कालः
- प्रतिवर्षं कार्यमिति केचित्। सकृद् अलमिति केचित्।
- “शरदि वसन्ते वेति शास्त्रान्तरम् । आर्द्रया कर्तव्यमिति च । … तत्र फल्गुने मासि पूर्वपक्षे
अष्टम्यार्द्रयासम्पद्यते सोऽस्य मुख्यः कालः ।” इति हरदत्तः। - (आपस्तम्बिषु शूलगवस्य स्थाने)
कर्म
ईशानाय स्थालीपाकं श्रपयित्वा, क्षैत्रपत्यं च,
प्राचीमुदीचीं वा दिशम् उपतिष्क्रम्य +++(ग्रामात्)+++
स्थण्डिलं कल्पयित्वा
ऽग्नेर् उपसमाधानादि १३
अपरेणाग्निं द्वे कुटी कृत्वा १४
देवतावहनम्
उत्तरया दक्षिणस्याम् ईशानम् आवाहयति १
आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।
लौकिक्या वाचोत्तरस्यां मीढुषीम् २
मध्ये जयन्तम्+++(=स्कन्दः, इन्द्रसूनुर् वा)+++ ३
होमः
यथोढम् उदकानि प्रदाय
त्रीन् ओदनान्+++(→ओदनभागान्)+++ कल्पयित्वा
ऽग्निम् अभ्यानीयोत्तरैर् उपस्पर्शयित्वा
उत्तरैर् यथास्वम् ओदनेभ्यो हुत्वा
सर्वतस् समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।
उ᳓पस्पृशतु मीढ्वा᳓न्, मीढु᳓षे स्वा᳓हा।
उ᳓पस्पृशतु मीढु᳓षी मीढु᳓ष्यै स्वा᳓हा ।
जयन्त᳓ +उपस्पृश जयन्ता᳓य+++(=स्कन्दाय)+++ स्वा᳓हा ।
+++(हवनम्)+++
भवा᳓य देवा᳓य स्वा᳓हा।
शर्वा᳓य देवा᳓य स्वा᳓हा।
ई᳓शानाय देवा᳓य स्वा᳓हा।
पशुप᳓तये देवा᳓य स्वा᳓हा।
रुद्रा᳓य+++(=रोदयित्रे)+++ देवा᳓य स्वा᳓हा।
उग्रा᳓य देवा᳓य स्वा᳓हा।
भीमा᳓य देवा᳓य स्वा᳓हा।
महते᳓ देवा᳓य स्वा᳓हा ।
भव᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
शर्व᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
ई᳓शानस्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
पशुप᳓तेर् देव᳓स्य प᳓त्न्यै स्वा᳓हा।
रुद्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
उग्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
भीम᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।
महतो᳓ देव᳓स्य प᳓त्न्यै स्वा᳓हा ।
जयन्ता᳓य स्वा᳓हा ।
अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाँ समर्द्धयि॒त्रे स्वाहा॑ ।
उपस्थानम्
उत्तरेण यजुषोपस्थाय
स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।
उत्तरैस् सहोदनानि पर्णान्य् एकैकेन द्वे द्वे दत्त्वा
देवसेनाभ्यो दशोत्तराभ्यः ५
(उत्तरस्याम्)
गृहपो᳓पस्पृश। गृहपा᳓य स्वा᳓हा ।
गृहप्य् उ᳓पस्पृश। गृहप्यै᳓ स्वा᳓हा ।
(मध्ये ।)
घोषि᳓ण उ᳓पस्पृशत। घोषि᳓भ्यः स्वा᳓हा ।
(दक्षिणस्याम् ।)
श्वासि᳓न उ᳓पस्पृशत। श्वासि᳓भ्यः स्वा᳓हा ।
(उत्तरस्याम्)
विचिन्व᳓न्त उ᳓पस्पृशत। विचिन्व᳓द्भ्यः स्वा᳓हा ।
(मध्ये ।)
प्रपुन्व᳓न्त उ᳓पस्पृशत। प्रपुन्व᳓द्भ्यः स्वा᳓हा ।
(दक्षिणस्याम् ।)
समश्न᳓न्त उ᳓पस्पृशत। समश्न᳓द्भ्यः स्वा᳓हा ।
(दश देवसेनाभ्यः दश॥)
देवसेना᳓ उ᳓पस्पृशत। देवसेना᳓भ्यः स्वा᳓हा ।
या᳓ आ᳓ख्याता या᳓श् चा᳓नाख्याता
देवसेना᳓ उ᳓पस्पृशत।
देवसेना᳓भ्यः स्वा᳓हा ।
पूर्ववद् उत्तरैः ६
द्वारापो᳓पस्पृश। द्वारापा᳓य स्वा᳓हा ।
द्वाराप्य् उ᳓पस्पृश द्वाराप्यै᳓ स्वा᳓हा ।
+++(देव्या)+++ अन्वासारि᳓ण उ᳓पस्पृशत। अन्वासारि᳓भ्यस् स्वा᳓हा +++(→मध्ये द्वे)+++।
निषङ्गि᳓न्न् +++(जयन्त!)+++ उ᳓पस्पृश।
निषङ्गि᳓णे स्वा᳓हा +++(→दक्षिणस्यां द्वे)+++।
+++(होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय - केचित्जयन्तस्योदनादिति)+++
ओदनपिण्डं संवृत्य
पर्ण-पुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति+++(=अवलम्बयति)+++ ७
नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++
अत्र रुद्रान् जपेत् ८
प्रथमोत्तमौ वा ९
गोरक्षणम्
अभित एतमग्निं गास् स्थापयति
यथैता धूमः प्राप्नुयात् १०
ता गन्धैर् दर्भ-ग्रु+++(=गुरु)+++-मुष्टिनावोक्षति
वृषाणम्+++(=वृषभं)+++ एवाग्रे ११
क्षेत्रस्य पतेर् उपस्थानम्
गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२
ईशानवद् आवाहनम् १३
आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।
चतुर्षु सप्तसु वा पर्णेषु +++(स)+++नामादेशं +++(“क्षेत्रस्य पतये त्वां ददामि” इति)+++ दधाति १४
क्षिप्रं यजेत पाको देवः १५
उत्तराभ्याम् उपतिष्ठते १६
क्षे᳓त्रस्य प᳓तिना वयँ᳓
हिते᳓नेव जयामसि ।
गा᳓म् अ᳓श्वम् पोषयित्न्व्+++(=पोषयिताता)+++
आ᳓ स᳓ नो मृडा+++(=सुखय)+++तीदृ᳓शे +++(कर्मणि)+++।
क्षे᳓त्रस्य पते म᳓धुमन्तम् +++(गोयूथ-)+++ऊर्मि᳓न् -
धेनु᳓र् इव प᳓यो अस्मा᳓सु धुक्ष्व ।
मधुश्-चु᳓तङ्, घृत᳓म् इव सु᳓पूतम्
ऋत᳓स्य नᳶ प᳓तयो मृडयन्तु+++(=सुखयन्तु)+++ ।
भोजनादिकम्
स्थालीपाकं ब्राह्मणान् भोजयेत् १७
क्षैत्रपत्यं प्राश्नन्ति ये+++(←दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् प्रयोगः)+++ सनाभयो+++(→पुत्राः भ्रातरश्च)+++ भवन्ति १८
यथा वैषां कुल-धर्मस् स्यात् १९