्धलोका दृष्टान्ताः सन्ति, तत्सर्वत्राभिव्याप्तं सत्सर्वमावृणोति, सर्वं विकासयति, सुनियमेन स्वस्वकक्षायां विचालयति, तदेवान्तर्य्यामि ब्रह्म सर्वैर्मनुष्यैरुपास्यम्, नातो पृथग्वस्तु भजनीयम् ॥३ ॥
सविता जोशी ← दयानन्दः (म) - भावार्थः
भावार्थभाषाः - ज्या ब्रह्माला जाणण्यासाठी या जगात व्यक्त व अव्यक्त अनेक प्रकारचे दृष्टांत आहेत, असा तो सर्वत्र व्याप्त असून सर्वांचे आच्छादन आहे व सर्वांना प्रकाश देणारा आहे. उत्तम नियमांनी सर्व ग्रह व गोलांना (चंद्र, सूर्य इत्यादींना) आपल्या कक्षेत ठेवणारा आहे. तोच अंतर्यामी परमात्मा (सर्व माणसांनी) सदैव उपासना करण्यायोग्य आहे. याशिवाय इतर कोणताही पदार्थ उपासना करण्यायोग्य नाही.
सायणोक्त-विनियोगः
22अथ वपाया याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश ।
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।
सायण-टीका
योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥
सायणोक्त-विनियोगः
23अथ पुरोडाशस्य पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑ दे॒वान् अ॑जनयत् ।
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन् निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।
सायण-टीका
यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥
सायणोक्त-विनियोगः
24अथ पुरोडाशस्य याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ᳚म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ᳚म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।
सायण-टीका
अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥
सायणोक्त-विनियोगः
25अथ हविषः पुरोनुवाक्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिꣳशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।
सायण-टीका
हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥
सायणोक्त-विनियोगः
26अथ हविषो याज्यामाह -
विश्वास-प्रस्तुतिः ...{Loading}...
चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तम्पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्न् ।
घृ॒तम् पिन्व॑न्न् अ॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।
सायण-टीका
यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥