०१ उदसौ सूर्यो ...{Loading}...
उद् अ॒सौ सूर्यो॑ अगा॒द्
उद् अ॒यं मा॑म॒को भगः॑ ।
अ॒हन् तद् विद्व॒ला+++(=विदुषी)+++ प॑ति॒म्
अभ्य॑साक्षि+++(=अभि+असहे)+++ विषास॒हिः+++(=विशषेण सहमाना)+++ ।
०१ उदसौ सूर्यो ...{Loading}...
मूलम्
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।
अ॒हन्तद्विद्व॒लाप॑ति॒मभ्य॑साक्षि विषास॒हिः ।
हरदत्तः
सपत्नीबाधनार्थमुत्तरेणानुवाकेन अहरहरादित्यमुपतिष्ठते - उदसौ सूर्य इति ॥ असौ सूर्यः उदगात् । तमनु मामकः मम स्वभूतः भगः सौभाग्यं उपस्थेन्द्रियं वा । उच्छब्दस्य पुनः श्रुतेः अगात् इत्यपेक्षते । यथायं सूर्यः प्रवर्धमानः उदेति एवं मम भगोपि उदेत्वित्यर्थः । तत् तस्मात्कारणात् अहं विद्वला वेदनं वित् तद्वती अनया विद्यया तद्वती पतिं अभ्यसाक्षि सहेरेतद्रूपम् । अभिभूतवत्यस्मि वशीकृतवत्यस्मि । विषासहिः विशषेणाभिभवित्री ।
०२ अहङ् केतुरहम् ...{Loading}...
अ॒हं के॒तुर् अ॒हं मू॒र्धा
ऽहम् उ॒ग्रा वि॒वाच॑नी+++(की)+++ ।
ममेद् अनु॒ क्रतुं॒ पति॑स्
सेहा॒नाया॑+++(=सहमायना)+++ उ॒वा+++(पा)+++च॑रेत् ।
०२ अहङ् केतुरहम् ...{Loading}...
मूलम्
अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी ।
ममेदनु॒ क्रतुं॒ पति॑स्सेहा॒नाया॑ उ॒वाच॑रेत् ।
हरदत्तः
अहमिति ॥ अहं केतुः अहमेव उभयोरपि वंशयोः केतु-स्थानीया, अहमेव मूर्धा मूर्धस्थानीया, अहमुग्रा अनभिभवनीया विवाचनी विवाचनं निर्णयः तस्य कारयित्री । किञ्च - ममेत् ममैव क्रतुं कर्म प्रज्ञानं वा पतिः अनूवाचरेत् छान्दसो वकारः । उपाचरेत् तथैव बह्वृचः पठन्ति । अनुतिष्ठतु । कीदृश्याः? सेहा - नायाः । लिटः कानचि रूपमेतत् । अभिभूतवत्याः अभिभवन्त्या वा यथा मया ज्ञातं यथा वा मया कृतं तथैव पतिरपि करोत्वित्यर्थः ॥
०३ मम पुत्राश्शत्रुहणोऽथो ...{Loading}...
मम॑ पु॒त्राश् श॑त्रु॒हणो
ऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम् अ॑स्मि॒ सञ्ज॑या॒
पत्यु॑र् मे॒ +++(श्लाघा)+++श्लोक॑ उत्त॒मः ।+++(५)+++
०३ मम पुत्राश्शत्रुहणोऽथो ...{Loading}...
मूलम्
मम॑ पु॒त्राश्श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम॑स्मि॒ सञ्ज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः ।
हरदत्तः
ममेति ॥ मम पुत्रा शत्रुहणः शत्रूणां हन्तारो भवन्तु । अथो मे दुहिता च विराट् विराजमाना भवतु । उत अपि च अहमस्मि लोडर्थे लट्, असानि सञ्चया सम्यग्जेत्री सपत्नीनां तथा पत्युः, सप्तम्यर्थे षष्ठी पत्यौ, तथैव बह्वृचाः पठन्ति श्लोकः यशश्श्लाघा उत्तमोस्तु पतिरपि मामेव श्लाघतामित्यर्थः ॥
०४ येनेन्द्रो हविषा ...{Loading}...
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य्
अ॑भवद् दि॒व्य् उ॑त्त॒मः ।
अ॒हन् तद् अ॑क्रि+++(=अकृषि)+++
देवा असप॒त्ना किला॑ऽभवम् ।
०४ येनेन्द्रो हविषा ...{Loading}...
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥
०४ येनेन्द्रो हविषा ...{Loading}...
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥
०४ येनेन्द्रो हविषा ...{Loading}...
मूलम्
येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः ।
अ॒हन्तद॑क्रि देवा असप॒त्ना किला॑भवम् ।
हरदत्तः
येनेन्द्र इति ॥ इन्द्रः येन हविषा कृती कृतकृत्यः अभवत् दिवि च उत्तमः अभवत् । अहमपि तत् हविः अक्रि करोतेर्लुडिं मन्त्रे घस इत्यादिसूत्रेण च्लेर्लुकि रूपं अकृषि । हे देवाः । ततश्च असपत्ना किल अभवम्, किल प्रसिद्धौ ॥
०५ असपत्ना सपत्निघ्नी ...{Loading}...
अ॒स॒प॒त्ना स॑पत्नि॒घ्नी
जय॑न्त्य् अभि॒भूव॑री ।
आवि॑त्सि॒+++(=अलभे)+++ सर्वा॑सा॒ꣳ॒ +++(सपत्नीनां)+++ राधो॒
वर्चो॒ अस्थे॑यसाम्+++(=अस्थिराणाम्)+++ इव ।
०५ असपत्ना सपत्निघ्नी ...{Loading}...
मूलम्
अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑री ।
आवि॑त्सि॒ सर्वा॑सा॒ꣳ॒ राधो॒ वर्चो॒ अस्थे॑यसामिव ।
हरदत्तः
असपत्नेति ॥ असपत्नाः अप्रतिपक्षा सपत्निघ्नी छान्दसं हस्वस्त्वम्, सपत्नीनां हन्त्री जयन्ती जयशीला अभिभूवरीः भवतेः क्वनिपि वनो रुच, अभिभवनशीला अवित्सि आच्छिद्य लब्धवत्यस्मि सर्वासां सपत्नीनां राधः धनं वर्चः कान्ति च अस्थेयसामिव स्थेयांसः स्थिरतराः ततोऽन्ये अस्थेयांसः तेषां धनं यथान्ये हरन्ति तद्वत् ॥
०६ समजैषमिमा अहम् ...{Loading}...
सम॑जैषम् इ॒मा अ॒हꣳ
स॒पत्नी॑र् अभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑
वि॒राजा॑मि॒ धन॑स्य च ॥ (17)
०६ समजैषमिमा अहम् ...{Loading}...
मूलम्
सम॑जैषमि॒मा अ॒हꣳ स॒पत्नी॑रभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ॥ (१७)
हरदत्तः
समिति ॥ इमाः सपत्नीः अहं समजैषं सञ्जयेयं अभिभूवरीः छान्दसः सुलोपाभावः सुमङ्गलीरियम् इतिवत् । अभिभूवर्यहं अभिभूवरी सपत्नीर्वा यथा सञ्जयेयं, तथा सति अहं अस्य वीरस्य पत्युः धनस्य च विराजामि ईश्वरा भवामि ॥
इति श्रीहरदत्तविरचिते एकाग्निकाण्डमन्त्रव्याख्याने सप्तदशः खण्डः