विश्वास-टिप्पनी
- प्रातःसन्ध्यावन्दनात् परम् -
अध्याय+उत्सर्जन+अकरण-प्रायश्चित्तार्थं कामोकार्षीत्-मन्युरकार्षीत् जपः स्याद् इति केचित्। - तदा यज्ञोपवीतपरिवर्तनम् अपीच्छन्ति केचित्। नूतनपलाशदण्डादिग्रहणम् अपि!
- श्रावण्यां पौर्णमास्याम् उपोष्य परेद्युः सहस्रकृत्वो गायत्रीमन्त्रजपेन प्रायश्चित्तम् अपि कर्तुम् अवकाशो ऽस्ति।
११उ ०१ ...{Loading}...
अथात उपाकरणोत्सर्जने व्याख्यास्यामः १
११उ ०२ ...{Loading}...
+++(आर्तव)+++श्रवणा+++(पूर्व)+++पक्ष
ओषधीषु जातासु
हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म २
विश्वास-टिप्पनी
वर्षऋताव् एव प्ररोहन्ति धन्याः।
११उ ०३ ...{Loading}...
+++(शिष्टाचारानुसारेण मध्याह्नात् परं)+++
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या,
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमो +++(= सांहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयंभुवे इति सुदर्शनसूरिः। हरदत्तस्तु जयादय इति।)+++,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३
०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...
०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...
सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६
विश्वास-टिप्पनी
होम-स्थाने तर्पणम् बहुधा क्रियते।
होमाङ्गत्वेनाध्ययनम् इच्छन्ति केचित्।
११उ ०४ ...{Loading}...
परिषेचनान्तं कृत्वा
त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
११उ ०५ ...{Loading}...
प्रथमोत्तमाव् अनुवाकौ वा ५
११उ ०६ ...{Loading}...
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
११उ ०७ ...{Loading}...
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++ ७