औपासनम्

अग्निः

नित्यः ।

धार्यः ॥

अनुगते

नित्यः ।

धार्यः ॥

+++(विच्छिन्नाग्निसन्धानम् इतो ऽनुमेयम्। )+++

अनुगतो मन्थ्यः +++(प्राग्दग्धाङ्गारेभ्यः - साक्षाद्, भस्मनारणी-संस्पृश्य वा)+++ ॥

श्रोत्रियागाराद् वा ऽऽहार्यः +++(पचनाग्निः)+++ ॥

उपवासश् चान्यतरस्य भार्यायाः पत्युर्वा ॥

अनुगते ऽपि वोत्तरया +++(=अयाश्चाग्ने)+++ जुहुयान् नोपवसेत् +++(- प्रायश्चित्तं त्वत्राप्य् अस्त्य् एव)+++॥

अया᳓श्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चाग्ने᳓ ऽस्य् अनभिशस्ती᳓श्च+++(=अनवद्यः)+++
सत्य᳓म् इ᳓त् त्व᳓म्+++(←स्वरः शोधितः)+++ अया᳓ असि ।
अ᳓यसा+++(←अय् + असुँन्)+++ म᳓नसा धृतो᳓
अय᳓सा+++(← इण् + असुँन्)+++ हव्य᳓म् ऊहिषे+++(=वहस्व)+++
अया᳓ नो धेहि भेषज᳓म् ।।+++(५)+++

प्रयाणे

+++(उखायाम् = पात्र-विशेषे)+++ समोप्यैतम् अग्निम् अनु-हरन्ति +++(- न पुरस्तात्)+++ ॥

विश्वास-टिप्पनी

“औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्” इति सुदर्शनः। बौधायनो विदधाति समित्-समारोपणम्। गृहे ऽप्रयाणे ऽपि धारणाशक्तौ दृश्यते समारोपणम् आचारे।
“अनेन श्रौतवत् समारोपस्य प्रतिषेध” इति तु हरदत्तः।

होमः

सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥

स्थालीपाकवद्दैवतम् ॥

सौरी पूर्वाहुतिः प्रातरित्येके ॥

उभयतः परिषेचनं यथा पुरस्तात् ॥

+++(स्थालीपाको ऽन्यत्रोक्तः।)+++