यक्ष्मवारणम्

+++(यक्ष्मगृहीतां वधूं अन्यां वा स्वस्त्रादिकां पुष्करसंवर्तमूलैः उत्तरैर्मन्त्रैः यथालिङ्गमङ्गानि संमृज्य प्रतीचीनं निरस्येत्)+++

०१ अक्षीभ्यान्ते नासिकाभ्याम् ...{Loading}...

०१ अक्षीभ्यां ते ...{Loading}...

अक्षी᳓भ्यान् ते ना᳓सिकाभ्यां
क᳓र्णाभ्यां चु᳓बुकाद᳓धि ।
य᳓क्ष्मँ शीर्षण्यं᳙ मस्ति᳓ष्काज्
जिह्वा᳓या वि᳓वृहामि+++(=संमृज्य निरस्यामि)+++ ते ।

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

ग्रीवा᳓भ्यस्+++(→पर्वभेदेन बहुवचनम्)+++ त उष्णि᳓हाभ्यः+++(=ग्रीवापृष्ठमूलभ्यः)+++
की᳓कसाभ्यो+++(=अस्थिभ्यो)+++ ऽनूक्या᳙त्+++(=पृष्ठंवशात्)+++ ।
य᳓क्ष्मं दोषण्य᳙म् अँ᳓साभ्यां
बाहु᳓भ्यां वि᳓वृहामि ते ।

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

आन्त्रे᳓भ्यस् ते गु᳓दाभ्यो
वनिष्ठो᳓र्+++(=वपाया)+++ हृ᳓दयाद् अ᳓धि ।
य᳓क्ष्मं म᳓तस्नाभ्यां+++(=फुप्फुसाभ्याम्?)+++ यक्नः᳓+++(=यकृतः)+++
प्लाशि᳓भ्यो+++(=पर्शुभ्यः)+++ वि᳓वृहामि ते ।

०४ ऊरुभ्यान्तेऽष्ठीवद्भ्याञ् जङ्घाभ्याम् ...{Loading}...

०४ ऊरुभ्यां ते ...{Loading}...

ऊरु᳓भ्यान् ते ऽष्ठीव᳓द्भ्यां+++(=ऊरुजान्वोः सन्धिभ्याम्)+++
ज᳓ङ्घाभ्यां प्र᳓पदाभ्याम् ।
य᳓क्ष्मँ श्रो᳓णीभ्यां भास᳓दाद्+++(=गुह्यप्रदेशात्)+++
ध्वँस᳓सो+++(=नाभेः/ गुदवलयात्)+++ वि᳓वृहामि ते ।

०५ मेहनाद्वलङ्करणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मेह॑नाद्+++(=प्रजननात्)+++ वल॒+++(न)+++ङ्+++(=वशङ्)+++कर॑णा॒ल्
लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मँ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०५ मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मे᳓हनाद् वनंक᳓रणाल्
लो᳓मभ्यस् ते नखे᳓भियः
य᳓क्ष्मं स᳓र्वस्माद् आत्म᳓नस्
त᳓म् इदं᳓ वि᳓ वृहामि ते

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातम् ...{Loading}...

अङ्गा॑द्-अङ्गा॒ल् लोम्नो॑-लोम्नो
जा॒तं पर्व॑णि-पर्वणि ।
यक्ष्मँ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातं ...{Loading}...

अ᳓ङ्गाद्-अङ्गाल् लो᳓म्नो-लोम्नो
जात᳓म् प᳓र्वणि-पर्वणि
य᳓क्ष्मं स᳓र्वस्माद् आत्म᳓नस्
त᳓म् इदं᳓ वि᳓ वृहामि ते