विधिः
पार्वणम्
एवम् अत ऊर्ध्वं दक्षिणावर्जम् उपोषिताभ्यां पर्वसु कार्यः ॥
पूर्णपात्रस् तु +++(=१००/ १२८ मुष्टिमात्रम् अन्नम् पात्रे)+++ दक्षिणेत्येके ॥
+++(उपवासविधिर् धर्मसूत्रे - पर्वसु चोभयोर् उपवासः ४ औपवस्तम् एव कालान्तरे भोजनम् ५ तृप्तिश् चान्नस्य ६ यच् चैनयोः प्रियं स्यात्तदेतस्मिन्न् अहनि भुञ्जीयाताम् ७।)+++
कर्मान्तरम्
पार्वणेनातो ऽन्यानि +++(पक्व-हविर्-युक्तानि स्थालीपाक-पश्वादीनि)+++ कर्माणि व्याख्यातान्य् - आचाराद् +++(→शास्त्रान्तराद् अपि)+++ यानि गृह्यन्ते २३
यथोपदेशं देवताः २४
अग्निं स्विष्टकृतं चान्तरेण २५
अविकृतम् आतिथ्यम् +++(= गवालम्भे न स्थालीपाकतन्त्रम्)+++२६
क्रमः
श्रपयित्वा ऽभिघार्य प्रचीनम् उदीचीनं वोद्वास्य प्रतिष्ठितम् अभिघार्याऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज् जहोति ॥
प्रधानाहुतिः -
सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥
+++(त्रिर्जमदग्नीनाम्।)+++ अग्निर्देवता स्वाहाकारप्रदानः॥
अपि वा सकृदुपहत्य जुहुयात् ॥
मध्यात् पूर्वस्यावदानम् ॥
मध्ये होमः ॥
स्विष्टकृत् -
अग्निस्स्विष्टकृद् द्वितीयः।
सकृदुपस्तरणावदाने द्विरभिघारणम् +++(जमदग्नीनां तु द्विरवदानम् ।)+++ ॥
उत्तरार्धादुत्तरस्य ॥
उत्तरार्धपूर्वार्धे होमः ॥
लेपकर्म -
लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्क्त्वा ऽऽग्नौ प्रहरति ॥
सिद्धमुत्तरं परिषेचनम् +++(= अनेनोपहोमा भवन्तीति केचिन्, नेत्यन्ये)+++॥
तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥