‘इन्द्रो दधीचो अस्थभिः’ इत्यनुवाकौ
०८ अथर्व-शिर-इष्टकाः - इन्द्रो दधीचो ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)
नक्षत्रेष्टिकाण्डम्॥ अग्निचयनशेषा अथर्वशिरोभिधानानाम् इष्टकानां मन्त्राः
भास्करोक्त-विनियोगः
1 अथर्वशिरो दशाविषक्ताः शिरस्युपदधाति - इन्द्रो दधीच इत्याद्याः ॥ सर्वा गायत्र्यः ।
१३ इन्द्रो दधीचो ...{Loading}...
+++(ज्येष्ठास्थः, रोहिणीस्थो वा)+++ इन्द्रो॑ दधी॒चो +++(=serpens/ orion)+++ अ॒स्थभि॑र्
वृ॒त्राण्य् अप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर् नव॑ +++(→हेमन्त-दिनानि)+++ ।
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रो दधीचो꣡ अस्थ꣡भिर्
वृत्रा꣡णि अ꣡प्रतिष्कुतः
जघा꣡न नवती꣡र् न꣡व
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
asthábhiḥ ← asthán- (nominal stem)
{case:INS, gender:N, number:PL}
dadhīcáḥ ← dadhyáñc- (nominal stem)
{case:GEN, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ápratiṣkutaḥ ← ápratiṣkuta- (nominal stem)
{case:NOM, gender:M, number:SG}
vr̥trā́ṇi ← vr̥trá- (nominal stem)
{case:NOM, gender:N, number:PL}
jaghā́na ← √han- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
náva ← náva- 1 (nominal stem)
{case:ACC, gender:M, number:PL}
navatī́ḥ ← navatí- (nominal stem)
{case:ACC, gender:F, number:PL}
पद-पाठः
इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः ।
ज॒घान॑ । न॒व॒तीः । नव॑ ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dadhīco ← dadhīcaḥ ← dadhyac
- [noun], genitive, singular, masculine
- “Dadhyac.”
- asthabhir ← asthabhiḥ ← asthi
- [noun], instrumental, plural
- “bone; kernel; shell; seed; asthi [word].”
- vṛtrāṇy ← vṛtrāṇi ← vṛtra
- [noun], accusative, plural, neuter
- “enemy.”
- apratiṣkutaḥ ← apratiṣkuta
- [noun], nominative, singular, masculine
- “unhampered; unrestrained; unchallenged.”
- jaghāna ← han
- [verb], singular, Perfect indicative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- navatīr ← navatīḥ ← navati
- [noun], accusative, plural, feminine
- “ninety; navati [word].”
- nava ← navan
- [noun], accusative, singular, neuter
- “nine.”
सायण-भाष्यम्
अत्र शाट्यायनिन इतिहासमाचक्षते - आथर्वणस्य दधीचो जीवतो दर्शनेनासुराः पराबभूवुः । अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रः तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्छन् स्वर्गं गत इति शुश्राव । अथ पप्रच्छ तत्रत्यान् नेह किमस्य किंचित्परिशिष्टमङ्गमस्तीति । तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । पुनरिन्द्रोऽब्रवीत् । तदन्विच्छतेति । तद्धान्वैषिषुः । तच्छर्यणावत्यनुविद्याजहुः । शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धै सरः स्यन्दते । तस्य शिरसोऽस्थिभिरिन्द्रोऽसुराञ्जघान’ इति । अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इन्द्रः आथर्वणस्य दधीचः एतत्संज्ञकस्य ऋषेः अस्थभिः अश्वशिरःसंबन्धिभिरस्थिभिः नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि। लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा संपद्यते । त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव संपद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते। पुनः सात्विकादिगुणत्रयभेदेन त्रैगुण्ये सत्येकोत्तराशीतिः संपद्यते । एवं चतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यन्ते । एवंविधमायारूपाणि वृत्राणि आवरकाण्यसुरजातानि जघान हतवान् ॥ दधीचः । दधि अञ्चतीति दध्यङ्। अञ्चतेः ‘ ऋत्विक् ’ इत्यादिना क्विन् । अनिदिताम्’ इति नलोपः । षष्ठ्येकवचने ‘अचः ’ इति अकारलोपे ‘चौ ’ इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया • चौ ’ इति पूर्वपदस्य अन्तोदात्तत्वं प्राप्तम् ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ’ ( पा. सू. ६. १. १७० ) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते । अस्थभिः । छन्दस्यपि दृश्यते’ ( पा. सू. ७. १. ७६ ) इति अनजादावपि अस्थिशब्दस्य अनङादेशः स चोदात्तः ॥
भट्टभास्कर-टीका
दध्यङ्नामर्षिराथर्वणः । तस्य अस्थभिः ‘अस्थिदधिसक्थ्यक्ष्णां"छन्दस्यपिदृश्यते’इत्यनङ् । तन्निर्मितेन वजेण वृत्राणि वारकाणि शत्रुबलानि इन्द्रो जघान हतवान् अप्रतिष्कुतः केनचिदप्यनभियुक्तः । स्कुञ् आप्रवणे । केन चिदप्यनभिभूतः ।
यद्वा - अप्ततिष्कुतः अप्रतिरथः । प्रतिकूलमाचरन्तो यं कुत इति वदन्तोऽभिभवन्ति स प्रतिष्कुतः । पृषोदरादिः । तादृशानि कियन्ति वृत्राणि - नवतीर्नव दशाधिकान्यष्टौ च शतानि बहुतमानीत्यर्थः । स एवमिमामुपदधात्विति शेषः ॥
Wilson
English translation:
“Indra, with the bones of Dadhīci, slew ninety times nine Vṛtras.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Dadhyañc = Dadhīca and Dadhīci, a sage. His bones formed the thunderbolt of Indra. dadhyañc, son of Atharvan, like the asuras, was intimidated and tranquilized by his appearance; but, when he went to svarga, the asuras overspread the whole earth. Indra, inquiring what had become of him and if something of him was left behind, was told that the horse’s head with which he had at one time taught the madhuvidyā to the aśvins, was somewhere in existence, but no one knew where. After a searth, it was found in the lake Śaryaṇāvat, near Kurukṣetra. With the bones of the skull, Indra slew the asuras (i.e. foiled the nine times ninety or eight hundred and ten, strategems or devices of the asuras or Vṛtras]. The number is accounted for by the legend that in the beginning, the āsurī māyā (demoniac illusion) was practised in the three worlds, for three periods (past, present, and future), thus becoming nine-fold; each was exerted with three śaktis or energies, thus becoming twenty seven; each was again modified by the three guṇas, thus becoming eighty-one; the scene of their display extended to each of the ten regions of space, thus becoming the nine times ninety of the text, or 810
Jamison Brereton
With the bones of Dadhyañc unrepulsable Indra
smashed the nine and ninety obstacles.
Jamison Brereton Notes
The use of the bones of Dadhyañc as a vajra-substitute is a particularly puzzling part of this puzzling version of the Dadhyañc myth. The appearance of this motif in the JB and MBh versions (see Geldner n. on vss. 13-15) seems to me an afterthe-fact rationalization of the verse here.
Griffith
With bones of Dadhyac for his arms, Indra, resistless in attack,
Struck nine-and-ninety Vrtras dead.
Geldner
Indra hat mit den Knochen des Dadhyanc unbehindert die neunmal neunzig Feinde erschlagen.
Grassmann
Mit Dadhiank’s Gebeinen schlug, Indra, dem niemand widersteht, Die neunundneunzig Feinde todt.
Elizarenkova
Индра костями Дадхьянча
Беспрепятственно убил
Девяносто девять врагов.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस राजा के कृत्य का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! जैसे (अप्रतिष्कुतः) सब ओर से स्थिर (इन्द्रः) सूर्यलोक (अस्थभिः) अस्थिर किरणों से (नव नवतीः) निन्नानवें प्रकार के दिशाओं के अवयवों को प्राप्त हुए (दधीचः) जो धारण करनेहारे वायु आदि को प्राप्त होते हैं, उन (वृत्राणि) मेघ के सूक्ष्म अवयव रूप जलों को (जघान) हनन करता है, वैसे तू अनेक अधर्मी शत्रुओं का हनन कर ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ वाचकलुप्तोपमालङ्कार है। वही सेनापति होने के योग्य होता है, जो सूर्य के समान दुष्ट शत्रुओं का हन्ता और अपनी सेना का रक्षक है ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सेनेश ! यथाप्रतिष्कुत इन्द्रोऽस्थभिर्नवनवतीर्दधीचो वृत्राणि कणीभूतानि जलानि जघान हन्ति तथा शत्रून् हिन्धि ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तस्य कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सूर्यलोकः (दधीचः) ये दधीन् वाय्वादीनञ्चन्ति तान् (अस्थभिः) अस्थिरैश्चञ्चलैः किरणचलनैः। अत्र छन्दस्यपि दृश्यते। (अष्टा०७.१) अनेनानङादेशः। (वृत्राणि) वृत्रसंबन्धिभूतानि जलानि (अप्रतिष्कुतः) असंचलितः (जघान) हन्ति (नवतीः) नवतिसंख्याकाः (नव) नव दिशामवयवाः ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः स एव सेनापतिः कार्यो यः सूर्यवच्छत्रूणां हन्ता स्वसेनारक्षकोऽस्तीति वेद्यम् ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. तोच सेनापती होण्यायोग्य असतो. जो सूर्याप्रमाणे दुष्ट शत्रूंचा हन्ता व आपल्या सेनेचा रक्षक असतो. ॥ १३ ॥
मूलम् ...{Loading}...
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥
१४ इच्छन्नश्वस्य यच्छिरः ...{Loading}...
इ॒च्छन्न् अश्व॑स्य॒+++(→यज्ञस्य)+++ यच् छिरः॑+++(→अग्निं, उत्तरायणारम्भ-सूर्यवत् दधिक्रावाणं [pegasus])+++
पर्व॑ते॒ष्व्+++(→मेघेषष्व्, हेमन्त-मासेष्व्)+++ अप॑श्रितम् ।
तद् वि॑दच् छर्य॒णाव॑ति ।
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
इछ꣡न्न् अ꣡श्वस्य य꣡च् छि꣡रः
प꣡र्वतेषु अ꣡पश्रितम्
त꣡द् विदच् छर्यणा꣡वति
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
áśvasya ← áśva- (nominal stem)
{case:GEN, gender:M, number:SG}
ichán ← √iṣ- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
śíraḥ ← śíras- ~ śīrṣán- (nominal stem)
{case:ACC, gender:N, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ápaśritam ← √śri- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
párvateṣu ← párvata- (nominal stem)
{case:LOC, gender:M, number:PL}
śaryaṇā́vati ← śaryaṇā́vant- (nominal stem)
{case:LOC, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vidat ← √vid- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् ।
तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥
Hellwig Grammar
- icchann ← icchan ← iṣ
- [verb noun], nominative, singular
- “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”
- aśvasya ← aśva
- [noun], genitive, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- yacchiraḥ ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yacchiraḥ ← śiraḥ ← śiras
- [noun], accusative, singular, neuter
- “head; top; peak; battlefront; śiras [word]; beginning; skull.”
- parvateṣv ← parvateṣu ← parvata
- [noun], locative, plural, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- apaśritam ← apaśri ← √śri
- [verb noun], accusative, singular
- “withdraw.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vidaccharyaṇāvati ← vidat ← vid
- [verb], singular, Aorist inj. (proh.)
- “find; detect; marry; get; think.”
- vidaccharyaṇāvati ← śaryaṇāvati ← śaryaṇāvant
- [noun], locative, singular, masculine
सायण-भाष्यम्
पर्वतेषु पर्ववत्सु गिरिषु अपश्रितम् अपगत्य स्थितम् अश्वस्य अश्वसंबन्धि दधीचः यच्छिरः इच्छन् इन्द्रो वर्तते शर्यणावति एतत्संज्ञे सरसि तत् शिरः विदत् अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृचि संबन्धः ॥ इच्छन् । इषु इच्छायाम् ’ । तुदादित्वात् शप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेः अङादेशः । शर्यणावति । शर्यणा नाम देशाः। तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठात् मध्वादिभ्यश्च ’ (पा. सू. ४. २.८६) इति चातुरर्थिको मतुप् ।’ संज्ञायाम्’ इति मतुपो वत्वम् । ‘मतौ बह्वचोऽनजिरादीनाम् ’ (पा. सू. ६. ३. ११९ ) इति दीर्घः ॥
भट्टभास्कर-टीका
2 इच्छन्निति ॥ अश्वस्य व्यापकस्य यज्ञस्य यच्छिरः शिरस्थानीयोऽग्निः पर्वतेषु गिरिषु मेघेषु वा अपश्रितं तिरोभूय स्थितं तदिच्छन् अन्विच्छन् इन्द्रः विदत् अलब्ध । लुङ् ‘बहुलं छन्दस्यमाङ्योगेऽपि’इत्यडागमः । शर्यणावति एतन्नाम्नि पर्वते लब्धवान् उपलब्धवान् समूहवदधित्यकावदिति केचित् । अस्मिन् कर्मणीत्येके ॥
Wilson
English translation:
“Wishing for the horse’s head hidden in the mountains, he found is Śaryaṇāvat.”
Jamison Brereton
The head of the horse that he was seeking set away in the mountains, that he found in the reed-filled (lake?).
Jamison Brereton Notes
The syntax of this verse is somewhat unclear. I take ab as a rel. clause with the pres. part. ichán functioning as the main verb and an unusual, indeed disturbing, position of the rel. pron. yád (we might expect *ichán yád áśvasya …), which is then picked up by tád in the main clause of c. Most other tr. take ichán as part of the main clause and the yád as the marker of an embedded rel. cl.: roughly “seeking the head of the horse, which was set away in the mountains, he found it…” But not only would I prefer not to allow embedded relatives in the RV, but the position of yád makes this interpretation difficult, too (expect *ichánn áśvasya śíraḥ yád …?).
Griffith
He, searching for the horse’s head, removed among the mountains, found
At Saryanavan what he sought.
Geldner
Als er den Kopf des Pferdes, der im Gebirg versteckt war, suchte, fand er ihn in Saryanavat.
Grassmann
Verlangend nach des Rosses Haupt, das in den Bergen sich versteckt, Fand er’s am somareichen Ort.
Elizarenkova
Ища голову коня,
Которая была спрятана в горах,
Он нашел ее у Шарьянавата.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (इन्द्रः) सूर्य (अश्वस्य) शीघ्रगामी मेघ का (यत्) जो (शर्यणावति) आकाश में (पर्वतेषु) पहाड़ वा मेघों में (अपश्रितम्) आश्रित (शिरः) उत्तमाङ्ग के समान अवयव है, उसको छेदन करता है, वैसे शत्रु की सेना के उत्तमाङ्ग के नाश की (इच्छन्) इच्छा करता हुआ सुखों को सेनापति (विदत्) प्राप्त होवे ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य आकाश में रहनेहारे मेघ का छेदन कर भूमि में गिराता है, वैसे पर्वत और किलों में भी रहनेहारे दुष्ट शत्रु का हनन करके भूमि में गिरा देवे, इस प्रकार किये विना राज्य की व्यवस्था स्थिर नहीं हो सकती ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथेन्द्रोऽश्वस्य यच्छर्यणावति पर्वतेष्वपश्रितं शिरोऽस्ति तज्जघान हन्ति तद्वच्छत्रुसेनाया उत्तमाङ्गं छेत्तुमिच्छन् सुखानि विदल्लभेत् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इच्छन्) (अश्वस्य) आशुगामिनः (यत्) (शिरः) उत्तमाङ्गम् (पर्वतेषु) शैलेषु मेघावयवेषु वा (अपश्रितम्) आसेवितम् (तत्) (विदत्) विद्यात् (शर्यणावति) शर्यणोऽन्तरिक्षदेशस्तस्यादूरभवे। अत्र मध्वादिभ्यश्च। (अ०। ४.२.८३) अनेन मतुप् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्योऽन्तरिक्षमाश्रितं मेघं छित्त्वा भूमौ निपातयति, तथैव पर्वतदुर्गाश्रितमपि शत्रुं हत्वा भूमौ निपातयेत् नैवं विना राज्यव्यवस्था स्थिरा भवितुं शक्या ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य आकाशातील मेघाचे छेदन करून त्याला भूमीवर पाडतो तसे पर्वतावर व किल्ल्यावर राहणाऱ्या दुष्ट शत्रूंचे हनन करून भूमीवर शयन करवावे. असे केल्याशिवाय राज्य व्यवस्था स्थिर होऊ शकत नाही. ॥ १४ ॥
मूलम् ...{Loading}...
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ॥
१५ अत्राह गोरमन्वत ...{Loading}...
अत्राह॒+++(=अस्मिन्नेव)+++ गोर्+++(=गन्तुः [चन्द्रमसो])+++ अ॑मन्वत॒
नाम॒ त्वष्टु॑र्+++(=दीप्तस्यादित्यस्य उत्तरायणारम्भे)+++ अपी॒च्य॑म्+++(=अपचितम्, अन्तर्हितम् [रात्रौ])+++ ।
इ॒त्था+++(=इत्थं)+++ च॒न्द्रम॑सो गृ॒हे +++(=अमावास्यायाम्, फाल्गुनीषु पौर्णमास्यां वा)+++॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡त्रा꣡ह गो꣡र् अमन्वत
ना꣡म त्व꣡ष्टुर् अपीचि꣡यम्
इत्था꣡ चन्द्र꣡मसो गृहे꣡
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
áha ← áha (invariable)
{}
amanvata ← √man- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
átra ← átra (invariable)
{}
góḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:F, number:SG}
apīcyàm ← apīcyà- (nominal stem)
{case:ACC, gender:N, number:SG}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
tváṣṭuḥ ← tváṣṭar- (nominal stem)
{case:GEN, gender:M, number:SG}
candrámasaḥ ← candrámas- (nominal stem)
{case:GEN, gender:M, number:SG}
gr̥hé ← gr̥há- (nominal stem)
{case:LOC, gender:M, number:SG}
itthā́ ← itthā́ (invariable)
{}
पद-पाठः
अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् ।
इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥
Hellwig Grammar
- atrāha ← atra
- [adverb]
- “now; there; then; then; there; here; here; in the following; alternatively; now.”
- atrāha ← āha ← ah
- [verb], singular, Perfect indicative
- “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”
- gor ← goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- amanvata ← man
- [verb], plural, Imperfect
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- tvaṣṭur ← tvaṣṭuḥ ← tvaṣṭṛ
- [noun], genitive, singular, masculine
- “Tvaṣṭṛ; Viśvakarman; sun.”
- apīcyam ← apīcya
- [noun], accusative, singular, neuter
- “secret; hidden; cryptic.”
- itthā
- [adverb]
- “thus; here.”
- candramaso ← candramasaḥ ← candramas
- [noun], genitive, singular, masculine
- “moon; Candra; candramas.”
- gṛhe ← gṛha
- [noun], locative, singular, neuter
- “house; palace; temple; home; place; family; family; stable.”
सायण-भाष्यम्
अत्राह अस्मिन्नेव गोः गन्तुः चन्द्रमसो गृहे मण्डले त्वष्टुः दीप्तस्यादित्यस्य संबन्धि अपीच्यं रात्राव् अन्तर्हितं स्वकीयं यत् नाम तेजः तदादित्यस्य रश्मयः इत्था इत्थमनेन प्रकारेण अमन्वत अजानन् ।
उदकमये स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति ।
तत्र प्रतिफलिताः किरणाः
सूर्ये यादृशीं संज्ञां लभन्ते,
तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः ।
एतद् उक्तं भवति ।
यद् रात्रावन्तर्हित सौरं तेजस् तच्चन्द्र मण्डलं प्रविश्य
अहनीव नैशं तमो निवार्य सर्वं प्रकाशयति ।
ईदृग्-भूत-तेजसा युक्तः सूर्यश् च इन्द्र एव
द्वादशस्व् आदित्येष्व् इन्द्रस्यापि परिगणितत्वात् ।
अतोऽहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्र-स्तुतेः प्रतीयमानत्वाद्
इन्द्रो देवतेत्य् एतद् उपपन्नं भवति ।
ईदृग्-भूतस्य तेजस आश्रयत्वेन
चन्द्रमसः प्राधान्य-विवक्षया चान्द्रमस्याम् इष्टौ विनियोगो ऽप्य् उपपद्यते ।
अत्र निरुक्तम् -
अथाप्य् अस्यैको रश्मिश् चन्द्रमसं प्रति दीप्यते।
तद् एतेनोपेक्षितव्यम्।
आदित्यतोऽस्य दीप्तिर् भवतीति ।
“सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व” इत्यपि निगमो भवति ।
सोऽपि गौर् उच्यते ।
‘अत्राह गौरमन्वतेति’ (निरु. २. ६.),
‘ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यम् अपचितम् अपगतम् अपिहितम् अन्तर्हितं वा ’ ( निरु. ४. २५ )
इति ॥
अमन्वत । “ मनु अवबोधने’ ।
अपीच्यम् । अपपूर्वात् चिनोतेः “ अघ्न्यादयश्च’ ( उ. सू. ४. ५५१) इति निपातनात् यत् । अत एवाभिमतरूपसिद्धिः। यद्वा । अपिपूर्वात् अञ्चतेः “ ऋत्विक्° ’ इत्यादिना क्विन् ।’ अनिदिताम्’ इति नलोपः । अपिगते निगते भवमपीच्यम् । ‘भवे छन्दसि ’ इति यत् । ‘ अचः’ इति अकारलोपे ‘ चौ ’ इति दीर्घत्वम् । तित्स्वरितः । ‘ अपीच्योऽप्रकाशः’ इति भट्टभास्करमिश्रः । इत्था । इदंशब्दात् ’ था हेतौ च च्छन्दसि । इति प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दो नानुवर्तते" तदानीम् इदमस्थमुः ’ ( पा. सू. ५. ३. २४ ) इति थमुप्रत्ययः । अव्ययादाप्सुपः ’ ( पा. सू. २. ४. ८२ ) इति सुब्लुकं बाधित्वा ‘सुपां सुलुक्’ ’ इति डादेशः । चन्द्रमसः । चन्द्रमाह्लादनं मिमीते निर्मिमीते इति चन्द्रमाः। ‘चन्द्रे माङो डित् ’ ( उ. सु. ४.६६७ ) इति असिप्रत्ययः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च ‘स्फायितञ्चि’ ’ इत्यादिना रक्प्रत्ययान्तमन्तोदात्तम् ॥ ॥७॥
भट्टभास्कर-टीका
3 अत्रेति ॥ त्वष्टुः आदित्यमण्डलस्य गोः अग्नेः सुषुम्ना ख्यस्य यत् नाम नमनं जगद्रक्षणे प्रह्वीभावः अपीच्यं पुनरञ्चितं अविच्छेदेन प्रवृत्तं अत्र कर्मणि अमन्वत ज्ञातवन्त: जानन्ति वा अनेन कर्मणा हेतुना स तथा प्रवर्तते । चन्द्रमसोपि गृहे मण्डले इत्था इत्थमेव गोर्नाम मन्वते अनेन हेतुनेति । ‘थाहेतौ च’ इति थाप्रत्ययः ॥
स्कन्दस्वामी
अत्राह । अत्र यास्कः–
अथाप्य् अस्यैको रश्मिश् चन्द्रमसं प्रति दीप्यते।
तद् एतेनोपेक्षितव्यम्।
आदित्यतोऽस्य दीप्तिर् भवतीति ।
“सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व” इत्यपि निगमो भवति ।
सोऽपि गौर् उच्यते ।
‘अत्राह गौरमन्वतेति’ (निरु. २. ६.),
‘ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यम् अपचितम् अपगतम् अपिहितम् अन्तर्हितं वा ’ ( निरु. ४. २५ )
इति ॥
अत्र। चन्द्रमसः । गृहे मण्डले ।
गोः सुषुम्णाख्यादित्यरश्मेः सकाशात्
तद्-एक-देश-भूता रश्मयः ।
अन्तर्हितम्। नमनं कर्तुम्।
अमन्वत गूढं तत्र वसति ।
त्वष्टा त्विषैर् दीप्त-कर्मण इति ।
तच्चैतद् इन्द्र-कृत इत्यैन्द्रत्वम् ।
Wilson
English translation:
“The (solar rays) found on this occasion the light of Tvaṣṭā verily concealed in the mansion of the moving moon.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text has only ’they found’; Āditya-raśmayaḥ, rays of the sun is added. Tvaṣṭā = the Sun, an Āditya; also, identified with Indra, to whom the hymn is addressed. ‘The rays of the sun are reflected back in the bright watery orb of the moon’; ’the solar radiance, concealed by the night, enters into the moon, and thus dispels darkness by night, as well as by day’. One ray of the sun (that named śuṣumnā lights up the moon; therefore, moon’s light is derived from the sun (Nirukta 2,6)(cf. Viṣṇu Purāṇa 36)
Jamison Brereton
Right there they thought of the secret name of the cow of Tvaṣṭar— likewise in the house of the moon.
Jamison Brereton Notes
I confess myself to be entirely baffled by this verse, though the grammar is straightforward. Geldner’s reconstruction of the mythology (n. to vs. 15) is not entirely compelling, nor is that found in Witzel Gotō.
Griffith
Then verily they recognized the essential form of Tvastar’s Bull,
Here in the mansion of the Moon.
Geldner
Da erinnerten sie sich an den geheimen Namen der Kuh des Tvastri daselbst im Hause des Mondes
Grassmann
Dort fanden sie das Wesen auf des Stiers, den Tvaschtar hielt versteckt. Dort endlich in des Mondes Haus.
Elizarenkova
Тут и вспомнили они
Тайное имя коровы Тваштара,
(Которая находилась) как раз в доме луны.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा का सूर्य के समान करने योग्य कर्म का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (अत्र) इस जगत् में (नाम) प्रसिद्ध (गौः) पृथिवी और (चन्द्रमसः) चन्द्रलोक के मध्य में (त्वष्टुः) छेदन करनेहारे सूर्य का (अपीच्यम्) प्राप्त होनेवालों में योग्य प्रकाशरूप व्यवहार है (इत्था) इस प्रकार (अमन्वत) मानते हैं, वैसे (अह) निश्चय से जाके (गृहे) घरों में न्यायप्रकाशार्थ वर्त्तो ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को जानना चाहिये कि ईश्वर की विद्यावृद्धि की हानि और विपरीतता नहीं हो सकती। सब काल सब क्रियाओं में एकरस सृष्टि के नियम होते हैं। जैसे सूर्य का पृथिवी के साथ आकर्षण और प्रकाश आदि सम्बन्ध हैं, वैसे ही अन्य भूगोलों के साथ हैं। क्योंकि ईश्वर से स्थिर किये नियम का व्यभिचार अर्थात् भूल कभी नहीं होती ॥ १५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजादयो मनुष्या ! यूयं यथाऽत्र नाम गोश्चन्द्रमसस्त्वष्टुरपीच्यमस्तीत्थामन्वत तथाऽह न्यायप्रकाशाय प्रजागृहे वर्त्तध्वम् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राज्ञः सूर्यवत्कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अत्र) अस्मिञ्जगति (अह) विनिग्रहे (गोः) पृथिव्याः (अमन्वत) मन्यन्ते (नाम) प्रसिद्धं रचनं नामकरणं वा (त्वष्टुः) मूर्तद्रव्यछेदकस्य (अपीच्यम्) येऽप्यञ्चन्ति प्राप्नुवन्ति तेषु साधुम् (इत्था) अनेन हेतुना (चन्द्रमसः) चन्द्रलोकादेः (गृहे) स्थाने ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्ज्ञातव्यमीश्वरविद्यावृद्ध्योर्हानिर्विपरीतता भवितुं न शक्या, सर्वेषु कालेषु सर्वासु क्रियास्वेकरससृष्टिनियमा भवन्ति। यथा सूर्यस्य पृथिव्या सहाकर्षणप्रकाशादिसम्बन्धाः सन्ति, तथैवान्यभूगोलैः सह सन्ति। कुत ईश्वरेण संस्थापितस्य नियमस्य व्यभिचारो न भवति ॥ १५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी हे जाणावे की ईश्वरीय विद्यावृद्धीमध्ये नुकसान किंवा विपरीतता असू शकत नाही. सर्व काळी सर्व क्रियेत सृष्टीचे नियम एकसारखे असतात. जसा सूर्याचा पृथ्वीबरोबर आकर्षण व प्रकाश इत्यादी संबंध असतो तसाच इतर भूगोलाबरोबर ही असतो. कारण ईश्वराच्या स्थिर नियमांचे उल्लंघन होऊ शकत नाही किंवा कधी चूक होऊ शकत नाही. ॥ १५ ॥
मूलम् ...{Loading}...
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...
इन्द्र॒म् इद् गा॒थिनो॑+++(=गायकाः)+++ बृ॒हद्+++(साम्ना)+++
इन्द्र॑म् अ॒र्केभि॑र्+++(←अर्च्, ऋक्)+++ अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रम् इ꣡द् गाथि꣡नो बृह꣡द्
इ꣡न्द्रम् अर्के꣡भिर् अर्कि꣡णः
इ꣡न्द्रं वा꣡णीर् अनूषत
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}
gāthínaḥ ← gāthín- (nominal stem)
{case:NOM, gender:M, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
ít ← ít (invariable)
{}
arkébhiḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}
arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́ṇīḥ ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥
Hellwig Grammar
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- gāthino ← gāthinaḥ ← gāthin
- [noun], nominative, plural, masculine
- bṛhad ← bṛhat
- [noun], accusative, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- arkebhir ← arkebhiḥ ← arka
- [noun], instrumental, plural, masculine
- “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”
- arkiṇaḥ ← arkin
- [noun], nominative, plural, masculine
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vāṇīr ← vāṇīḥ ← vāṇī
- [noun], nominative, plural, feminine
- “voice; Sarasvati; words; language.”
- anūṣata ← nū
- [verb], plural, Athematic s aor. (Ind.)
- “praise; shout.”
सायण-भाष्यम्
गाथिनः गीयमानसामयुक्ता उद्गातारः इन्द्रम् इत् इन्द्रमेव बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना अनूषत स्तुतवन्तः । अर्किणः अर्चन-हेतु-मन्त्रोपेता होतारः अर्केभिः ऋग्रूपैर्-मन्त्रैः इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते वाणीः वाग्भिर्यजूरूपाभिः इन्द्रम् एव अनूषत ।
अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्-
‘अर्को मन्त्रो भवति यदेनेनार्चन्ति’ (निरु. ५. ४ ) इति। ‘ श्लोकः’ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥
गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ’ ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ’ (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ’ इति लुक् । ‘पृषद्बृहन्महज्जगच्छतृवच्च’ ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः ।
अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ’ पुंसि संज्ञायां घः प्रायेण ’ (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ’ ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति ।
अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः ।
वाणीः । ‘वृषादीनां च’ ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च’ ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ’ वा छन्दसि ’ ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा ।
अनूषत । ‘णु स्तुतौ ।’ णो नः ’ ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥
भट्टभास्कर-टीका
4 इन्द्रमिदिति ॥ ‘इन्द्रं वः’ इत्यत्र व्याख्यातेयम् । गाथिनः उद्गातारः इन्द्रमेव बृहत् महत् स्तुवन्ति । अर्किणो होतारश्च अर्केभिः अर्कैः स्तोत्रैः इन्द्रमेव स्तुवन्ति । अध्वर्यूणां च वाण्यः इन्द्रमेव अनूषत नुवन्ति स्तुवन्ति ॥
भट्टभास्कर-टीका
इन्द्रमित् इन्द्रमेव
गाथिनो गाथावन्तः गायका उद्गातारः । व्रीह्यादित्वादिनिप्रत्ययः ।
बृहत् बृहता साम्ना, अनूषतेति वक्ष्यते । ‘सुपां सुलुक्’ इति तृतीयाया लुक् ।
तथा अर्किणः अर्कवन्तः होतारः । ऋच स्तुतौ, घञ्, ‘चजोः कु घिण्यतोः’ इति कुत्वम् ।
अर्केभिर् अर्कैः ऋग्भिः इन्द्रमेवानूषत अस्तुवन् । छान्दस ऐसभावः ।
तथा वाणीः वाण्यः ऋग्यजुस्सामलक्षणाः । ‘वा छन्दसि` इति पूर्वसवर्णदीर्घत्वम् । पारिशेष्यादध्वर्यूणां वाण्यश्चेन्द्रमेव अनूषत नुवन्ति । णू स्तवने, तौदादिकः, छान्दसो लुङ्, व्यत्ययेनात्मनेपदं, कुटादित्वाद्गुणाभावः, छान्दस इडभावः । तथा स इन्द्रोस्मभ्यमन्नं ददात्विति ॥
Wilson
English translation:
“The chanters (of the Soma) extol Indra with songs, the reciters of the Ṛk with prayers, the priests of the Yajuṣ, with texts.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Gāthina = singers; gīyamānasāma-yuktā udgātāraḥ, the udgatās with sāmas to be chanted;
Bṛhat = bṛhatā, songs, with the bṛhat-sāma; arkinaḥ arkebhiḥ = those of the Ṛgveda, with hymns;
Arka = mantra, prayer;
Vāṇīḥ = vāṇībhiḥ, with texts or words (a reference, perhaps either to the singers or the reciters of the prayers, perhaps to the texts of the yajus
Jamison Brereton
Just to Indra have the singers bellowed aloft, to Indra the chanters with their chants,
to Indra their voices.
Jamison Brereton Notes
anūṣata provides a link to the immediately preceding hymn, I.6.6.
Griffith
INDRA the singers with high praise, Indra reciters with their lauds,
Indra the choirs have glorified.
Keith
Indra the singers aloud,
Indra with praises the praisers,
Indra the songs have praised.
Geldner
Indra haben laut die Sänger, Indra mit Preisliedern die Preisenden Indra die Stimmen angerufen.
Grassmann
Den Indra preist der Sänger Schar, mit Preisgesang die preisenden, Den Indra laut der Jubelchor.
Elizarenkova
Ведь это Индру громко – певцы,
Индру – восхвалениями восхвалители,
Индру призвали голоса.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सातवें सूक्त का आरम्भ है। इस में प्रथम मन्त्र करके इन्द्र शब्द से तीन अर्थों का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (गाथिनः) गान करनेवाले और (अर्किणः) विचारशील विद्वान् हैं, वे (अर्केभिः) सत्कार करने के पदार्थ सत्यभाषण शिल्पविद्या से सिद्ध किये हुए कर्म मन्त्र और विचार से (वाणीः) चारों वेद की वाणियों को प्राप्त होने के लिये (बृहत्) सब से बड़े (इन्द्रम्) परमेश्वर (इन्द्रम्) सूर्य्य और (इन्द्रम्) वायु के गुणों के ज्ञान से (अनूषत) यथावत् स्तुति करें॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि मनुष्यों को वेदमन्त्रों के विचार से परमेश्वर सूर्य्य और वायु आदि पदार्थों के गुणों को अच्छी प्रकार जानकर सब के सुख के लिये उनसे प्रयत्न के साथ उपकार लेना चाहिये॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये गाथिनोऽर्किणो विद्वांसस्ते अर्केभिर्बृहत् महान्तमिन्द्रं परमेश्वरमिन्द्रं सूर्य्यमिन्द्रं वायुं वाणीश्चेदेवानूषत यथावत्स्तुवन्तु॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देनार्थत्रयमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) परमेश्वरम् (इत्) एव (गाथिनः) गानकर्त्तारः (बृहत्) महान्तम्। अत्र सुपां सुलुगित्यमो लुक्। (इन्द्रम्) सूर्य्यम्। (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिर्मन्त्रैश्च। अर्क इति पदनामसु पठितम्। (निघं०४.२) अनेन प्राप्तिसाधनानि गृह्यन्ते। अर्को मन्त्रो भवति यदेनानार्चन्ति। (निरु०५.४) अत्र बहुलं छन्दसीति भिस ऐसादेशाभावः। (अर्किणः) विद्वांसः (इन्द्रम्) महाबलवन्तं वायुम् (वाणीः) वेदचतुष्टयीः (अनूषत) स्तुवन्तु। अत्र लोडर्थे लुङ्। संज्ञापूर्वको विधिरनित्य इति गुणादेशाभावः॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति-मनुष्यैर्वेदमन्त्राणां विचारेणेश्वरसूर्य्यवाय्वादिपदार्थगुणान् सम्यग्विदित्वा सर्वसुखाय प्रयत्नत उपकारो नित्यं ग्राह्य इति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सातव्या सूक्तात ईश्वराने आपली निर्मिती सिद्ध करण्यासाठी अंतरिक्षात सूर्य व वायू स्थापन केलेले आहेत व तोच एक सर्वशक्तिमान, सर्व दोषांनी रहित व सर्व माणसांमध्ये पूज्य आहे. या व्याख्येने या सातव्या सूक्ताच्या अर्थाबरोबर सहाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर असा उपदेश करतो की, माणसांनी वेदमंत्रातील विचारांच्या आधारे सूर्य व वायू तसेच परमेश्वर इत्यादी पदार्थांच्या गुणांना चांगल्या प्रकारे जाणून सर्वांच्या सुखासाठी प्रयत्न करून त्यांचा लाभ घ्यावा. ॥ १ ॥
मूलम् ...{Loading}...
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥
०२ इन्द्र इद्धर्योः ...{Loading}...
इन्द्र॒ इद्+धर्योः॒ सचा॒+++(←सच् अनुसरणे)+++
सम्मि॑श्ल॒ आ व॑चो॒ युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥+++(5)+++
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्र इ꣡द् ध꣡रियोः स꣡चा
स꣡म्मिश्ल आ꣡ वचोयु꣡जा
इ꣡न्द्रो वज्री꣡ हिरण्य꣡यः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
háryoḥ ← hári- (nominal stem)
{case:LOC, gender:M, number:DU}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
{}
sácā ← sácā (invariable)
{}
ā́ ← ā́ (invariable)
{}
sámmiślaḥ ← sámmiśla- (nominal stem)
{case:NOM, gender:M, number:SG}
vacoyújā ← vacoyúj- (nominal stem)
{case:ACC, gender:M, number:DU}
hiraṇyáyaḥ ← hiraṇyáya- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
vajrī́ ← vajrín- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चः॒ऽयुजा॑ ।
इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥
Hellwig Grammar
- indra ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- iddharyoḥ ← id
- [adverb]
- “indeed; assuredly; entirely.”
- iddharyoḥ ← haryoḥ ← hari
- [noun], locative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- sacā
- [adverb]
- “jointly.”
- sammiśla ← sammiślaḥ ← sammiśla
- [noun], nominative, singular, masculine
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vacoyujā ← vacaḥ ← vacas
- [noun], neuter
- “statement; command; speech; words; advice; word; voice.”
- vacoyujā ← yujā ← yuj
- [noun], accusative, dual, masculine
- “amalgamated; harnessed.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vajrī ← vajrin
- [noun], nominative, singular, masculine
- hiraṇyayaḥ ← hiraṇyaya
- [noun], nominative, singular, masculine
- “gold; aureate; hiraṇyaya [word].”
सायण-भाष्यम्
इन्द्र इत् इन्द्र एव हर्योः हरिनामकयोरश्वयोः सचा सह युगपत् आ संमिश्लः सर्वतः सम्यग्मिश्रयिता । कीदृशोर्हर्योः । वचोयुजा । इन्द्रस्य वचनमात्रेण रथे युज्यमानयोः सुशिक्षितयोरित्यर्थः। अयम् इन्द्रः वज्री वज्रयुक्तः हिरण्ययः हिरण्मयः सर्वाभरणभूषित इत्यर्थः ॥ हर्योः । हरतः इति हरी । इन् । नित्त्वादाद्युदात्तः । ‘सचा सह’ ( निरु. ५. ५) इत्युक्तम् । संमिश्लः । मिश्रणं मिश्रः । मिश्रयतेर्घञ् (पा. सू. ३. ३. १८ ) । सम्यक् मिश्रो यस्यासौ संमिश्रः । लत्वं छान्दसम् । सम्यक् मिश्रयितेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वचोयुजा ॥ वचसा युज्येते इति वचोयुजौ । तयोः षष्ठीद्विवचनस्य ‘सुपां सुलुक्’ इति आकारादेशः । युज्शब्दो धातुस्वरेणान्तोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । वज्री । वज्रमस्यास्ति । अत इनिठनौ’ (पा. सू. ५. २. ११५) प्रत्ययस्वरः । हिरण्ययः । ‘ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि’ (पा. सू. ६. ४. १७५ ) इति हिरण्यमयशब्दस्य मकारलोपो निपात्यते । अकारः प्रत्ययस्वरेण उदात्तः । पूर्वेण अनुदात्तेन सह ‘ एकादेश उदात्तेनोदात्तः’ इत्युदात्तः ॥
भट्टभास्कर-टीका
5 इन्द्र एव हर्योः अश्वयोः मुख्ययोः सचा समचेत ताभ्यां नित्ययुक्तः । सचतेः क्विप्, प्रथमैकवचनस्य ‘सुपां सुलुक्’इत्याकारः । किञ्च - संमिश्लः सममिश्रः ताभ्यां युक्तः इन्द्रः आवचः यावद् वचांसि विद्यन्ते तावन् नित्यमिति युजा युक्तः केन कैः स्तुतिवचोभिः । क्विबन्तात्पूर्ववत्सोराकारः । यद्वा - वचोभिः स्तुतिलक्षणैः युज्यत हति वचोयुक् । आकारः समुच्चये - इन्द्र एव हरिभ्यां युज्यते संमिश्रश्च ताभ्यां वचोयुक्तः स्तुतिवाग्भिश्च युक्तो भवतीति । इन्द्र एव वज्री हिरण्ययः हिरण्मयाभरणः । हरणशीलोदकहेतुर्वा ॥
Wilson
English translation:
“Indra, the blender of all things, comes verily with his steeds that are harnessed at his word; Indra, the richly-decorated, the wielder of the thunderbolt.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Richly-decorated: hiraṇyaya = lit. golden, or made of gold
Jamison Brereton
Indra, close-linked with his two fallow bays, (is mounted) on the two yoked by speech;
Indra is the golden wielder of the mace.
Jamison Brereton Notes
Though a number of interpreters (Grassmann, Witzel Gotō, Scarlatta) take vacoyújā as an instr. sg.
and supply ráthena ‘chariot’, this form otherwise (4x) is only du. and modifies hárī ‘the two fallow bays’. Thus, it seems better to follow the Sāyaṇa/Geldner/Renou interpr. As Geldner points out, the untethered ā́in b allows a form of √sthā to be supplied, in the idiom ā́ √sthā ‘mount’. The verse is then slightly unusual in referring to Indra’s twin horses in two grammatical cases in the same sentence (háryoḥ loc., [hárī] vacoyújā acc.).
Griffith
Indra hath ever close to him his two bay steeds and word-yoked car,
Indra the golden, thunder-armed.
Geldner
Indra, der an dem Falbenpaar hängt, möge die aufs Wort sich schirrenden besteigen, Indra der Keulenträger, der goldige.
Grassmann
Indra mit seiner Füchse Paar, dem Wagen, der aufs Wort sich schirrt, der goldne Indra mit dem Blitz ,
Elizarenkova
Это Индра связан с парой буланых коней.
(Пусть) с (нарядит своих коней), запрягаемых словом,
Индра-громовержец, золотистый!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में इन्द्र शब्द से कहे हुए तीन अर्थों में से वायु और सूर्य्य का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस प्रकार यह (संमिश्लः) पदार्थों के साथ मिलकर (इन्द्रः) ऐश्वर्य्य का हेतु स्पर्शगुणवाला वायु, अपने (सचा) सब में मिलनेवाले और (वचोयुजा) वाणी के व्यवहार को वर्त्तानेवाले (हर्य्योः) हरने और प्राप्त करनेवाले गुणों को (आ) सब पदार्थों में युक्त करता है, वैसे ही (वज्री) संवत्सर वा तापवाला (हिरण्ययः) प्रकाशस्वरूप (इन्द्रः) सूर्य्य भी अपने हरण और आहरण गुणों को सब पदार्थों में युक्त करता है॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। जैसे वायु के संयोग से वचन, श्रवण आदि व्यवहार तथा सब पदार्थों के गमन, आगमन, धारण और स्पर्श होते हैं, वैसे ही सूर्य्य के योग से पदार्थों के प्रकाश और छेदन भी होते हैं। संमिश्लः इस शब्द में सायणाचार्य्य ने लकार का होना छान्दस माना है, सो उनकी भूल है, क्योंकि संज्ञाछन्द० इस वार्त्तिक से लकारादेश सिद्ध ही है॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथाऽयं संमिश्ल इन्द्रो वायुः सचा सचयोर्वचोयुजा वचांसि योजयतोर्हर्य्यो गमनागमनानि युनक्ति तथा इत् एव वज्री हिरण्यय इन्द्रः सूर्य्यलोकश्च॥२॥
दयानन्द-सरस्वती (हि) - विषयः
उक्तेषु त्रिषु प्रथमतो वायुसूर्य्यावुपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) वायुः (इत्) एव (हर्य्योः) हरणाहरणगुणयोः (सचा) समवेतयोः (संमिश्लः) पदार्थेषु सम्यक् मिश्रो मिलितः सन्। संज्ञाछन्दसोर्वा कपिलकादीनामिति वक्तव्यम्। (अष्टा०८.२.१८) अनेन वार्तिकेन रेफस्य लत्वादेशः। (आ) समन्तात् (वचोयुजा) वाणीर्योजयतोः। अत्र सुपां सुलुगिति षष्ठीद्विवचनस्याकारादेशः। (इन्द्रः) सूर्य्यः (वज्री) वज्रः सम्वत्सरस्तापो वास्यास्तीति सः। संवत्सरो हि वज्रः। (श०ब्रा०३.३.५.१५) (हिरण्ययः) ज्योतिर्मयः। ऋत्व्यवास्त्व्य० (अष्टा०६.४.१७५) अनेन हिरण्यमयशब्दस्य मलोपो निपात्यते। ज्योतिर्हि हिरण्यम्। (श०ब्रा०४.३.१.२१)॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। यथा वायुयोगेनैव वचनश्रवणव्यवहारसर्वपदार्थगमनागमनधारणस्पर्शाः सम्भवन्ति तथैव सूर्य्ययोगेन पदार्थप्रकाशनछेदने च। ‘संमिश्लः’ इत्यत्र सायणाचार्य्येण लत्वं छान्दसमिति वार्तिकमविदित्वा व्याख्यातम्, तदशुद्धम्॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. जसे वायूच्या संयोगाने भाषण, श्रवण इत्यादी व्यवहार व सर्व पदार्थांचे गमन आगमन धारण व स्पर्श होतो, तसेच सूर्यामुळे पदार्थांना प्रकाश मिळतो व ते खंडितही होतात.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘संमिश्ल’ या शब्दात सायणाचार्याने लकार होणे छान्दस मानलेले आहे. ती त्यांची चूक आहे. कारण ‘संज्ञाछन्द. ’ या वार्तिकाने लकारादेश सिद्धच आहे. ॥ २ ॥
मूलम् ...{Loading}...
इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥
०३ इन्द्रो दीर्घाय ...{Loading}...
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒
आ सूर्यं॑ रोहयद् दि॒वि ।
वि गोभि॒र् अद्रि॑म् ऐरयत् ॥+++(5)+++
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रो दीर्घा꣡य च꣡क्षस
आ꣡ सू꣡र्यं रोहयद् दिवि꣡
वि꣡ गो꣡भिर् अ꣡द्रिम् ऐरयत्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}
dīrghā́ya ← dīrghá- (nominal stem)
{case:DAT, gender:N, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
rohayat ← √ruh- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
ádrim ← ádri- (nominal stem)
{case:ACC, gender:M, number:SG}
airayat ← √īr- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
góbhiḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:F, number:PL}
ví ← ví (invariable)
{}
पद-पाठः
इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि ।
वि । गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dīrghāya ← dīrgha
- [noun], dative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- cakṣasa ← cakṣase ← cakṣas
- [noun], dative, singular, neuter
- “eye; look; radiance.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sūryaṃ ← sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- rohayad ← rohayat ← rohay ← √ruh
- [verb], singular, Imperfect
- divi ← div
- [noun], locative, singular
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- vi
- [adverb]
- “apart; away; away.”
- gobhir ← gobhiḥ ← go
- [noun], instrumental, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- adrim ← adri
- [noun], accusative, singular, masculine
- “mountain; rock; seven; stone; adri; grindstone; adri; rock.”
- airayat ← īray ← √īr
- [verb], singular, Imperfect
- “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”
सायण-भाष्यम्
अयम् इन्द्रः दीर्घाय प्रौढाय निरन्तराय चक्षसे दर्शनाय दिवि द्युलोके सूर्यम् आ रोहयत् । पुरा वृत्रासुरेण जगति यत् आपातितं तमस्तन्निवारणेन प्राणिनां दृष्टिसिद्धयर्थमादित्यं द्युलोके स्थापितवानित्यर्थः । स च सूर्यः गोभिः स्वकीयरश्मिभिः अद्रिं पर्वतप्रमुखं सर्वं जगत् वि ऐरयत् विशेषेण दर्शनार्थं प्रेरितवान् प्रकाशितवानित्यर्थः । अथवा इन्द्रः एव गोभिः जलैर्निमित्तभूतैः अद्रिं मेघं व्यैरयत् विशेषेण प्रेरितवान् । पञ्चदशसंख्याकेषु रश्मिनामसु ’ खेदयः किरणाः गावः ’ ( नि. १. ५. ३ ) इति पठितम् । त्रिंशत्संख्याकेषु मेघनामसु ‘अद्रिः ग्रावा’ (नि. १. १०.१ ) इति पठितम् ॥ दीर्घाय । प्रातिपदिकस्वरेणान्तोदात्तः । चक्षसे । चक्षेः ‘ सर्वधातुभ्योऽसुन्’ ( उ. सू. ४. ६२८ ) इति असुन् । बहुलग्रहणात् ख्याञादेशाभावः । नित्त्वादाद्युदात्तः । सूर्यम् । सुवति प्रेरयतीति सूर्यः । ‘ षू प्रेरणे’। ‘धात्वादेः षः सः’ । ‘राजसूयसूर्य ’ (पा. सू. ३. १. ११४) इत्यादिना क्यप्प्रत्ययः, तस्य रुडागमश्च निपात्यते । क्यपः कित्त्वाद्गुणाभावः । पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । रोहयत् । रुहेः ण्यन्तात् लङि ‘बहुलं छन्दस्यमाङयोगेऽपि’ ( पा. सू. ६. ४. ७५ ) इत्यडभावो निघातश्च । दिवि । ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । अद्रिम् । अदिशदिभूशुभिभ्यः क्रिन्’ (उ. सू. ४. ५०५) इति क्रिन्प्रत्ययः । अदन्ति पशवस्तृणादिकमत्र इति अद्रिः । नित्त्वादाद्युदात्तत्वम् । ऐरयत् ।’ ईर गतौ’ । ण्यन्तात् लङ् । निघातः ॥
भट्टभास्कर-टीका
6 इन्द्रो दीर्घायेति ॥ दीर्घाय दीर्घकालभाविने चक्षसे दर्शनाय पश्येदेनं सर्वलोक इति सूर्ये दिवि इन्द्र एव आरोहयत् । उपर्यारोपितवान् यः सूर्यो गोभिः रश्मिभिः अद्रिं मेघं व्यैरयत् वृष्ट्यर्थं भिनत्ति । यद्वा - इन्द्रः गोभिः वज्रैरद्रिं पर्वतं व्यैरयत् भित्वा न्यपातयत् ॥
Wilson
English translation:
“Indra, to render all things visible, elevated the sun in the sky, and charged the cloud with (abundant) waters.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vṛtra envelopes the world in darkness; to remove darkness, Indra elevated the sun (ā-rohayat = sthāpitavān, plural ced) in the dyu-loka (heaven)
Jamison Brereton
Indra made the sun mount in heaven for the long view.
He propelled apart the rock with the cows (inside).
Jamison Brereton Notes
A more felicitous tr. of dīrghā́ya cákṣase might be “to be seen for a long time,” but “for the long view” allows the phrase to be read as referring to either time or space (“to be seen for a long distance”) or both.
The usage of the instr. góbhiḥ is somewhat strange; it is clearly not meant either as an instr. of agent/instrument or of accompaniment, at least of simple accompaniment. It might be an instr. of separation, or, as in this tr., an adjunct or accompaniment to the obj.: “the rock (which was) with cows.” Elizabeth Tucker points out to me that such a construction would be very unusual; I suggest that it could derive from an instr. of accompaniment: “the rock along with its cows.”
Griffith
Indra hath raised the Sun on high in heaven, that he may see afar:
He burst the mountain for the kine.
Geldner
Indra ließ zu langandauerndem Schauer die Sonne am Himmel aufsteigen. Er sprengte den Fels mit den Rindern auf.
Grassmann
Die Sonne liess er, weit zu schaun, am Himmel steigen, er zerschlug Den Fels und liess die Kühe frei.
Elizarenkova
Индра поднял солнце на небо,
Чтоб долго можно было видеть (его).
Он расколол скалу с коровами (в ней).
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इसके अनन्तर किसने किसलिये सूर्य्यलोक बनाया है, सो अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) जो सब संसार का बनानेवाला परमेश्वर है, उसने (दीर्घाय) निरन्तर अच्छी प्रकार (चक्षसे) दर्शन के लिये (दिवि) सब पदार्थों के प्रकाश होने के निमित्त जिस (सूर्य्यम्) प्रसिद्ध सूर्य्यलोक को (आरोहयत्) लोकों के बीच में स्थापित किया है, वह (गोभिः) अपनी किरणों के द्वारा (अद्रिम्) मेघ को (व्यैरयत्) अनेक प्रकार से वर्षा होने के लिये ऊपर चढ़ाकर वारंवार वर्षाता है॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - रचने की इच्छा करनेवाले ईश्वर ने सब लोकों में दर्शन, धारण और आकर्षण आदि प्रयोजनों के लिये प्रकाशरूप सूर्य्यलोक को सब लोकों के बीच में स्थापित किया है, इसी प्रकार यह हर एक ब्रह्माण्ड का नियम है कि वह क्षण-क्षण में जल को ऊपर खींच करके पवन के द्वारा ऊपर स्थापन करके वार-वार संसार में वर्षाता है, इसी से यह वर्षा का कारण है॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: इन्द्रः सृष्टिकर्त्ता जगदीश्वरो दीर्घाय चक्षसे यं सूर्य्यलोकं दिव्यारोहयत् सोऽयं गोभिरद्रिं व्यैरयत् वीरयति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
अथ केन किमर्थः सूर्य्यलोको रचित इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सर्वजगत्स्रष्टेश्वरः (दीर्घाय) महते निरन्तराय (चक्षसे) दर्शनाय (आ) क्रियार्थे (सूर्य्यम्) प्रत्यक्षं सूर्य्यलोकम् (रोहयत्) उपरि स्थापितवान् (दिवि) प्रकाशनिमित्ते (वि) विविधार्थे (गोभिः) रश्मिभिः। गाव इति रश्मिनामसु पठितम्। (निघं०१.५) (अद्रिम्) मेघम्। अद्रिरिति मेघनामसु पठितम्। (निघं०१.१०) (ऐरयत्) वीरयत् वीरयत्यूर्ध्वमधो गमयति। अत्र लडर्थे लुङ्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सृष्टिमिच्छतेश्वरेण सर्वेषां लोकानां मध्ये दर्शनधारणाकर्षणप्रकाशप्रयोजनाय प्रकाशरूपः सूर्य्यलोकः स्थापितः, एवमेवायं प्रतिब्रह्माण्डं नियमो वेदितव्यः। स प्रतिक्षणं जलमूर्ध्वमाकृष्य वायुद्वारोपरि स्थापयित्वा पुनः पुनरधः प्रापयतीदमेव वृष्टेर्निमित्तमिति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सृजनाची इच्छा करणाऱ्या ईश्वराने सर्व लोकांमध्ये दर्शन, धारण व आकर्षण इत्यादी प्रयोजनांसाठी प्रकाशरूपी सूर्याला सर्व गोलांच्या मध्ये स्थापन केलेले आहे. त्याचप्रकारे प्रत्येक ब्रह्मांडाचा नियम आहे की सूर्य क्षणोक्षणी जल वर खेचतो व वायूद्वारे वर स्थापन करून वारंवार वृष्टी करवितो. त्यामुळे तो पर्जन्याचे कारण आहे. ॥ ३ ॥
मूलम् ...{Loading}...
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥
०४ इन्द्र वाजेषु ...{Loading}...
इन्द्र॒ वाजे॑षु नो ऽव
स॒हस्र॑–प्र-धनेषु च ।
उ॒ग्र उ॒ग्राभि॑र् ऊ॒तिभिः॑ ॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्र वा꣡जेषु नो अव
सह꣡स्रप्रधनेषु च
उग्र꣡ उग्रा꣡भिर् ऊति꣡भिः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ava ← √avⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
vā́jeṣu ← vā́ja- (nominal stem)
{case:LOC, gender:M, number:PL}
ca ← ca (invariable)
{}
sahásrapradhaneṣu ← sahásrapradhana- (nominal stem)
{case:LOC, gender:M, number:PL}
ugrā́bhiḥ ← ugrá- (nominal stem)
{case:INS, gender:F, number:PL}
ugráḥ ← ugrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ ।
उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥
Hellwig Grammar
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vājeṣu ← vāja
- [noun], locative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ‘va ← ava ← av
- [verb], singular, Present imperative
- “support; help; prefer; prefer; like.”
- sahasrapradhaneṣu ← sahasra
- [noun], neuter
- “thousand; one-thousandth; sahasra [word].”
- sahasrapradhaneṣu ← pradhaneṣu ← pradhana
- [noun], locative, plural, masculine
- ca
- [adverb]
- “and; besides; then; now; even.”
- ugra ← ugraḥ ← ugra
- [noun], nominative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- ugrābhir ← ugrābhiḥ ← ugra
- [noun], instrumental, plural, feminine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
सायण-भाष्यम्
हे इन्द्र उग्रः शत्रुभिरप्रधृष्यस्त्वम् उग्राभिः अप्रधृष्याभिः ऊतिभिः अस्मद्विषयरक्षाभिः वाजेषु युद्धेषु नः अस्मान् अव रक्ष। तथा सहस्रप्रधनेषु च । सहस्रसंख्याकगजाश्वादिलाभयुक्तेषु महायुद्धेष्वपि रक्ष ॥ वाजेषु ।’ वृषादीनां च ’ (पा. सू. ६. १. २०३) इत्याद्युदात्तत्वम् । नोऽव । नसः सकारस्य रुत्वोत्वगुणेषु ’ प्रकृत्यान्तःपादम् ’ ( पा. सू. ६. १. ११५) इति प्रकृतिभावो न भवति अव्यपरे ’ इति निषेधात् । अव । ‘अव रक्षणे’। “ तिङ्ङतिङः’ इति निघातः । यद्यपि सहस्रप्रधनेषु च अव इति अध्याहृतां क्रियामपेक्ष्य प्रथमायाः श्रूयमाणाया अव इति क्रियायाः ‘चवायोगे प्रथमा ’ (पा. सू. ८. १. ५९) इति निघातनिषेधः प्राप्तः, तथापि वाजेषु इत्यत्र चकारस्य लुप्तत्वात् ’ चादिलोपे विभाषा ’ ( पा. सू. ८. १. ६३ ) इति निषेधस्य विकल्पितत्वादत्र निघातः प्रवर्तते । सहस्रशब्दः ‘ कर्दमादीनां च ’ ( फि. सू. ५९ ) इति मध्योदात्तः । सहस्रप्रधनेषु वाजेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उग्रः।’ उच समवाये । चस्य गः। ‘ ऋज्रेन्द्रा ’ ( उ. सू. २. १८६ ) इति रन् । व्यत्ययेनान्तोदात्तः । ऊतिभिः । ऊतियूति° ’ इत्यादिना क्तिन् उदात्तः ॥
भट्टभास्कर-टीका
7 इन्द्रेति ॥ हे इन्द्र! नः अस्मान् वाजेषु अन्नेषु निमित्तभूतेऽषु अव रक्ष यथा वाजान् लप्स्यामहे अन्नदानेन अस्मान् तर्पय सहस्रप्रधनेषु च अपि सहस्रत्वं धनेषु वाजेषु सहस्रं प्रकृष्टानि धनानि येषु तादृशेषु । यद्वा - सहस्रप्रधानेषु, छान्दसं ह्रस्वत्वम् । उग्रः उद्गूर्णः तं उग्राभिरूतिभिः उद्गूर्णाभिः रक्षाभिः तर्पणेन वा । यद्वा - वाजेषु ग्रामेषु सहस्रप्रधनेषु सहस्रं प्रधनाः प्रकष्टधनाः पुरुषा येषु तेषु । यद्वा - सहस्रं प्रकृष्टधना रथगजतुरगपदातयो येषु तेष्वस्मानव । उग्रः उद्गूर्णस्त्वं उग्राभिरूतिभिः गतिभिः वेगगमनैः ॥
Wilson
English translation:
“Invincible Indra, protect us in battles abounding in spoil, with insuperable defenceṣ”
Jamison Brereton
O Indra, help us when prizes and stakes of thousands (are set),
as the mighty one with mighty forms of help.
Griffith
Help us, O Indra, in the frays, yea, frays, where thousand spoils are gained,
With awful aids, O awful One.
Geldner
Indra, steh uns in den Kämpfen um den Siegerpreis, und wo Tausend auf dem Spiel steht, bei als Gewaltiger mit gewaltigen Hilfen!
Grassmann
Hilf in den Schlachten, Indra, uns, im Kampf, der tausend Schätze bringt, Mit mächt’gen Hülfen, mächtiger!
Elizarenkova
О Индра, помоги нам в состязаниях за награду,
И (там), где добыча – тысяча,
Сильный, с сильными подкреплениями!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इन्द्र शब्द से व्यवहार को दिखलाकर अब प्रार्थनारूप से अगले मन्त्र में परमेश्वरार्थ का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्य्य देनेवाले जगदीश्वर ! (उग्रः) सब प्रकार से अनन्त पराक्रमवान् आप (सहस्रप्रधनेषु) असंख्यात धन को देनेवाले चक्रवर्त्ति राज्य को सिद्ध करनेवाले (वाजेषु) महायुद्धों में (उग्राभिः) अत्यन्त सुख देनेवाली (ऊतिभिः) उत्तम-उत्तम पदार्थों की प्राप्ति तथा पदार्थों के विज्ञान और आनन्द में प्रवेश कराने से हम लोगों की (अव) रक्षा कीजिये॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर का यह स्वभाव है कि युद्ध करनेवाले धर्मात्मा पुरुषों पर अपनी कृपा करता है और आलसियों पर नहीं। इसी से जो मनुष्य जितेन्द्रिय विद्वान् पक्षपात को छोड़नेवाले शरीर और आत्मा के बल से अत्यन्त पुरुषार्थी तथा आलस्य को छो़ड़े हुए धर्म से बड़े-बड़े युद्धों को जीत के प्रजा को निरन्तर पालन करते हैं, वे ही महाभाग्य को प्राप्त होके सुखी रहते हैं॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जगदीश्वर ! उग्रो भवान् सहस्रप्रधनेषु वाजेषूग्राभिरूतिभिर्नो रक्ष सततं विजयं च प्रापय॥४॥
दयानन्द-सरस्वती (हि) - विषयः
इन्द्रशब्देन व्यावहारिकमर्थमुक्त्वाऽथेश्वरार्थमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) परमैश्वर्य्यप्रदेश्वर ! (वाजेषु) संग्रामेषु। वाज इति संग्रामनामसु पठितम्। (निघं०२.१७) (नः) अस्मान् (अव) रक्ष (सहस्रप्रधनेषु) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्त्तिराज्यसाधकेषु महायुद्धेषु। सहस्रमिति बहुनामसु पठितम्। (निघं०३.१) (च) आवृत्त्यर्थे (उग्रः) सर्वोत्कृष्टः। ऋज्रेन्द्राग्र० (उणा०२.२९) निपातनम्। (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाप्राप्तिविज्ञानसुखप्रवेशनैः॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वरो धार्मिकेषु योद्धृषु कृपां धत्ते नेतरेषु। ये मनुष्या जितेन्द्रिया विद्वांसः पक्षपातरहिताः शरीरात्मबलोत्कृष्टा अनलसाः सन्तो धर्मेण महायुद्धानि विजित्य राज्यं नित्यं रक्षन्ति त एव महाभाग्यशालिनो भूत्वा सुखिनो भवन्ति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराचा हा स्वभाव आहे की युद्ध करणाऱ्या धार्मिक पुरुषांवर आपली कृपा करतो, आळशी लोकांवर नाही. त्यामुळे जी माणसे जितेन्द्रिय, विद्वान, शरीर व आत्म्याच्या बलाने युक्त होतात व पक्षपात न करता अत्यंत पुरुषार्थी बनून आळस सोडून धर्माने मोठमोठी युद्धे जिंकतात व सतत प्रजेचे पालन करतात तीच सौभाग्यशाली व सुखी होतात. ॥ ४ ॥
मूलम् ...{Loading}...
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
०७ तमिन्द्रं वाजयामसि ...{Loading}...
तमिन्द्रं॑ वाजयामसि
म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ॥
सर्वाः टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सुकक्षः
- छन्दः - गायत्री
Thomson & Solcum
त꣡म् इ꣡न्द्रं वाजयामसि
महे꣡ वृत्रा꣡य ह꣡न्तवे
स꣡ वृ꣡षा वृषभो꣡ भुवत्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
vājayāmasi ← √vājay- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
hántave ← √han- (root)
{case:DAT, number:SG}
mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}
vr̥trā́ya ← vr̥trá- (nominal stem)
{case:DAT, gender:M, number:SG}
bhuvat ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}
vr̥ṣabháḥ ← vr̥ṣabhá- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय॑ । हन्त॑वे ।
सः । वृषा॑ । वृ॒ष॒भः । भु॒व॒त् ॥
Hellwig Grammar
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vājayāmasi ← vājay ← √vaj
- [verb], plural, Present indikative
- “incite.”
- mahe ← mah
- [noun], dative, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- vṛtrāya ← vṛtra
- [noun], dative, singular, masculine
- “Vṛtra; vṛtra [word].”
- hantave ← han
- [verb noun]
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- sa
- [adverb]
- “with; little; together.”
- vṛṣā ← vṛṣan
- [noun], nominative, singular, masculine
- “bullocky; potent; powerful; strong; manly; aroused; potent; much(a); male; large.”
- vṛṣabho ← vṛṣabhaḥ ← vṛṣabha
- [noun], nominative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- bhuvat ← bhū
- [verb], singular, Aorist conj./subj.
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
सायण-भाष्यम्
यजमाना आहुः । तं पूर्वोक्तलक्षणम् इन्द्रं वाजयामसि वाजयामः । सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थम् । महे महते वृत्राय अपामावरकं वृत्रासुरं हन्तवे हन्तुम् । सोमपानेन मत्तः स्तुतिभिर्वा स्तुतः सन् वृषा धनानां सेक्ता दाता सः इन्द्रः वृषभः अस्माकं स्तोतॄणां सोमस्य दातॄणां धनादिसेचको दाता भुवत् भवतु ॥
भट्टभास्कर-टीका
8 तमिति ॥ तादृशं इन्द्रं वाजयामसि वाजयामः गमयामः । ‘इदन्तोमसि’। किमर्थं महे वृत्राय । कर्मणस्संप्रदानत्वाच्चतुर्थी । महावृत्रं हन्तवे हन्तुम् । ‘तुमर्थे सेसेन्’इति तवेन् प्रत्ययः । स इन्द्रो वृषा स्वयमेव वर्षणशीलः अस्माकं वृषभः कामानां पूरयिता भुवत् भवतु । लेटि अडागमः ‘भूसुवोस्तिङि’इति गुणाभावः ॥
Wilson
English translation:
“We invigorate that (great) Indra for the slaying of mighty Vṛtra, may he be a bounteous showerer (ofwealth).”
Jamison Brereton
We incite this Indra to smite great Vr̥tra.
He will become a bullish bull.
Griffith
We make this Indra very strong to strike the mighty Vrtra dead:
A vigorous Hero shall he be.
Geldner
Diesen Indra eifern wir an, den großen Vritra zu töten. Er sei der riesige Bulle.
Grassmann
Ihm, diesem Indra, geben wir zum Mord des grossen Vritra Kraft; Der Held erweise sich als Stier.
अधिमन्त्रम् (VC)
- इन्द्र:
- सुकक्षः
- गायत्री
- षड्जः
मूलम् ...{Loading}...
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒स् स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स् स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
इन्द्र॒स् स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स् स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।
भट्टभास्कर-टीका
9 इन्द्रस्स इति ॥ स तादृश इन्द्रः अस्मान् दामने दमनार्थे दमनकृत्ये वा बन्धने कृतः बन्धनयोगैर् वशीकृतकृत्य इत्यर्थः । उत्सादिर्द्रष्टव्यः । किञ्च - इन्द्रः ओजिष्ठः बलवत्तरः अभीतः बले हितः स बलीन्द्रो बले स्थितः द्युम्नी अन्नवान् यशस्वी वा । श्लोको स्तुतिमान् । सौम्य’सोमार्हः । ‘तदर्हति’इति यत् । ततश्छान्दसमन्तस्वरितत्वम् । ईदृश इन्द्रो अस्माभिस्स्वीकृत इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒ख्षुर् उ॒ग्रो अस्तृ॑तः ॥ 35 ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒ख्षुर्+++(←बह्)+++ उ॒ग्रो अस्तृ॑तः ॥ 35 ॥
भट्टभास्कर-टीका
10 गिरेति ॥ गिरा स्तुतिवाचा वज्रो न वज्र इव संभृतः सम्यक् हस्ते भृतः गृहीत्तः । सवलः बलसहितः अनपच्युतः ववक्षुः संग्रामेषु धुरो वोढुम् इच्छन् । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’इतीत्वाभावः । वर्ण-व्यत्ययेन वा इकारस्याकारभावः ।
उग्रः उद्गूर्णवलः सदोद्यतः अस्तृतः केनचिद् अप्य् अनाच्छादितः । अनुपहिंसितो वा । ईदृशोऽयमिन्द्रः सर्वार्थसाधनभूतो वज्र इवास्माभिः संभृतः ॥
इति पञ्चमे अष्टमोऽनुवाकः ॥