परिमार्जनम्
परि त्वेति परिमृज्य
प᳓रि त्वाऽग्ने प᳓रिमृजाम्य् आ᳓युषा च ध᳓नेन च ।
सुप्रजाः᳓ प्रज᳓या भूयासँ,
सुवी᳓रो वीरै᳓स्, सुव᳓र्चा व᳓र्चसा, सुपो᳓षः पो᳓षैस्, सुगृ᳓हो गृहै᳓स्, सुप᳓तिः प᳓त्या+++(→आचार्येण)+++, सुमेधा᳓ मेध᳓या, सुब्र᳓ह्मा +++(स)+++ब्रह्मचारि᳓भिः ।
समिदाधानम्
तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१
अग्न᳓ये समि᳓धम् आ᳓हार्षं
बृहते᳓ जात᳓-वेदसे ।
य᳓था त्व᳓म् अग्ने समि᳓धा समिद्ध्य᳓स,
एवं᳓ मा᳓म् आ᳓युषा व᳓र्चसा सन्या᳓ +++(=लाभेन)+++ मेध᳓या प्रज᳓या पशु᳓भिर् ब्रह्मवर्चसे᳓नान्ना᳓द्येन+++(=अन्नादनेन)+++
स᳓मेधय स्वा᳓हा ।
+++(हे समित्, अग्नेर्)+++ ए᳓धो+++(←इन्धी दीप्तौ)+++ ऽस्य्,
एधिषीम᳓हि स्वा᳓हा ।
समि᳓द् असि,
समेधिषीम᳓हि +++(अग्निं)+++ स्वा᳓हा ।
ते᳓जोसि,
ते᳓जो म᳓यि धेहि स्वा᳓हा ।+++(५)+++
अ᳓पो+++(=कर्म)+++ अद्य᳓ +अ᳓न्वचारिषँ
+++(श्रद्धा)+++र᳓सेन स᳓मसृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
प᳓यस्वाँ+++(→हविष्मान्)+++ अग्न आ᳓गमन्
तं᳓ मा सँ᳓सृज व᳓र्चसा स्वा᳓हा ।
सं᳓ माऽग्ने व᳓र्चसा सृज
प्रज᳓या च ध᳓नेन च स्वा᳓हा ।
विद्यु᳓न्+++(र्)+++ मे अस्य देवा᳓
इ᳓न्द्रो विद्या᳓त् सह᳓र्षिभिः स्वा᳓हा ।+++(५)+++
अग्न᳓ये बृहते᳓ ना᳓काय स्वा᳓हा ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++
द्या᳓वापृथिवी᳓भ्याँ स्वा᳓हा ।
एषा᳓ ते अग्ने समि᳓त्,
त᳓या व᳓र्द्धस्व चा᳓प्यायस्व च,
त᳓याऽहं᳓ व᳓र्धमानो भूयासम्, आप्या᳓यमानश्च स्वा᳓हा ।
यो᳓ माऽग्ने भागि᳓नँ सन्त᳓म्
अ᳓थाभाग᳓ञ् चि᳓कीर्षति ।
अभाग᳓म्+++(“नञ्सुभ्याम्”)+++ अग्ने तं᳓ कुरु
मा᳓म् अग्ने भागि᳓नं कुरु स्वा᳓हा ।+++(५)+++
समि᳓धम् आधा᳓याग्ने
स᳓र्वव्रतो भूयासँ स्वा᳓हा ।
एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++