चिकित्साविषयो ऽन्यत्रोक्तः।
अर्थप्राप्तिसाधारणे
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया +++(ऽयदहं धनेनेऽत्येतया)+++ जुहुयात् ५
अर्थप्राध्वस्य +++(अर्थाय प्रस्थितस्य)+++ परिक्षवे परिकासने चाप उपस्पृश्योत्तरे +++(अनुहवं परिहवं)+++ यथालिङ्गं +++(अनुहवे = अन्वाह्वाने, परिहवे, दुःस्वप्ने … ऽपीति हरदत्तः)+++ जपेत् ॥
एवम् +++(अर्थप्राध्वस्य दुर्निमित्ते ऽप उपस्पृश्य)+++ उत्तरैर्यथालिङ्गं +++(=अग्निरस्त्विति चित्रियपक्षे, सिग्वाते सिगसिनसि, शकुनौ “उद्गातेव शकुने”, “आरात्ते अग्निः” इति वनस्पतौ, “नमश्शकृत्सदे” इति शकृद्रीतौ)+++ चित्रियं+++(=अश्वत्थविशेषं)+++ वनस्पतिं+++(पुष्पैर्विना फलवन्तम्)+++ शकृद्रीति सिग्वातं+++(=सिचो वस्त्रस्य वातम्)+++ शकुनिम् +++(=सुवचनम्। अशुभवचनम् इति सुदर्शनः।)+++ इति ॥
वरवशीकरणम्
उभयोर् हृदय-संसर्गेप्सुस् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा, +++(पुनर्वस्वोः)+++ स्थालीपाकं श्रपयित्वा ऽऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर् +++(सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः)+++ हुत्वा, जयादि प्रतिपद्यते, परिषेचनान्तं कृत्वा, तेन +++(स्थालीपाकेन)+++ सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्धिं वाचयीत।
+++(विवाहप्रकरणे तूपदेशात्सकृत्पात्रप्रयोगः शम्याश्च ।)+++
श्वस्तिष्येणेति त्रिस्सप्तैर्+++(=२१)+++ यवैः पाठां+++(=ओषधिविशेषम्)+++ परिकिरति - “यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि” इति ५
+++(उपोष्य)+++ श्वोभूते +++(पाठाम्)+++ उत्तरया +++(“इमां खनीमि”)+++ +उत्थाप्य +++(उत्खाय खनित्रेण)+++
+उत्तराभिस् तिसृभिर् +++(“उत्तानपर्णे”)+++ अभिमन्त्र्य
उत्तरया +++(“अहमस्मी"ति)+++ प्रतिच्छन्नां +++(छित्त्वा)+++ हस्तयोराबध्य
शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयाद् उपधानलिङ्गया +++(“उपतेऽधा”)+++ ६
वश्यो भवति ७
सपत्नीबाधनं च।
एतेनैव कामेनोत्तरेणानुवाकेन +++(“उदसौ सूर्यो अगात्”)+++ सदादित्यमुपतिष्ठते ९
भिक्षणम्
सनिम्+++(=भिक्षणम्)+++ इत्वोत्तरान् +++(“अन्नमिव ते दृशे भूयास"मित्यादीन् सप्त)+++ जपित्वा ऽर्थं +++(=अपेक्षाम्)+++ ब्रूयात् १३
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया +++(“अङ्कौ न्यङ्कौ"इत्येतया)+++ रथचक्रे अभिमृशति पक्षसी वा १४
उत्तरेण यजुषा +++(“अध्वनामध्व” इत्यनेन)+++ ऽधिरुह्योत्तरया +++(“अयं वामश्विमा रथ"इत्येतया )+++ प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात् १५
अश्वमुत्तरैर् +++(ऽअश्वोऽसि हयोऽसिऽइत्यादिभिः)+++ आरोहेत् १६
हस्तिनमुत्तरया +++(ऽहस्तियशसमसीऽत्येतया)+++ १७
ताभ्याँ +++(भूमौ पतितस्य)+++ रेषणे +++(=शरीरोपमर्दे)+++ पूर्ववत् +++(“स्योना पृथिवी"इत्येताभ्यां)+++ पृथिवीम् अभिमृशेत् १८
०८ स्योना पृथिवि …{Loading}…
स्योना᳓+++(=सुखरूपा)+++ पृथिवि भव+
अनृक्षरा᳓+++(=कण्टकादिरहिता)+++ निवे᳓शनी ।
य᳓च्छा नश् श᳓र्म सप्र᳓थाः+++(=सकीर्तिः)+++ ।
बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++
संवादः
संवादम्+++(=ऋणादानादिव्यवहारः)+++ एष्यन्सव्येन पाणिना छत्रं दण्डञ् चादत्ते १९
दक्षिणेन फलीकरणमुष्टिमुत्तरया +++(ऽअव जिह्वकेऽत्येतया )+++ हुत्वा
गत्वोत्तरां +++(“आ ते वाचमास्यां"इत्येताम्)+++ जपेत् १
क्रोधवारणम्
क्रुद्धमुत्तराभ्याम् +++(“या त एषा रराट्या"इत्येताभ्याम्)+++ अभिमन्त्रयेत विक्रोधो भवति २
परमैथुनवारनम्
असंभवेप्सुः+++(=मैथुनं विवारयिषुः)+++ परेषां+++(=परनराणाम्)+++ स्थूलाऽऽढारिका+++(=गौलिका सरीसृपविशेषः, या शतचरणा नाम)+++जीवचूर्णानि कारयित्वोत्तरया +++(“अव ज्यामिव धन्वन"इत्येतया)+++ सुप्तायास् सम्बाध+++(=योनौ)+++ उपवपेत् ३
+++(सम्भोगयोग्यता)+++सिद्ध्यर्थे बभ्रु+++(गो)+++मूत्रेण +++(योनिं)+++ प्रक्षालयीत ४
भृत्यरक्षा
+++(२३ ०७ इति सूत्रे - हरदत्तः - “सर्वेष्व् एतेषु यथा सम्भवम् अग्निर् औपासन एव”।)+++
यं कामयेत नायम् अविच्छिद्येतेति जीव+++(गो)+++विषाणे +++(पूरयितुम्)+++ स्वं मूत्रमानीय सुप्तमुत्तराभ्यां +++(ऽपरि त्वा गिरेरऽमित्येताभ्यां)+++ त्रिः प्रसव्यं परिषिञ्चेत् ६
+++(“We do know from rodent studies that urinary proteins, like the lipocalin Major Urinary Protein & MHC fragments excreted in urine serve an important role in kin recognition and dominance hierarchies. It is known that sweat excreted MHC might play a role in human kin discrimination. Hence, the role of urinary scents in this regard even in humans should be considered a possibility, especially given that body odor does seem to play a role in human kin recognition. Thus, the ritual itself might be seen as a mechanism by which an individual is made to believe the other to be a kin by urinary odor conditioning.” - MT)+++
येन पथा दासकर्मकराः पलायेरन् तस्मिन्न् इण्वान्य् +++(दारुमयानि निगलानि)+++ उपसमाधायोत्तरा +++(ऽआवर्तन वर्तयेऽत्येताः)+++ आहुतीर् जुहुयात् ।