समिदाधानम्
इमँ᳓ स्तो᳓मम् अ᳓र्हते+++(=स्तुत्यर्हाय)+++ जात᳓वेदसे
+++(यथा तक्षा!)+++ र᳓थम् इव सं᳓महेमा मनीष᳓या+++(=बुद्ध्या)+++ ।+++(४)+++
भद्रा᳓ हि᳓ नः प्र᳓मतिर् अस्य +++(अग्नेः)+++ सँस᳓द्य्
अ᳓ग्ने सख्ये᳙ मा᳓ रिषामा वयं᳓ त᳓व ।+++(५)+++
क्षौरकर्म
+++(क्षुराभिमन्त्रणम्)+++
त्र्यायुषं᳓+++(=कौमारयौवनस्थाविराणि)+++ जम᳓दग्नेः
कश्य᳓पस्य त्र्य्-आयुष᳓म् ।
य᳓द् देवा᳓नां त्र्य्-आयुष᳓न्
त᳓न्मे अस्तु त्र्य्-आयुष᳓म् ।+++(५)+++
+++(क्षुरं वप्त्रे प्रयच्छति)+++
शिवो᳓ ना᳓मासि,
स्व᳓धितिस्+++(=परशुः, वज्रः)+++ ते पिता᳓।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
न᳓मस् ते अस्तु।
मा᳓ मा हिँसीः ।
०१ उष्णेन वायवुदकेनेह्यदितिः …{Loading}…
+++(उष्णा आपः शीतास्वानयति)+++ उष्णे᳓न वायव् उदके᳓ने᳓ह्य्,
अ᳓दितिः के᳓शान् वपतु ।
०२ आप उन्दन्तु …{Loading}…
+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आ᳓प उन्दन्तु जीव᳓से
दीर्घायुत्वा᳓य व᳓र्चसे ।
ज्यो᳓क् च सू᳓र्यं दृशे᳓ ।
०३ येनावपत्सविता क्षुरेण …{Loading}…
+++(प्राच्यान्दिशि)+++ ये᳓ना᳓वपत् सविता᳓ क्षुरे᳓ण
सो᳓मस्य रा᳓ज्ञो व᳓रुणस्य विद्वा᳓न् ।
ते᳓न ब्रह्माणो! वपतेद᳓म् अस्या᳓-
ऽऽयुष्माञ् ज᳓रदष्टिर् य᳓था᳓ ऽसद् अय᳓म्
असौ᳓ +++(←अत्रोहः)+++।
०४ येन पूषा …{Loading}…
+++(दक्षिणतः)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।
०५ येन भूयश्चरात्ययञ्ज्योक्च …{Loading}…
+++(पश्चात्)+++ ये᳓न भू᳓यश् च᳓रात्य् अय᳓ञ्,
ज्यो᳓क् च प᳓श्याति सू᳓र्यम् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।
०६ येन पूषा …{Loading}…
+++(उत्तरे)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓न ते वपाम्य् असाव्+++(←अत्रोहः)+++
आ᳓युषा व᳓र्चसा य᳓था ज्यो᳓क् सुम᳓ना अ᳓साः ।
०७ यत्क्षुरेण मर्चयता …{Loading}…
+++(नापितम् अनुमन्त्रयति-)+++ य᳓त् क्षुरे᳓ण मर्च᳓यता +++(=तीक्ष्णेन)+++
सुपेश᳓सा व᳓प्त्रा व᳓पसि के᳓शान् ।
शु᳓न्धि शि᳓रो, मा᳓स्या᳓युः प्र᳓मोषीः ।
०८ उप्त्वाय केशान् …{Loading}…
उप्त्वा᳓स्य के᳓शान् व᳓रुणस्य रा᳓ज्ञो,
बृ᳓हस्प᳓तिस् सविता᳓ सो᳓मो अग्निः᳓ ।
ते᳓भ्यो +++(=केशेभ्यः)+++ निधा᳓नं बहुधा᳓ ऽन्वविन्दन्न्
अन्तरा᳓ द्या᳓वापृथिवी᳓ अप᳓स् सु᳓वः ॥
मेखलाया उपगूहनम्
इद᳓म् अह᳓म् अमु᳓ष्याऽऽमुष्यायण᳓स्य+++(←नामनिर्देशः)+++ पाप्मा᳓नम् उ᳓पगूहाम्य्,
उ᳓त्तरो ऽसौ᳓+++(←नामनिर्देशः)+++ द्विष᳓द्भ्यः ।+++(५)+++
स्नानम्
आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥
यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥
+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
य᳓स्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++
हि᳓रण्य-वर्णाश् शु᳓चयः पावका᳓
या᳓सु जातः᳓ कश्य᳓पो या᳓स्व् इ᳓न्द्रः ।
अग्नि᳓य्ँ या᳓ ग᳓र्भन् दधिरे᳓, वि᳓रूपास् -
ता᳓स् त आ᳓पश् शँ᳓ स्योना᳓ +++(=सुखा)+++ भवन्तु ।+++(५)+++
या᳓साँ रा᳓जा व᳓रुणो या᳓ति म᳓ध्ये,
सत्यानृते᳓ अवप᳓श्यञ् ज᳓नानाम् ।
मधुश्-चु᳓तश् शु᳓चयो याᳶ᳓ पावका᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।
या᳓सान् देवा᳓ दिवि᳓ कृण्व᳓न्ति भक्षय्ँ᳓ -
या᳓ अन्त᳓रिक्षे बहुधा᳓ भ᳓वन्ति ।
याᳶ᳓ पृथिवी᳓म् प᳓यसोन्द᳓न्ति शुक्रा᳓स् -
ता᳓ न आ᳓पश् शँ᳓ स्योना᳓ भवन्तु ।
दन्तधावनम्
+++(दन्ताः!)+++ अन्ना᳓द्याय व्यू᳙हध्वं+++(=पृथग्भवत)+++
दीर्घायु᳓र् अह᳓म् अन्नादो᳓ भूयासम् ।
सो᳓मो रा᳓जाऽय᳓म् आ᳓गमत्,
स᳓ मे मु᳓खं प्र᳓वेक्ष्यति भ᳓गेन सह᳓ व᳓र्चसा ।+++(र५)+++
वासः परिधत्ते
सो᳓मस्य तनू᳓र् असि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
तनु᳓वं मे पाहि।
स्वा᳓मा तनू᳓र् आ᳓विश +++(सोमस्य यथा)+++।+++(र५)+++
चन्दनलेपः
+++(देवताभ्यः चन्दनप्रदानम् - एताश्च अलङ्कारसमये पुरुषमुपसर्पन्ति)+++
न᳓मो ग्रहा᳓य चाभिग्रहा᳓य च ।
न᳓मश् शाकजञ्जभा᳓भ्याम् ।
न᳓मस् ता᳓भ्यो देव᳓ताभ्यो या᳓ अभिग्राहि᳓णीः ।
+++(उत्तरया आत्मानमनुलिम्पति)+++
अप्सर᳓स्सु यो᳓ गन्धो᳓
गन्धर्वे᳓षु च य᳓द् य᳓शः ।
दै᳓वो यो᳓ मानुषो᳓ गन्ध᳓स्
स᳓ मा गन्ध᳓स् सुरभि᳓र् जुषताम् ।
+++(सौवर्णे मणिं उदपात्रे परिप्लावयति)+++
इय᳓म् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओ᳓षधे+++(धीः)+++ त्रा᳓यमाणा
स᳓हमाना स᳓हस्वती ।
सा᳓ मा हि᳓रण्य-वर्चसं
ब्रह्मवर्चसि᳓नं मा करोतु ।
+++(ग्रीवास्वाबध्नाति)+++
अ᳓पाशो ऽस्य् - उ᳓रो मे मा᳓ सँ᳓शारीः+++(=हिंसीः)+++ ।
शिवो᳓ मो᳓पतिष्ठस्व - दीर्घायुत्वा᳓य शत᳓शारदाय ।
शतँ᳓ शर᳓द्भ्य आ᳓युषे व᳓र्चसे जीवा᳓त्वै+++(=जीवनाय जीवा᳓त्वै)+++ पु᳓ण्याय ।
dvitIya-vAsaH-paridhAnam
+++(नक्षत्रेषु)+++ रेव᳓तीस् त्वा व्य᳙क्ष्णन्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृ᳓त्तिकाश् चा᳓कृन्तँस् त्वा ।
धि᳓यो ऽवयन्न्, अ᳓व ग्ना᳓+++(=देवता)+++ अवृञ्जन्त्+++(=अच्छिन्दन्)+++
सह᳓स्रम् अ᳓न्ताँ+++(=दशासूत्राणि)+++ अभि᳓तो अयच्छन् ।
देवी᳓र् देवा᳓य +++(वस्त्र)+++परिधी᳓+++(धौ)+++ सवित्रे᳓ ।
मह᳓त् त᳓द् आसाम् अभवन् महित्वन᳓म्+++(=महत्वम्)+++ ।+++(र४)+++
या᳓ अ᳓कृन्तन्न् अ᳓वयन् या᳓ अ᳓तन्वत
या᳓श् च देवी᳓र् +++(वस्त्रस्य)+++ अ᳓न्तान् अभि᳓तो ऽददन्त+++(←दद् दाने)+++ ।
ता᳓स् त्वा देवी᳓र् जर᳓से सं᳓व्ययन्त्व्
आ᳓युष्मान् इदं᳓ प᳓रिधत्स्व वा᳓सः ।
प᳓रिधत्त धत्त वा᳓ससैनँ
शता᳓युषं कृणुत दीर्घ᳓म् आ᳓युः ।
बृ᳓हस्प᳓तिः प्रा᳓यच्छद् वा᳓स एत᳓त्
सो᳓माय रा᳓ज्ञे प᳓रिधातवा᳓ उ ।
प᳓रिधत्त धत्त वा᳓ससैनँ
शता᳓युषं कृणुत दीर्घ᳓म् आ᳓युः ।
बृ᳓हस्प᳓तिः प्रा᳓यच्छद् वा᳓स एत᳓त्
सो᳓माय रा᳓ज्ञे प᳓रिधातवा᳓ उ ।
जरां᳓ गच्छासि, प᳓रिधत्स्व वा᳓सो
भ᳓वा कृष्टीना᳓म्+++(=मनुष्याणां)+++ अभिशस्ति-पा᳓वा+++(ता)+++ ।
शत᳓ञ् च जीव शर᳓दस् सुव᳓र्चा
राय᳓श् च पो᳓षम् उ᳓प सं᳓व्ययस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।
दशायां प्रवर्तो प्रबध्य जुहोति
आयुष्यं᳙ वर्चस्यँ᳙ सुवी᳓र्यँ
राय᳓स्पो᳓षम् औ᳓द्भिद्यम्+++(→यशस्यम्)+++ ।
इदँ᳓ हि᳓रण्यं जै᳓त्र्याया᳓+++(=जयहेतवे)+++ऽविशतान् मा᳓म् ।
+++(हिरण्यवन्तो हि उच्चैर्वदन्ति→)+++ उच्चैर् वादि᳓ पृतनाजि᳓+++(त्)+++
सत्रा+++(=सत्य)+++साहं᳓ धनञ्जय᳓म् ।
स᳓र्वास् स᳓मृद्धीर् ऋ᳓द्धयो
हि᳓रण्ये ऽस्मि᳓न्त् समा᳓हिताः ।
शुन᳓म्+++(=सुखम्)+++ अहँ᳓ हि᳓रण्यस्य
पितु᳓र् इव ना᳓म +अग्रभैषम्+++(=अग्रहीषं)+++ ।
तं᳓ मा हि᳓रण्य-वर्चसं
पूरु᳓षु+++(=बहुषु)+++ प्रियं᳓ कुरु ।
प्रियं᳓ मा देवे᳓षु कुरु
प्रियं᳓ मा ब्र᳓ह्मणे कुरु ।
प्रियं᳓ विश्ये᳙षु शूद्रे᳓षु
प्रियँ᳓ रा᳓जसु मा कुरु ।+++(५)+++
या᳓ तिर᳓श्ची निष᳓द्यसे+++(=शेषे)+++
ऽहं᳓ विध᳓रणी+++(=विधारयित्री)+++ इ᳓ति ।
तां᳓ त्वा घृत᳓स्य धा᳓रया
य᳓जे सँरा᳓धनीम्+++(→भूमिम् / मध्यमावाक्)+++ अह᳓म् ।
सँरा᳓धन्यै देव्यै᳓ स्वा᳓हा ।
प्रसा᳓धन्यै देव्यै᳓ स्वा᳓हा ।
सम्रा᳓जञ् च विरा᳓जञ् चा-
ऽभिश्री᳓र् या᳓ च नो गृहे᳓ ।
लक्ष्मी᳓ राष्ट्र᳓स्य या᳓ मु᳓खे
त᳓या मा सँ᳓सृजामसि+++(→संसृजामि)+++ ।
स्रग्बन्धनम्
शु᳓भिके +++(स्रक्)+++ शि᳓र आ᳓रोह
शोभ᳓यन्ती मु᳓खं म᳓म ।
मु᳓खँ हि+++(→स्वरः??)+++ म᳓म शोभय
भू᳓याँसञ्च भ᳓गं कुरु ।
या᳓म् +++(स्रजं)+++ आ᳓हरज् जम᳓दग्निश्
श्रद्धा᳓यै कामायान्यै᳓+++(=काममानायै)+++ ।
इमा᳓न् ता᳓म् अ᳓पि नह्ये
ऽहं᳓ भ᳓गेन सह᳓ व᳓र्चसा ।
आञ्जनमन्त्रः
+++(हे अक्षिणी-)+++ य᳓दा᳓ञ्जनं त्रैककुदं᳓+++(=त्रिककुत्पर्वतभवं)+++
जातँ᳓ हिम᳓वत उप᳓रि ।
ते᳓न वाम् आञ्जे ते᳓जसे
व᳓र्चसे भ᳓गाय च ॥ (8)
म᳓यि पर्वत-पूरुष᳓म् ।
म᳓यि पर्वत-वर्चस᳓म् ।
म᳓यि पर्वत-भेषज᳓म् ।
म᳓यि पर्वतायुष᳓म् ।
आदर्शावेक्षणमन्त्रः
य᳓न् मे व᳓र्चः परा᳓गतम् +++(आदर्शतलस्थितं)+++
आत्मा᳓नम् उपति᳓ष्ठतु ।
इद᳓न् त᳓त् पु᳓नर् आ᳓ददे
दीर्घायुत्वा᳓य व᳓र्चसे ।
उपानद्ग्रहणमन्त्रः
प्रतिष्ठे᳓ स्थो देव᳓तानाम्।
मा᳓ मा +++(नवपादरक्ष-व्रणोत्पादनेन)+++ स᳓न्ताप्तम् ।+++(४)+++
छत्रधारणमन्त्रः
प्रजा᳓पतेश् श᳓रणम् असि।
ब्र᳓ह्मणश् छदि᳓र्, विश्व-जन᳓स्य छाया᳓ऽसि।
सर्व᳓तो मा पाहि ।
दण्डादानमन्त्रः
देव᳓स्य त्वा सवितुः᳓ प्रसवे᳙+++(=अनुज्ञायां)+++
ऽश्वि᳓नोर्बाहु᳓भ्यां पूष्णो᳓ ह᳓स्ताभ्याम्
आ᳓ ददे।
द्विषतो᳓ वधा᳓ये᳓न्द्रस्य व᳓ज्रोऽसि।+++(५)+++
वा᳓र्त्रघ्नश् +++(त्वं)+++ श᳓र्म मे भव।
य᳓त् पाप᳓न् त᳓न् नि᳓वारय ।
दिशाम् उपस्थानम्
दे᳓वीः षड्-उर्वीर्! उरु᳓ णᳵ कृणोत
वि᳓श्वे देवास! इह᳓ वीरयध्वम् ।
नक्षत्रणां चन्द्रमसश् चोपस्थानम्
मा᳓ हास्महि प्रज᳓या मा᳓ तनू᳓भिर्
मा᳓ रधाम द्विषते᳓ सोम राजन् ।