२

चौलम्

शिरस उन्दनम्

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र।

+++(उष्णा आपः शीतास्वानयति)+++ उष्णे᳓न वायव् उदके᳓ने᳓ह्य्,
अ᳓दितिः के᳓शान् वपतु ।

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आ᳓प उन्दन्तु जीव᳓से
दीर्घायुत्वा᳓य व᳓र्चसे ।
ज्यो᳓क् च सू᳓र्यं दृशे᳓ ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

+++(प्राच्यान्दिशि)+++ ये᳓ना᳓वपत् सविता᳓ क्षुरे᳓ण
सो᳓मस्य रा᳓ज्ञो व᳓रुणस्य विद्वा᳓न् ।
ते᳓न ब्रह्माणो! वपतेद᳓म् अस्या᳓-
ऽऽयुष्माञ् ज᳓रदष्टिर् य᳓था᳓ ऽसद् अय᳓म्
असौ᳓ +++(←अत्रोहः)+++।

+++(दक्षिणतः)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

+++(पश्चात्)+++ ये᳓न भू᳓यश् च᳓रात्य् अय᳓ञ्,
ज्यो᳓क् च प᳓श्याति सू᳓र्यम् ।
ते᳓नास्या᳓ऽऽयुषे वप
सौ᳓श्लोक्याय स्वस्त᳓ये ।

+++(उत्तरे)+++ ये᳓न पूषा᳓ बृ᳓हस्प᳓तेर् अग्ने᳓र्
इ᳓न्द्रस्य चा᳓ऽऽयुषे᳓ ऽवपत् ।
ते᳓न ते वपाम्य् असाव्+++(←अत्रोहः)+++
आ᳓युषा व᳓र्चसा य᳓था ज्यो᳓क् सुम᳓ना अ᳓साः ।

क्षुर-शोधन-मन्त्रणम्

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

+++(नापितम् अनुमन्त्रयति-)+++ य᳓त् क्षुरे᳓ण मर्च᳓यता +++(=तीक्ष्णेन)+++
सुपेश᳓सा व᳓प्त्रा व᳓पसि के᳓शान् ।
शु᳓न्धि शि᳓रो, मा᳓स्या᳓युः प्र᳓मोषीः ।

केश-दर्भ-निक्षेपः

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

उप्त्वा᳓स्य के᳓शान् व᳓रुणस्य रा᳓ज्ञो,
बृ᳓हस्प᳓तिस् सविता᳓ सो᳓मो अग्निः᳓ ।
ते᳓भ्यो +++(=केशेभ्यः)+++ निधा᳓नं बहुधा᳓ ऽन्वविन्दन्न्
अन्तरा᳓ द्या᳓वापृथिवी᳓ अप᳓स् सु᳓वः ॥

गृहम् …{Loading}…

हरदत्तो ऽत्र ।

निर्माणम्

+++(“काम्यम् । अतोऽक्रियायां न दोषः ।” इति हरदत्तः।)+++

दक्षिणा-प्रत्यक्+++(=पश्चिम)+++-प्रवणम्+++(=निम्नम्)+++ अगरावकाशम् +++(खनित्रेण)+++ उद्धत्य, पालाशेन शमीमयेन वोदूहेनैतामेव दिशम् उत्तरया+++(=“यद्भूमेः क्रूर"मित्येतया)+++ +उदूहति ॥

य᳓द् भू᳓मेः क्रूरं᳓ त᳓द् इतो᳓ हरामि,
प᳓राचीन् नि᳓रृतिं नि᳓र्वाहयामि ।
इदँ᳓ श्रे᳓यो ऽवसा᳓नम्+++(=स्थानम्)+++ आ᳓गन्म+++(=आगतवन्तो)+++ देवा,
गो᳓मद् अ᳓श्वावद् इद᳓म् अस्तु प्र᳓ भू᳓म ।

एवं त्रिः ॥


स्थूणावधानम्

+++(समं यथा तथा)+++ कॢप्तम् उत्तरय+++(“स्योना पृथिवी”)+++ +अभिमृश्य
प्रदक्षिणं स्थूणागर्तान् खानयित्वा+++(नकारस्छान्दसः)+++
ऽभ्यन्तरं+++(=बहिरारभ्य मध्ये यथा समाप्यत इति हरदत्तः, विपरीतम् इति सुदर्शनसूरिः)+++ पाँसून् उदुप्य +++(=उद्धत्य)+++

०२ स्योना पृथिवि …{Loading}…

स्योना᳓+++(=सुखरूपा)+++ पृथिवि भव+
अनृक्षरा᳓+++(=कण्टकादिरहिता)+++ निवे᳓शनी ।
य᳓च्छा नश् श᳓र्म सप्र᳓थाः+++(=सकीर्तिः)+++ ।

मन्त्रः - द्वारस्थूणामन्त्रणम्

उत्तराभ्यां+++(=इहैव तिष्ठे)+++ दक्षिणं द्वारस्थूणाम् अवदधाति ३


इहै᳓व᳓ तिष्ठ नि᳓मिता+++(=निखाता)+++
+++(तक्षकृत-)+++ति᳓ल्वला+++(=तिलकवती)+++ स्याद् इ᳓रा+++(=अन्न)+++वती ।
म᳓ध्ये ता᳓ल्प्यस्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठान्+++(त्)+++
मा᳓ त्वा प्रा᳓पन्न् अघाय᳓वः ।

आ᳓ त्वा कुमार᳓स् त᳓रुण
आ᳓ वत्सो᳓ ज᳓गता सह᳓ ।
आ᳓ त्वा परिस्रु᳓तः+++(=सुरायाः → घृतस्य)+++ कुम्भा᳓
आ᳓ दध्नः᳓ क᳓लशीर् +++(मन्थनार्थम्)+++ अयन् ।

__________________

एवमितराम् +++(सव्य-द्वारस्थूणाम्)+++४

वंशाधानम्

यथाखातम् इतरा +++(वंशस्तम्भान्)+++ अन्ववधाय
वँशम् आधीयमानम् उत्तरेण यजुषा +++(=“ऋतेन स्थूणौ”)+++ ऽभिमन्त्रयते ५

ऋते᳓न स्थू᳓णाव्+++(=स्तम्भम्)+++ अधि᳓रोह वँशो᳓
ऽग्रो᳓ विरा᳓जन्न् अ᳓पसेध शत्रू᳓न् ।

सिद्धागाराभिमन्त्रणम्

+++(अगारम्)+++ सम्मितम्+++(=संकॢप्तं)+++ उत्तरैर्+++(=“ब्रह्म च ते क्षत्रम्”)+++ यथालिङ्गम् +++(अभिमन्त्रयते)+++६

ब्र᳓ह्म च ते क्षत्र᳓ञ् च
पू᳓र्वे स्थू᳓णे अभि᳓रक्षतु ।

यज्ञ᳓श् च द᳓क्षिणाश् च
द᳓क्षिणे [स्थू᳓णे अभि᳓रक्षतु]।

इष᳓श् चोर्ज᳓श् +++(शारदौ मासौ)+++ च
+अ᳓परे [स्थू᳓णे अभि᳓रक्षतु]।

मित्र᳓श् च व᳓रुणश् च
+उ᳓त्तरे [स्थू᳓णे अभि᳓रक्षतु]।

धर्म᳓स् ते स्थू᳓णा-राजः

श्री᳓स् ते स्तू᳓पः+++(=पृष्ठवंशः)+++ ।+++(५)+++

प्रवेशविधिः

अग्निस्थापनम्

उद्दीपनम्

पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य

उद्ध्रिय᳓माण उ᳓द्धर पाप्म᳓नो मा
य᳓द् अ᳓विद्वान् य᳓च् च विद्वाँ᳓श् चका᳓र ।
+++(रात्रौ प्रवेशे)+++ अ᳓ह्ना य᳓द् ए᳓नः कृत᳓म् अस्ति पापँ᳓
+++(अहनि प्रवेशे)+++ रा᳓त्र्या य᳓द् ए᳓नः कृत᳓म् अस्ति पापँ᳓
स᳓र्वस्मान् मो᳓द्धृतो᳓ +++(त्वम्)+++ मुञ्च त᳓स्मात् ।


अगारप्रतिपादनम्

उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य

इ᳓न्द्रस्य +++(मम)+++ गृहा᳓ व᳓सुमन्तो वरूथि᳓नस्+++(=गृह[+अवयवा])+++ -
ता᳓न् अहँ᳓ सुम᳓नसः प्र᳓पद्ये ।


प्रतिष्ठापनम्

उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७

अमृताहुति᳓म् अमृ᳓तायाञ् जुहोम्य्+++(→स्थापयामि)+++
अग्निं᳓ पृथिव्या᳓म् अमृ᳓तस्य जि᳓त्यै ।
त᳓या ऽनन्तं᳓ का᳓मम् अह᳓ञ् जयानि
प्रजा᳓पतिर् यं᳓ प्रथमो᳓ जिगा᳓य
+अग्नि᳓म् अग्नौ᳓+++(अग्नौ→पृथिव्यां)+++ स्वा᳓हा ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++

उदधानायतनम्

उदधानप्रतिष्ठा

तस्माद् दक्षिणम् उदधानायतनं भवति ८

तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९

अ᳓न्नपते᳓ ऽन्नस्य नो देहि।
अनमीव᳓स्य+++(=आरोग्यकरस्य)+++ शुष्मि᳓णः+++(=बलिनः)+++ ।
प्र᳓प्र दाता᳓रन् तारिषः।
ऊ᳓र्जन्+++(=अन्नं बलं वा)+++ नो धेहि द्विप᳓दे च᳓तुष्पदे ।

उदकुम्भानयनम्

तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०

अ᳓रिष्टा अस्मा᳓कं वीरा᳓स् सन्तु
मा᳓ प᳓रा सेचि मे ध᳓नम् ।+++(र४)+++

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

भू᳓मिर् भू᳓मिम् अगान्
माता᳓ मात᳓रम् अ᳓प्य् अगात् ।
भूया᳓स्म पुत्रैः᳓ पशु᳓भिर्
यो᳓ नो द्वे᳓ष्टि स᳓ भिद्यताम् ।+++(र५)+++

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

भू᳓मिर् भू᳓मिम् अगान्
माता᳓ मात᳓रम् अ᳓प्य् अगात् ।
भूया᳓स्म पुत्रैः᳓ पशु᳓भिर्
यो᳓ नो द्वे᳓ष्टि स᳓ भिद्यताम् ।+++(र५)+++

होमः

अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२

वा᳓स्तोष्पते प्र᳓ति जानीह्य् अस्मा᳓न्त्
स्व्-आवेशो᳓+++(=सुगमो)+++ अनमीवो᳓+++(=आरोग्यकरः)+++ भवा नः ।
य᳓त् त्वे᳓महे प्र᳓ति त᳓न् नो जुषस्व
शं᳓ न एधि द्विप᳓दे शं᳓ च᳓तुष्पदे ।

वा᳓स्तोष्पते शग्म᳓या+++(=सुखया)+++ सँस᳓दा ते
सक्षीम᳓हि+++(←सच समवाये)+++ रण्व᳓या+++(=रममाणया)+++ गातुम᳓त्या+++(=गामिन्या)+++) ।
आ᳓वः क्षे᳓म+++(य्=लब्धस्य रक्षणे)+++ उत᳓ यो᳓गे+++(=अलब्धस्य लाभे)+++ व᳓रं नो
+++(हे विश्वेदेवाः)+++ यूय᳓म् पात स्वस्ति᳓भिः स᳓दा नः ।

वा᳓स्तोष्पते प्रत᳓रणो न एधि
गो᳓भिर् अ᳓श्वेभिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अज᳓रासस् ते सख्ये᳓ स्याम
पिते᳓व पुत्रा᳓न् प्र᳓ति नो जुषस्व ।

२१ अमीवहा वास्तोष्पते …{Loading}…

अमीवहा᳓+++(=व्याधिहा)+++ वास्तोष्पते
वि᳓श्वा रूपा᳓ण्य् आ विश᳓न् ।
स᳓खा सुशे᳓व+++(फ)+++ एधि नः ।

उदकुम्भेन परिषेचनम्

परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य

शिवँ᳓+++(शिवम्)+++, शिव᳓म् ॥

अग्न्यन्तरानयनम्

+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++

ब्राह्मणभोजनम्

ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३

ग्रहगृहीतावोक्षणम् …{Loading}…

श्वग्रह-गृहीतस्यावोक्षणमन्त्राः

कूर्कुर᳓स्+++(=श्वा)+++ सुकूर्कुरः᳓
कूर्कुरो᳓+++(=श्वा)+++ वाल-बन्धनः᳓ ।
उप᳓रिष्टाद् य᳓द् ए᳓जाय+++(=आगच्छति)+++
+++(कुतः - )+++ तृती᳓यस्या इतो᳓ दिवः᳓ ।

औ᳓लब इ᳓त् त᳓म् उ᳓पाह्वयथ-
अर्जी᳓न्+++(=ऋजेः पुत्रान्)+++ - छ्याम᳓श् शब᳓लः ।
अधो᳓राम+++(=अधोभागे कृष्णवर्णः)+++ उलुंबल᳓स्+++(=उरुबलः)+++ सारमेयो᳓
ह धा᳓वति समुद्र᳓म्+++(→अन्तरिक्षं)+++ अवचा᳓कशत्+++(=पश्यन्)+++ ।

बिभ्र᳓न् नि᳓ष्कञ् च रुक्म᳓ञ् च
शु᳓नाम् अ᳓ग्रँ सुबी+++(वी)+++रिणः᳓ +++(प्रधानश्वा)+++ ।
सु᳓बी+++(वी)+++रिण! +++(वि)+++सृ᳓ज+++(→त्यज)+++ सृ᳓ज शु᳓नक
सृ᳓जै᳓कव्रात्य+++(=एकगण्य)+++ सृ᳓जच् छ᳓त्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

त᳓त् सत्यं᳓ य᳓त् - त्वे᳓न्द्रो ऽब्रवीद् “गाः᳓ +++(अपहृताः)+++ स्पाशयस्वे᳓“ति+++(←स्पश बाधनस्पर्शनयोः)+++।
ता᳓स् त्वँ᳓ स्पाशयित्वा᳓ ऽऽगच्छस्,
त᳓+++(त्व)+++न् त्वा ऽब्रवीद् +++(इन्द्रः-)+++
“अ᳓विद+++(ः)+++ हा᳓?” इ᳓त्य्,
“अ᳓विदँ ही᳓“ति +++(त्वमवदः)+++,
“व᳓रं वृणीष्वे᳓“ति
“कुमार᳓म् एवा᳓हं᳓ व᳓रं वृण” इ᳓त्य् अब्रवीः ।
विगृ᳓ह्य बाहू᳓ प्लव᳓से
द्या᳓म् अवचा᳓कशत्+++(=पश्यन्)+++ ।
+++(तथेमम् बाधसे।)+++

बिभ्र᳓न् नि᳓ष्कञ् च रुक्म᳓ञ् च
शु᳓नाम् अ᳓ग्रँ सुबी+++(वी)+++रिणः᳓ +++(प्रधानश्वा)+++ ।
सु᳓बी+++(वी)+++रिण! +++(वि)+++सृ᳓ज+++(→त्यज)+++ सृ᳓ज शु᳓नक
सृ᳓जै᳓कव्रात्य+++(=एकगण्य)+++ सृ᳓जच् छ᳓त्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

त᳓त् सत्यं᳓ य᳓त् ते सरमा᳓
माता᳓ लो᳓हितः पिता᳓ ।
अमी᳓ ए᳓के स-रस्यका᳓ अवधा᳓वत
तृती᳓यस्या इतो᳓ दिवः᳓ ।

ते᳓कश् च ससरम-तण्ड᳓श् च
तू᳓लश् च वि᳓तूलश् च
अ᳓र्जुनश् च लो᳓हितश् च +++(यूयम्)+++।
दुला᳓ ह ना᳓म वो माता᳓।
म᳓न्थाकको᳓+++(→स्वरः??)+++ ह वः पिता᳓ ।
स᳓न्+++(→हन्ति)+++ त᳓क्षा हन्ति चक्री᳓ वो, +++(अतो)+++ न᳓ सी᳓सरीदत+++(=उपसर्पत)+++ ।+++(र४)+++

छ᳓द् अपे᳓हि सीसरम सारमेय।
न᳓मस् ते अस्तु सीसर ।
स᳓म् अ᳓श्वा +++(→अश्वा)+++ वृ᳓षणः+++(=वर्षणसमर्थाः बलवन्तः)+++ पदो᳓ न᳓+++(=इव)+++ सी᳓सरीदत+++(=अपसर्पत)+++ ।

छ᳓द् अपे᳓हि सीसरम सारमेय।
न᳓मस्ते अस्तु सीसर ।
श्वा᳓नम् इ᳓च् छ्वा᳓ ऽदन्,
न᳓ पु᳓रुषञ्+++(पुरुषं)+++ छ᳓त् ।+++(र५)+++

शङ्खग्रह-गृहीतस्याभिमन्त्रणम्

एते᳓ ते प्र᳓तिदृश्येते
समान᳓वसने उभे᳓ +++(मातरौ)+++।
ते᳓ अहँ᳓ सार᳓+++(मे)+++येण
मु᳓सलेना᳓ ऽवहन्म्य् उलू᳓खले ।

हत᳓श् शङ्खो᳓ हत᳓श् शङ्खपिता᳓
हत᳓श् शङ्ख-कुतुर्वकः᳓+++(=कुहिंसकः)+++ ।
अ᳓प्य् एषाँ स्थप᳓तिर्+++(=स्वामी)+++ हतः᳓ ।

उदकुम्भेन शिरस्तोऽवनयति

ऋ᳓षिर् बोधः᳓+++(=बोधायनगोत्रकृत्)+++ प्र᳓बोधस्
स्व᳓प्नो मातरि᳓श्वा ।
ते᳓ ते प्राणा᳓न्त् स्परिष्य᳓न्ति+++(=पालयिष्यन्ति)+++
मा᳓ भैषीर् न᳓ मरिष्य᳓सि ।

सर्पबलिः …{Loading}…

उपक्रमः

श्रावण्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः ५

+++(श्रावण्यै पौर्णमास्यै स्वाहा इति श्रावण्याम्।)+++

किंशुकहोमः

पार्वणवद् आज्यभागान्ते स्थालीपाकाद् +धुत्वा
ऽञ्जलिनोत्तरैः प्रतिमन्त्रं +++(३)+++ किंशुकानि जुहोति ६

जग्धो᳓ म᳓शको, जग्धा᳓ वि᳓तृष्टिर्, जग्धो᳓ व्यद्ध्वरः᳓ स्वा᳓हा ।

जग्धो᳓ व्यद्ध्वरो᳓, जग्धो᳓ म᳓शको, जग्धा᳓ वि᳓तृष्टिस् स्वा᳓हा ।

जग्धा᳓ वि᳓तृष्टिर्, जग्धो᳓ व्यद्ध्वरो᳓, जग्धो᳓ म᳓शकस् स्वा᳓हा ॥ +++(र५ विन्यासे ऽत्र सर्पाकृतिः)+++

+++(किंशुकानि → वसन्त एव सङ्गृहीतानि पलाश-पुष्पाणीति केचित्। केचित्— पलाशसदृशस्य कण्टकिनः mull murungai इत्यस्य पुष्पाणीति।
केचिद् अञ्जलिहोमा लाजहोमवद् यावदुक्तधर्माण एवेति।
)+++

समिद्धोमः

मन्त्राः

उत्तराभिस् तिसृभिर् आरग्वध-मय्यस् समिधः ७

इ᳓न्द्र जहि दन्दशू᳓कं
पक्षि᳓णं य᳓स् सरीसृपः᳓ ।
दंक्ष्य᳓न्तञ् च दश᳓न्तञ् च
स᳓र्वाँस् ता᳓न् इन्द्र जंभय+++(=स्तम्भय)+++ स्वा᳓हा ।

अप्सु᳓ जात स᳓रे वृद्ध
देवा᳓नाम् अ᳓पि हस्त्य ।
त्व᳓म् अग्न इन्द्र-प्रे᳓षितस्
स᳓ नो मा᳓ हिँसीः स्वा᳓हा ।

त्रा᳓णम् असि।
परित्रा᳓णम् असि।
परिधि᳓र् असि ।
अ᳓न्नेन मनुष्याँ᳙स् त्रायसे, तृ᳓णैः पशू᳓न्, गर्ते᳓न सर्पा᳓न्, यज्ञे᳓न देवा᳓न्त्, स्वध᳓या पितॄ᳓न्त् स्वा᳓हा ।

आज्याहुतिः

आज्याहुतीर् उत्तराः ८

+++(सर्पाधिपते!)+++ त᳓त् सत्यं᳓ य᳓त् ते ऽमावास्या᳙याञ् च पौर्णमास्या᳓ञ् च विषबलिँ᳓+++(←स्वरः शोधितः)+++ ह᳓रन्ति स᳓र्व उदर-सर्पि᳓णः
त᳓त् +++(बलिं)+++ ते प्रे᳓रते+++(=प्राप्नुवन्ति)+++, त्व᳓यि सं᳓विशन्ति।
त्व᳓यि नस् सत᳓स्+++(=आश्रितान्)+++, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++

न᳓मो अस्तु सर्पे᳓भ्यो
ये᳓ के᳓ च पृथिवी᳓म् अ᳓नु।
ये᳓ अन्त᳓रिक्षे ये᳓ दिवि᳓
ते᳓भ्यस् सर्पे᳓भ्यो न᳓मः॥

ये᳓ ऽदो᳓, रोचने᳓ दिवो᳓,
ये᳓ वा सू᳓र्यस्य रश्मि᳓षु ।
ये᳓षाम् अप्सु᳓ स᳓दः कृतं᳓
ते᳓भ्यः सर्पे᳓भ्यो न᳓मः ॥

या᳓ इ᳓षवो यातुधा᳓नानां
ये᳓ वा व᳓नस्प᳓तीँर् अ᳓नु ।
ये᳓ वाऽवटे᳓षु+++(→बिलेषु)+++ शे᳓रते
ते᳓भ्यः सर्पे᳓भ्यो न᳓मः ॥

उत्तराङ्गम्

+++(अञ्जलेर् दर्व्याश् च लेपस्यार्पणं कर्म स्थालीपाकवत्। किंशुकशेषादपि स्विष्टकृते समवदानम् ।)+++

जयादि प्रतिपद्यते ९

+++(“सौविष्टकृतं च स्थालीपाकादेव हुत्वा” इति हरदत्तः।)+++

परिषेचनान्तं कृत्वा

बलिनिर्वापः

बलिहरण-सङ्कल्पः

वाग्यतस् संभारान् आदाय प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
स्थण्डिलं कल्पयित्वा
तत्र प्राचीर् उदीचीश् च तिस्रस् तिस्रो लेखा लिखित्वा
+++(तासां समीपे )+++ ऽद्भिर् उपनिनीय +++(- सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।)+++
तासूत्तरया सक्तून्+++(=भृष्ठयवादिचूर्णानि)+++ निवपति +++(ताः सर्वा लेखाः यथा बलिर्व्याप्नुयात्)+++ १०

न᳓मो अस्तु सर्पे᳓भ्यो
ये᳓ पा᳓र्थिवा य᳓ आन्तरिक्ष्या᳙ ये᳓ दिव्या᳙ ये᳓ दिश्याः᳙ ।
+++(उपक्रमे)+++ ते᳓भ्य इमं᳓ बलिँ᳓ हरिष्यामि ।
+++(मार्गशीर्ष्यां तु)+++ ते᳓भ्य इमं᳓ बलि᳓म् अहार्षम् ।

तूष्णीं सम्पुष्का+++(=अक्षता)+++ धाना, लाजान्, आञ्जनाभ्यञ्जने, स्थगर+++(=गन्धविशेषः - betel?)+++ +उशीरम् +++(=Vettiver grass)+++ इति +++(६ द्रव्याणि)+++११

उत्तरैर् उपस्थायापः परिषिच्याप्रतीक्षस् +++(→ पृष्ठतो ऽप्रतीक्षमाणस्)+++ तूष्णीम् एत्य
“अपश्वेत पदेत्याभ्याम्” उद-कुम्भेन त्रिः प्रदक्षिणम् अन्तरतोऽगारं निवेशनं वा परिषिच्य

प्रत्येत्य गृहपरिषेचनमन्त्रौ
उपस्थानमन्त्राः

त᳓क्षक, वै᳓शालेय - धृत᳓राष्ट्रैरावतस् ते+++(←ते᳓)+++ जीवा᳓स्,
त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि ।

धृ᳓तराष्ट्रैरावत+++(→धृत᳓राष्ट्रैरावत)+++ त᳓क्षकस् ते+++(←ते᳓)+++ वैशालेयो᳓ जीवा᳓स् …।

अ᳓हिँसातिबल᳓स् ते जीवा᳓स् [त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि । ]
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

अ᳓तिबलाहिँस᳓स् ते जीवा᳓स् [त्व᳓यि नस् सत᳓स्, त्व᳓यि सद्भ्यो᳓ +++(सर्पेभ्यो)+++, वर्षा᳓भ्यो नः प᳓रिदेहि । ]
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

ये᳓ दन्दशू᳓काः पा᳓र्थिवास्-
ताँ᳓स् त्व᳓म् इतः᳓ परो᳓ ग᳓व्यूतिं नि᳓वेशय ।
स᳓न्ति वै᳓ नश् शफि᳓नस्,
स᳓न्ति दण्डि᳓नस्,
ते᳓ वो ने᳓द् +धिन᳓सान्,
न्ये᳓द् यूय᳓म् अस्मा᳓न् हिन᳓सात ।

+++(प्रतिदिशम् मन्त्राः।)+++

समी᳓ची ना᳓मासि प्रा᳓ची दि᳓क्।
त᳓स्यास् ते ऽग्नि᳓र् अ᳓धिपतिर्, असितो᳓ रक्षिता᳓।

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

ओजस्वि᳓नी ना᳓मासि दक्षिणा᳓ दि᳓क्।
त᳓स्यास् त इ᳓न्द्रो᳓ऽधिपतिः, पृदाकू᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

प्रा᳓ची ना᳓मासि प्रती᳓ची दि᳓क्।
त᳓स्यास् ते सो᳓मो᳓ऽधिपतिः स्वजो᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

अवस्था᳓वा ना᳓मास्य् उ᳓दीची दि᳓क्।
त᳓स्यास् ते व᳓रुणो᳓ऽधिपतिस् तिर᳓श्चराजी+++(→अथर्ववेदे तिरश्च᳓)+++ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

अ᳓धिपत्नी ना᳓मासि बृहती᳓ दि᳓क्।
त᳓स्यास् ते बृ᳓हस्प᳓तिर् अ᳓धिपतिः श्वित्रो᳓ रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

वशि᳓नी ना᳓मासीयं᳓ दि᳓क्।
त᳓स्यास् ते यमो᳓ ऽधिपतिः कल्मा᳓ष-ग्रीवो रक्षिता᳓

य᳓श् चा᳓धिपतिर्, य᳓श् च गोप्ता᳓ - ता᳓भ्यां न᳓मस्, तौ᳓ नो मृडयताम्।
ते᳓ यं᳓ द्विष्मो᳓, य᳓श् च नो द्वे᳓ष्टि - तं᳓ वां जं᳓भे दधामि ।

हेत᳓यो ना᳓म स्थ, ते᳓षां वः पुरो᳓ गृहा᳓, अग्नि᳓र् व इ᳓षवः, सलिलो᳓ वात-नाम᳓म्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

निलिम्पा᳓ ना᳓म स्थ, ते᳓षां वो दक्षिणा᳓ गृहा᳓, पित᳓रो व इ᳓षवः, स᳓गरो वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

वज्रि᳓णो ना᳓म स्थ, ते᳓षां वः पश्चा᳓द् गृहा᳓, स्व᳓प्नो व इ᳓षवो, ग᳓ह्वरो वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अवस्था᳓वानो ना᳓म स्थ, ते᳓षां व उत्तरा᳓द् गृहा᳓, आ᳓पो व इ᳓षवः, समुद्रो᳓ वातनाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ᳓धिपतयो ना᳓म स्थ, ते᳓षां व उप᳓रि गृहा᳓, वर्षं᳓ व इ᳓षवो᳓, ऽवस्वान् वात-नाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

क्रव्या᳓ ना᳓म स्थ पा᳓र्थिवास्, ते᳓षां व इह᳓ गृहा᳓, अ᳓न्नं व इ᳓षवो, निमिषो᳓ वातनाम᳓म्।

ते᳓भ्यो वो न᳓मस्, ते᳓ नो मृडयत।

विश्वास-प्रस्तुतिः

ते᳓ य᳓न् द्विष्मो᳓
य᳓श्च नो द्वे᳓ष्टि
तव्ँ᳓ वो ज᳓म्भे दधामि ॥

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ᳓प श्वेत +++(सर्पाधिपते)+++ पदा᳓+++(वि३)+++ जहि+++(→हन)+++
पू᳓र्वेण चा᳓परेण च ।
सप्त᳓ च मा᳓नुषीर् इमा᳓स् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
तिस्र᳓श्च राज᳓बन्धवीः ।

न᳓ वै᳓ श्वेत᳓स्याऽध्याचारे᳓+++(=आधिपत्ये)+++
ऽहिर् जघा᳓न क᳓ञ्चन᳓ ।
श्वेता᳓य वैदर्वा᳓य+++(=विदर्बपुत्राय)+++ न᳓मो
न᳓मः श्वेता᳓य वैदर्वा᳓य ॥ (17)

+++(युग्मान्)+++ ब्राह्मणान् भोजयेत् +++(स्थालीपाक-शेषादिभिः सर्पिष्मद्भिः। उपनयनवद् भुक्तवद्भिर् आशीर्-वचनम्।)+++ १२

धानाः कुमारान् प्राशयन्ति १

व्रतम्

एवम् अत ऊर्ध्वं यद् अशनीयस्य सक्तूनां वैतं बलिं हरेद् आमार्गशीर्ष्याः २

अनुकल्पः

  • पर्वस्व् एव बलिदानेनालमिति केचित् - “तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिं हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ ।” इति मन्त्रात् प्रायः।

अवसानम्

मार्गशीर्ष्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः +++(उपक्रमवत्)+++ ३

+++( मार्गशीर्षायै पौर्णमास्यै स्वाहा।)+++

“अहार्षम्” इति बलिमन्त्रस्य सन्नामः +++(किंशुकहोमादिकम् अपि कृवा)+++।

अत्रैनमुत्सृजति ५

स्रोतांसि

आग्रयणम्

+++(आग्रयणे हुतशेषं पिण्डीकृत्योत्तरेण यजुषाऽगारस्तूपे उद्विद्धेत्)+++

अस्य विस्तारो ऽत्र।

अनाहिताग्नेर्+++(←कर्मधारयो ऽस्तु, सशेषाहिताग्नेश् चापि विवक्षया)+++ आग्रयणम् +++(यथार्तु पर्वणि)+++।

नवानां +++(धान्यानां)+++ स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः +++(→ इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, द्यावापृथिवीभ्याम्)+++ स्विष्टकृच्चतुर्थाभ्यो हुत्वा +++(साधारणस्थालीपाकतन्त्रं वर्तते।)+++
तण्डुलानां+++(→पुलाकानां)+++ मुखं पूरयित्वा
गीर्त्वा +++(जलम् पीत्वा)+++ ऽऽचम्य
+ओदन-पिण्डं संवृत्त्य +++(यथा+उत्क्षेपे न विशीर्येत)+++
+उत्तरेण यजुषा+++(प॒र॒मे॒ष्ठ्य् असि॑ पर॒मां माँ॒ श्रियं॑ गमय ।)+++ ऽऽगार-स्तूप उद्विद्धेत्+++(=उद्-विध्येत्)+++ ७

+++(अगारस्तूपे स्थितः)+++ परमेष्ठ्य् अ᳓सि।
परमां᳓ माँ श्रि᳓यं गमय ।

हेमन्तप्रत्यवरोहणम् …{Loading}…

हेमन्तप्रत्यवरोहणम् +++(खट्वायाः)+++८

उत्तरेण यजुषा +++(“प्रत्यवरूढो नो हेमन्तः"इत्यनेन)+++ प्रत्यवरुह्य

प्रत्य᳓वरूढो नो हेमन्तः᳓ ।

संवेशनमन्त्राः

उत्तरैर् +++(“प्रतिक्षत्र"इत्यादिभिः पञ्चभिः)+++ दक्षिणैः पार्श्वैः नवस्वस्तरे+++(=तृणशय्यायाम्)+++ संविशन्ति ९

+++(नवस्वस्तरे संविशन् )+++

प्र᳓ति क्षत्रे᳓, प्र᳓तितिष्ठामि राष्ट्रे᳓ ।

प्र᳓त्य् अ᳓श्वेषु, प्र᳓तितिष्ठामि गो᳓षु ।

प्र᳓ति प्रजा᳓यां, प्र᳓तितिष्ठामि भ᳓व्ये+++(=मङ्गले)+++ ।

इह᳓ +++(स्वस्तरे)+++ धृ᳓तिर्, इह᳓ वि᳓धृतिः ।

इह᳓ र᳓न्तिर्, इह᳓ र᳓मतिः ।

दक्षिणतः पितोत्तरा मातैवम् अवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः १०

+++(किञ्चित्सुप्त्वा)+++ सं-हाय
उत्तराभ्यां +++(“स्योना पृथिवि” “बडित्थे"त्येताभ्यां)+++ पृथिवीमभिमृशन्ति ११

०८ स्योना पृथिवि …{Loading}…

स्योना᳓+++(=सुखरूपा)+++ पृथिवि भव+
अनृक्षरा᳓+++(=कण्टकादिरहिता)+++ निवे᳓शनी ।
य᳓च्छा नश् श᳓र्म सप्र᳓थाः+++(=सकीर्तिः)+++ ।

ब᳓ड् इत्था᳓+++(त्थं)+++ प᳓र्वतानाङ्+++(→मेघानाम्)+++
खिद्र᳓म्+++(=छिद्रं →छेदनम्)+++ बिभर्षि पृथिवि ।
प्र᳓ या᳓ भूमि प्रवत्वति+++(=प्रवणवति)+++
मह्ना᳓+++(=महिम्ना)+++ +++(देवादीन्)+++ जिनो᳓षि+++(=तर्पयसि)+++ महिनि+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

एवं संवेशनादि त्रिः १२

+++(“उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वे”(आश्व.गृ.४६१८))+++

ईशानबलिः …{Loading}…

कालः

  • प्रतिवर्षं कार्यमिति केचित्। सकृद् अलमिति केचित्।
  • “शरदि वसन्ते वेति शास्त्रान्तरम् । आर्द्रया कर्तव्यमिति च । … तत्र फल्गुने मासि पूर्वपक्षे
    अष्टम्यार्द्रयासम्पद्यते सोऽस्य मुख्यः कालः ।” इति हरदत्तः।
  • (आपस्तम्बिषु शूलगवस्य स्थाने)

कर्म

ईशानाय स्थालीपाकं श्रपयित्वा, क्षैत्रपत्यं च,
प्राचीमुदीचीं वा दिशम् उपतिष्क्रम्य +++(ग्रामात्)+++
स्थण्डिलं कल्पयित्वा
ऽग्नेर् उपसमाधानादि १३

अपरेणाग्निं द्वे कुटी कृत्वा १४

देवतावहनम्

उत्तरया दक्षिणस्याम् ईशानम् आवाहयति १

आ᳓ त्वा वहन्तु ह᳓रयस्+++(=हरितवर्णाश्वाः)+++ स᳓चेतसश्
श्वेतै᳓र् अ᳓श्वैस् सह᳓ केतुम᳓द्भिः ।
वा᳓ताजिरैर्+++(=वातगतिभिः)+++ म᳓म हव्या᳓य शर्व+++(←शॄ हिंसायाम्)+++ ।

लौकिक्या वाचोत्तरस्यां मीढुषीम् २

मध्ये जयन्तम्+++(=स्कन्दः, इन्द्रसूनुर् वा)+++ ३

होमः

यथोढम् उदकानि प्रदाय
त्रीन् ओदनान्+++(→ओदनभागान्)+++ कल्पयित्वा
ऽग्निम् अभ्यानीयोत्तरैर् उपस्पर्शयित्वा
उत्तरैर् यथास्वम् ओदनेभ्यो हुत्वा
सर्वतस् समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।

उ᳓पस्पृशतु मीढ्वा᳓न्, मीढु᳓षे स्वा᳓हा।

उ᳓पस्पृशतु मीढु᳓षी मीढु᳓ष्यै स्वा᳓हा ।

जयन्त᳓ +उपस्पृश जयन्ता᳓य+++(=स्कन्दाय)+++ स्वा᳓हा ।

+++(हवनम्)+++
भवा᳓य देवा᳓य स्वा᳓हा।

शर्वा᳓य देवा᳓य स्वा᳓हा।

ई᳓शानाय देवा᳓य स्वा᳓हा।

पशुप᳓तये देवा᳓य स्वा᳓हा।

रुद्रा᳓य+++(=रोदयित्रे)+++ देवा᳓य स्वा᳓हा।

उग्रा᳓य देवा᳓य स्वा᳓हा।

भीमा᳓य देवा᳓य स्वा᳓हा।

महते᳓ देवा᳓य स्वा᳓हा ।

भव᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

शर्व᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

ई᳓शानस्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

पशुप᳓तेर् देव᳓स्य प᳓त्न्यै स्वा᳓हा।

रुद्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

उग्र᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

भीम᳓स्य देव᳓स्य प᳓त्न्यै स्वा᳓हा।

महतो᳓ देव᳓स्य प᳓त्न्यै स्वा᳓हा ।

जयन्ता᳓य स्वा᳓हा ।

अग्न᳓ये स्विष्टकृ᳓ते सु᳓हुतहुत
आ᳓हुतीनां का᳓मानाँ समर्धयित्रे᳓ स्वा᳓हा ।

उपस्थानम्

उत्तरेण यजुषोपस्थाय

स्वस्ति᳓ नः पूर्णमु᳓खः प᳓रिक्रामतु ।

उत्तरैस् सहोदनानि पर्णान्य् एकैकेन द्वे द्वे दत्त्वा
देवसेनाभ्यो दशोत्तराभ्यः ५

(उत्तरस्याम्)
गृहपो᳓पस्पृश। गृहपा᳓य स्वा᳓हा ।

गृहप्य् उ᳓पस्पृश। गृहप्यै᳓ स्वा᳓हा ।

(मध्ये ।)
घोषि᳓ण उ᳓पस्पृशत। घोषि᳓भ्यः स्वा᳓हा ।

(दक्षिणस्याम् ।)
श्वासि᳓न उ᳓पस्पृशत। श्वासि᳓भ्यः स्वा᳓हा ।

(उत्तरस्याम्)
विचिन्व᳓न्त उ᳓पस्पृशत। विचिन्व᳓द्भ्यः स्वा᳓हा ।

(मध्ये ।)
प्रपुन्व᳓न्त उ᳓पस्पृशत। प्रपुन्व᳓द्भ्यः स्वा᳓हा ।

(दक्षिणस्याम् ।)
समश्न᳓न्त उ᳓पस्पृशत। समश्न᳓द्भ्यः स्वा᳓हा ।

(दश देवसेनाभ्यः दश॥)
देवसेना᳓ उ᳓पस्पृशत। देवसेना᳓भ्यः स्वा᳓हा ।

या᳓ आ᳓ख्याता या᳓श् चा᳓नाख्याता
देवसेना᳓ उ᳓पस्पृशत।
देवसेना᳓भ्यः स्वा᳓हा ।

पूर्ववद् उत्तरैः ६

द्वारापो᳓पस्पृश। द्वारापा᳓य स्वा᳓हा ।

द्वाराप्य् उ᳓पस्पृश द्वाराप्यै᳓ स्वा᳓हा ।

+++(देव्या)+++ अन्वासारि᳓ण उ᳓पस्पृशत। अन्वासारि᳓भ्यस् स्वा᳓हा +++(→मध्ये द्वे)+++।

निषङ्गि᳓न्न् +++(जयन्त!)+++ उ᳓पस्पृश।
निषङ्गि᳓णे स्वा᳓हा +++(→दक्षिणस्यां द्वे)+++।

+++(होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय - केचित्जयन्तस्योदनादिति)+++
ओदनपिण्डं संवृत्य
पर्ण-पुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति+++(=अवलम्बयति)+++ ७

न᳓मो निषङ्गि᳓णे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++ इषुधिम᳓ते

अत्र रुद्रान् जपेत् ८

प्रथमोत्तमौ वा ९

गोरक्षणम्

अभित एतमग्निं गास् स्थापयति
यथैता धूमः प्राप्नुयात् १०

ता गन्धैर् दर्भ-ग्रु+++(=गुरु)+++-मुष्टिनावोक्षति
वृषाणम्+++(=वृषभं)+++ एवाग्रे ११

क्षेत्रस्य पतेर् उपस्थानम्

गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२

ईशानवद् आवाहनम् १३

आ᳓ त्वा वहन्तु ह᳓रयस्+++(=हरितवर्णाश्वाः)+++ स᳓चेतसश्
श्वेतै᳓र् अ᳓श्वैस् सह᳓ केतुम᳓द्भिः ।
वा᳓ताजिरैर्+++(=वातगतिभिः)+++ म᳓म हव्या᳓य शर्व+++(←शॄ हिंसायाम्)+++ ।

चतुर्षु सप्तसु वा पर्णेषु +++(स)+++नामादेशं +++(“क्षेत्रस्य पतये त्वां ददामि” इति)+++ दधाति १४

क्षिप्रं यजेत पाको देवः १५

उत्तराभ्याम् उपतिष्ठते १६

क्षे᳓त्रस्य प᳓तिना वयँ᳓
हिते᳓नेव जयामसि ।
गा᳓म् अ᳓श्वम् पोषयित्न्व्+++(=पोषयिताता)+++
आ᳓ स᳓ नो मृडा+++(=सुखय)+++तीदृ᳓शे +++(कर्मणि)+++।

क्षे᳓त्रस्य पते म᳓धुमन्तम् +++(गोयूथ-)+++ऊर्मि᳓न् -
धेनु᳓र् इव प᳓यो अस्मा᳓सु धुक्ष्व ।
मधुश्-चु᳓तङ्, घृत᳓म् इव सु᳓पूतम्
ऋत᳓स्य नᳶ प᳓तयो मृडयन्तु+++(=सुखयन्तु)+++ ।

भोजनादिकम्

स्थालीपाकं ब्राह्मणान् भोजयेत् १७

क्षैत्रपत्यं प्राश्नन्ति ये+++(←दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् प्रयोगः)+++ सनाभयो+++(→पुत्राः भ्रातरश्च)+++ भवन्ति १८

यथा वैषां कुल-धर्मस् स्यात् १९

मासिश्राद्धम् …{Loading}…

अस्य विस्तारो धर्मशास्त्रे ऽत्र।

मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १

शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्माँस् त्र्यवरान् अनर्थावेक्षो भोजयेत् २

होममन्त्राः

अन्नाहुतिः

पित्रे

अन्नस्योत्तराभिर् जुहोति ३

य᳓न् मे माता᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पिता᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।+++(र५)+++
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।

या᳓स् ति᳓ष्ठन्ति, या᳓ धा᳓वन्ति,
या᳓ आर्द्रोघ्नीः᳓+++(=कूलादिघ्नीः)+++ परितस्थु᳓षीः ।
अद्भि᳓र् वि᳓श्वस्य भर्त्री᳓भिर्
अन्त᳓र् अन्यं᳓ पितु᳓र् दधे, +++(र५)+++
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।

पितामहाय

य᳓न् मे पितामही᳓ प्र᳓लुलोभ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः पितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।

अन्त᳓र् दधे प᳓र्वतैर्
अन्त᳓र् म᳓ह्या पृथिव्या᳓ ।
आभि᳓र् दिग्भि᳓र् अनन्ता᳓भिर्
अन्त᳓र् अन्यं᳓ पितामहा᳓द् दधे
ऽमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा ।

प्रपितामहाय

य᳓न् मे प्रपितामही᳓ प्रलुलो᳓भ+++(प्र᳓लुलोभ)+++ च᳓रत्य् अ᳓ननुव्रता,
त᳓न् मे रे᳓तः प्रपितामहो᳓ वृङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आभु᳓र्+++(←आभवतीति)+++ अन्यो᳓ +++(बलेर् दूरम्)+++ ऽवपद्यताम्।
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।

अन्त᳓र्दध ऋतु᳓भिर्
अहोरात्रै᳓श् च +++(काल)+++सन्धि᳓भिः ।
अर्धमासै᳓श् च मा᳓सैश् च+
अन्त᳓र् अन्यं᳓ प्रपितामहा᳓द् दधे
अमु᳓ष्मै+++(←नामनिर्देशः)+++ स्वा᳓हा।

अन्येभ्यः

ये᳓ चेह᳓ पित᳓रो ये᳓ च ने᳓ह
याँ᳓श् च विद्म᳓ याँ᳓ उ च न᳓ प्र विद्म᳓ ।
अ᳓ग्ने ता᳓न् वे᳓त्थ
य᳓दि ते᳓ जातवेदस् त᳓या+++(→स्वधया)+++ प्रत्तँ᳓+++(→प्रत्तया = प्रदत्तया)+++ स्वध᳓या मदन्तु
स्वा᳓हा ।

आज्याहुतयः

आज्याहुतीरुत्तराः ४

स्वा᳓हा पित्रे᳓

पित्रे᳓ स्वा᳓हा

स्वा᳓हा पित्रे᳓

पित्रे᳓ स्वा᳓हा ।

स्वधा᳓ स्वा᳓हा

अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।

अभिमर्शः कर्त्रा

एतद्वा विपरीतम् ५

सर्वमुत्तरैरभिमृशेत् ६

एष᳓ ते तत +++(स्वधासमुद्रः)+++
म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् अग्नि᳓श् च पृथिवी᳓ च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽग्नि᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पित्रे᳓ ऽक्षितो᳓ ऽनुपदस्तः स्वधा᳓ भव तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, +र्च᳓स् ते महिमा᳓।

एष᳓ ते पितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् वायु᳓श् चान्त᳓रिक्षञ् च
ता᳓वत्य् अस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था वायु᳓र् अ᳓क्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं+++(→मम)+++ पितामहा᳓या᳓क्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, सा᳓मानि ते महिमा᳓।

एष᳓ ते प्रपितामह +++(स्वधासमुद्रः)+++ म᳓धुमाँ ऊर्मि᳓स् स᳓रस्वान्।
या᳓वान् आदित्य᳓श् च द्यौ᳓श् च
ता᳓वत्यस्य मा᳓त्रा+++(मात्रा᳓)+++।
ता᳓वतीन् त एतां᳓ मा᳓त्रान् ददामि।
य᳓था ऽऽदित्यो᳓ ऽक्षितो᳓ ऽनुपदस्त+++(=उपक्षयरहितः)+++,
एवं᳓ म᳓ह्यं प्रपितामहा᳓या᳓ऽक्षितो᳓ऽनुपदस्तः स्वधा᳓ भव।
तां᳓ त्वँ᳓ स्वधां᳓ तै᳓स् सहो᳓पजीव, य᳓जूँषि ते महिमा᳓ ॥ (19)

कॢप्तान्वा प्रतिपूरुषम् ७

भोक्तृ-स्पर्शनम्

उत्तरेण यजुषोपस्पर्शयित्वा ८

+++(हे अन्न -)+++ पृथिवी᳓ ते पा᳓त्रं,
द्यौ᳓र् अपिधा᳓नम्।
ब्र᳓ह्मणस् त्वा मु᳓खे जुहोमि।
ब्राह्मणा᳓नान् त्वा प्राणापान᳓योर् जुहोमि।

+++(भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य, द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य)+++
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अ᳓क्षितम् असि।
मै᳓षां क्षेष्ठा+++(←क्षी क्षये)+++ अमु᳓त्रा+++(→परलोके)+++ऽमु᳓ष्मिल्ँ लोके᳓ +++(च ब्राह्मणानाम्)+++ ।

पिण्डदानम्

तेषूत्तरैरपो दत्त्वा

+++(दर्भेष्व् अपो ददाति)+++

मार्ज᳓यन्तां म᳓म पित᳓रो,

मार्ज᳓यन्तां म᳓म पितामहा᳓

मार्ज᳓यन्तां म᳓म प्रपितामहाः᳓ ।

मार्ज᳓यन्तां म᳓म मात᳓रो,

मार्ज᳓यन्तां म᳓म पितामह्यो᳙,

मार्ज᳓यन्तां म᳓म प्रपितामह्यः᳙ ।

उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा

उत्तरैर् दक्षिणापवर्गान् पिण्डान्दत्त्वा

एत᳓त्ते तताऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

एत᳓त्ते पितामहाऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

एत᳓त्ते प्रपितामहाऽसौ+++(←नामनिर्देशः)+++, ये᳓ च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

एत᳓त्ते मातर् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

एत᳓त्ते पितामह्य् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

एत᳓त्ते प्रपितामह्य् असौ+++(←नामनिर्देशः)+++, या᳓श् च त्वा᳓म् अ᳓नु +++(जीवन्ति)+++।

मार्ज᳓यन्तां म᳓म पित᳓रो,

मार्ज᳓यन्तां म᳓म पितामहा᳓

मार्ज᳓यन्तां म᳓म प्रपितामहाः᳓ ।

मार्ज᳓यन्तां म᳓म मात᳓रो,

मार्ज᳓यन्तां म᳓म पितामह्यो᳙,

मार्ज᳓यन्तां म᳓म प्रपितामह्यः᳙ ।

उत्तरैरुपस्थानम्

पूर्ववदुत्तरैरपो दत्त्वा
उत्तरैरुपस्थाय

ये᳓ च वो᳓ +++(पितरः)+++ ऽत्र,
ये᳓ चास्मा᳓स्व् आ᳓शँसन्ते+++(→प्रार्थयन्ते स्वधाम्)+++

या᳓श् च वो᳓ ऽत्र
या᳓श् चास्मा᳓स्व् आ᳓शँसन्ते,

ते᳓ च +++(स्वधां)+++ वहन्तां,

ता᳓श् च +++(स्वधां)+++ वहन्ताम्।

तृ᳓प्यन्तु भवन्तः,

तृ᳓प्यन्तु भवत्यः।

तृ᳓प्यत तृ᳓प्यत तृ᳓प्यत ।

उभयान् पिण्डान् परिषिञ्चति

उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य

पुत्रा᳓न् पौ᳓त्रान् अभि᳓ तर्प᳓यन्तीर्
आ᳓पो म᳓धुमतीर् इमाः᳓
स्वधां᳓ +++(मातृसहित)+++पितृ᳓भ्यो अमृ᳓तं दु᳓हाना
आ᳓पो देवी᳓र् उभ᳓याँस् तर्पयन्तु ।

तृ᳓प्यत तृ᳓प्यत तृ᳓प्यत ।

शेष-प्राशनम्

न्युब्ज्य पात्राण्य्
उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा
प्रोक्ष्यपात्राणि
द्वन्द्वमभ्युदाहृत्य
सर्वतस् समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।

प्राणे᳓ नि᳓विष्टो ऽमृ᳓तं+++(→अमरणहेतुमन्नं)+++ जुहोमि, ब्र᳓ह्मणि म आत्मा᳓ऽमृतत्वा᳓य ।

अष्टका …{Loading}…

अस्य विस्तारो ऽत्र।

या माघ्याः पौर्णमास्या उपरिष्टाद्+++(=कृष्णपक्षे)+++ व्यष्टका
तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०

पूर्वेद्युः सायम् औपकार्यम्

तस्यास्सायमौपकार्यम् ११

अपूपं चतुश्शरावं श्रपयति १२

अष्टाकपाल इत्येके १३

सप्तम्यां रात्राव् अपूप-होमः

पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरया ऽपूपाज्जुहोति १

यां᳓ ज᳓नाः प्रति-न᳓न्दन्ति
रा᳓त्रिं धेनु᳓म् इवायती᳓म् ।
संवत्सर᳓स्य या᳓ प᳓त्नी +++(एकाष्टका)+++
सा᳓ नो अस्तु सुमङ्गली᳓
स्वा᳓हा ।

सिद्धश् शेषस् तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २

गवालम्भः

श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३

तूष्णीं पञ्चाज्याहुतीर् हुत्वा

श्वोभूते वपाहोममन्त्रः

तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४

व᳓ह वपां᳓ जातवेदः पितृ᳓भ्यो
य᳓त्रैनान् वे᳓त्थ नि᳓हितान् पराके᳓+++(=दूरे)+++ ।
मे᳓दसः कू᳓ल्या+++(=नद्या)+++ उ᳓प ता᳓न् क्षरन्तु
सत्या᳓ एता᳓ आशि᳓षस् सन्तु का᳓मैस्
स्वा᳓हा ।

मांसौदनमुत्तराभिः

माँसोदनमुत्तराभिः ५

यां᳓ ज᳓नाः प्रति-न᳓न्दन्ति
रा᳓त्रिं धेनु᳓म् इवायती᳓म् ।
संवत्सर᳓स्य या᳓ प᳓त्नी +++(एकाष्टका)+++
सा᳓ नो अस्तु सुमङ्गली᳓
स्वा᳓हा ।

इय᳓म् +++(उषाः)+++ एव᳓ सा᳓ या᳓ प्रथमा᳓ व्यौ᳓च्छद्+++(←उछीँ विवासे)+++
अन्त᳓र् अस्या᳓ञ् +++(पृथिव्यां)+++ चरति +++(आदित्यम्)+++ प्र᳓विष्टा ।
वधू᳓र् जजान नव-ग᳓ज्+++(गा)+++ ज᳓नित्री
त्र᳓य+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महिमा᳓नस् सचन्ते+++(=भजन्ते)+++ ॥

+++(मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ)+++

छ᳓न्दस्वती उष᳓सा+++(सौ)+++ पे᳓पिशाने+++(=दीप्यमाने)+++
समानय्ँ᳓ यो᳓निम् +++(आदित्यं)+++ अ᳓नु सञ्च᳓रन्ती ।
सू᳓र्यपत्नी वि᳓ चरतᳶ प्र-जानती᳓
केतु᳓ङ् कृण्वाने᳓ अज᳓रे भू᳓रिरेतसा+++(सौ)+++ ॥

ऋत᳓स्य प᳓न्थाम् अ᳓नु +++(कार्यभेदात्)+++ तिस्र᳓ आ᳓गुस्
त्र᳓यो घर्मा᳓सो अ᳓नु ज्यो᳓तिषा᳓ ऽगुः ।
प्रजा᳓म् ए᳓का र᳓क्षत्य्, ऊ᳓र्जम् ए᳓का
व्रत᳓म् ए᳓का रक्षति देवयूना᳓म् ॥

एकाष्टकां᳓ पश्यत दो᳓हमानाम्
अ᳓न्नं माँस᳓वद् घृत᳓वत् स्वधा᳓वत् ।
त᳓द् ब्राह्मणै᳓र् अतिपूत᳓म् अनन्त᳓म् अक्षय्य᳓म्
अमु᳓ष्मिल्ँ लोके᳓ स्फी᳓तिं गच्छतु मे पितृ᳓भ्यः
स्वा᳓हा ।

औलूखला᳓+++(=उलूखलाः)+++ ग्रा᳓वाणो घो᳓षम् अक्रत
हविः᳓ कृण्व᳓न्तः परिवत्सरी᳓णम् ।
एकाष्टके᳓ सुप्रजा᳓ वीर᳓वन्तो
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

एकाष्टका᳓ त᳓पसा त᳓प्यमाना
संवत्सर᳓स्य प᳓त्नी दुदुहे प्र᳓पीना ।+++(४)+++
तं᳓ दो᳓हम् उ᳓पजीवाथ+++(=उपजीवत)+++ पित᳓रस्
सह᳓स्र-धारम् अमु᳓ष्मिल्ँ लोके᳓
स्वा᳓हा ॥ (20)

पिष्टान्नम् उत्तरया जुहोति

पिष्टान्नमुत्तरया ६

+++(एकाष्टके!)+++ उक्थ्य᳙श् चास्य् अतिरात्र᳓श् च
साद्यस्क्री᳓श्+++(=सद्यस्क्र-क्रतुः)+++ छ᳓न्दसा सह᳓ ।
अपूप-घृता᳓हुते न᳓मस् ते
अस्तु माँस-पिप्प᳓ले+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वा᳓हा ।

आज्याहुतीरुत्तराः

आज्याहुतीरुत्तराः ७

भूः᳓- पृथिव्य्+++(व्या)+++ अ᳙ग्नि᳓ना+ऋचा᳓
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।

भु᳓वो - वायु᳓ना ऽन्त᳓रिक्षेण सा᳓म्ना
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।

स्व᳓र् - दि᳓वा ऽऽदित्ये᳓न य᳓जुषा
ऽमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।+++(५)+++

जन᳓द्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अद्भि᳓र् अ᳓थर्वाङ्गिरो᳓भिर्
अमुं᳓ म᳓यि का᳓मं नि᳓युनज्मि स्वा᳓हा ।

रोचना᳓य +अजिरा᳓य+++(←अज गतिक्षेपणयोः)+++ +अग्न᳓ये देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।

केत᳓वे+++(=ज्ञात्रे)+++ म᳓नवे ब्र᳓ह्मणे देव᳓-जातवे+++(=ज्ञात्रे)+++ स्वा᳓हा ।

स्वधा᳓ स्वा᳓हा ।

अग्न᳓ये कव्यवा᳓हनाय स्वधा᳓ स्वा᳓हा ।

स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८

अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९

दध्यञ्जलिहोमः

अथैतदपरं दध्न एवाञ्जलिना जुहोति यया +++(ऋचा)+++ ऽपूपम् १०

अन्वष्टका

अत +++(=अष्टकागाव)+++ एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११

तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२

सनिम् इत्वोत्तरां जपेत्

अ᳓न्नम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।

व᳓स्त्रम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।

वि᳓त्तम् +++(दृष्टम्)+++ इव ते दृशे᳓+++(=दर्शने)+++ भूयासम्।

आशे᳓व+++(=मनोरथ इव)+++ +++(दृष्टेव)+++ ते दृशे᳓+++(=दर्शने)+++ भूयासम्।

श्रद्धे᳓व +++(दृष्टेव)+++ ते दृशे᳓+++(=दर्शने)+++ भूयासम् ।

सँ᳓स्रवन्तु दि᳓शो मही᳓स् +++(देयाः)+++
स᳓मा᳓ धावन्तु सूनृ᳓ताः +++(वाचः)+++ ।
स᳓र्वे का᳓मा अभि᳓यन्तु मा प्रिया᳓
अभि᳓ रक्षन्तु मा प्रियाः᳓ ।+++(र४)+++

य᳓शोऽसि।
य᳓शोऽह᳓न् त्व᳓यि भूयासम् असौ+++(←दातुर्नामनिर्देशः)+++ ।

रथलाभे

+++(रथे लब्धे तस्य चक्रे पक्षसी वा अभिमृशति)+++

अङ्कौ᳓+++(→भूतविशेषौ)+++ न्यङ्का᳓व् अभि᳓तो र᳓थय्ँ यौ᳓
ध्वान्तव्ँ᳓+++(=ध्वनितं)+++ वाताग्र᳓म् अ᳓नु सञ्च᳓रन्तौ ।
+++(तथा)+++ दूरे᳓हेतिर् इन्द्रिया᳓वान्+++(=बलवान्)+++ पतत्री᳓ +++(च)+++
ते᳓ नो ऽग्न᳓यᳶ+++(←अगिर्गत्यर्थः)+++ प᳓प्रयᳶ+++(←प्रा पूरणे)+++ पारयन्तु ।

+++(यजुषाऽधिरोहिति)+++

अ᳓ध्वनाम् अध्वपते
स्वस्ति᳓ मा सं᳓पारय ।

+++(उत्तरयाऽभिप्रयाति)+++

अयं᳓ वाम् अश्विनौ +++(अश्वि᳓नौ)+++ र᳓थो
मा᳓ दुःखे᳓ मा᳓ सुखे᳓ रिषत् ।
अ᳓रिष्टस् स्वस्ति᳓ गच्छतु
वि᳓ विघ्न᳓न् पृतनायतः᳓+++(पृ᳓तनायतः᳓)+++ ।

अश्वे लब्धे आरोहणमन्त्रः

+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अ᳓श्वो+++(=व्यापकः)+++ ऽसि । ह᳓यो+++(←हि गतौ)+++ ऽस्य्, अ᳓त्यो+++(←अत सातत्य-गमने)+++ ऽसि,
न᳓रो+++(=नेता)+++ ऽस्य्, अ᳓र्वा+++(←ऋ गतौ)+++ऽसि, स᳓प्तिर्+++(←सर्पतेः)+++ असि, वाज्य्+++(=वेगवान्)+++ अ᳙सि, वृ᳓षा ऽसि।
नृ-म᳓णा+++(=मन्त्यव्यो)+++ असि। य᳓युर् ना᳓मासि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++

+++(उपतिष्ठते)+++
आदित्या᳓नाम् प᳓त्व+++(=पतनशीलः)+++ +अ᳓न्विहि ।

Keith

thou art a horse, thou art a steed, thou art a runner, thou art a male, thou art a strong horse, thou art a racer, thou art powerful, thou art a stallion, thou art heroic hearted; ‘goer’ is thy name;

हस्तिनि लब्धे आरोहणमन्त्रः

हस्ति-यशस᳓म् असि, हस्ति-यशसी᳓ भूयासम्।
व᳓ह काल, व᳓ह श्रि᳓यं, माऽभि᳓ वह ।
इ᳓न्द्रस्य त्वा व᳓ज्रेणाभि᳓ नि᳓दधाम्य् असौ+++(←नामनिर्देशः?)+++ ।

संवादः

+++(संवादमेष्यन् फलीकरणमुष्टिं जुहोति)+++

अ᳓वजिह्वक नि+++(→न्यक्)+++जिह्वक+
अ᳓व त्वा हवि᳓षा यजे ।
त᳓त् सत्यं᳓ य᳓द् अहं᳓ ब्र᳓वीम्य्
अ᳓धरो म᳓द् असौ᳓+++(←नामनिर्देशः)+++ वदात्
स्वा᳓हा ।+++(र५)+++

+++(प्रतियोगिसन्निधौ जपः)+++

आ᳓ ते वा᳓चम् आस्या᳙न्+++(=आस्ये भवां)+++ +++(आ)+++दद, आ᳓ मनस्याँ᳓, हृ᳓दयाद् अ᳓धि ।+++(५)+++
य᳓त्र यत्र ते वा᳓ङ् नि᳓हिता, तां᳓ त आ᳓ददे ।
त᳓त् सत्यं᳓ य᳓द् अहं᳓ ब्र᳓वीम्य्, अ᳓धरो म᳓त् पद्यस्वासौ+++(←नामनिर्देशः)+++ ॥ (21)

क्रोधापनयनम्

+++(यस्य क्रोधमपनेतुकामः तमुत्तराभ्यामभिमन्त्रयते)+++

या᳓ त एषा᳓ रराट्या᳙+++(=ललाट्या)+++ तनू᳓र्
मन्यो᳓र् मृध्र᳓स्य+++(=मृदुत्वस्य)+++ ना᳓शिनी ।
ता᳓न् देवा᳓ ब्रह्मचारि᳓णो
वि᳓नयन्तु सुमेध᳓सः ।+++(५)+++

य᳓त् त एत᳓न् मु᳓खे ऽमतँ᳓
ररा᳓टम्+++(=ललाटम्)+++ उ᳓द् इव वि᳓ध्यति ।
वि᳓ ते क्रो᳓धन् नयामसि
ग᳓र्भम् अश्वतर्या᳓ इव ।+++(५)+++

असम्भवेप्सुः सम्बाधः

+++(असम्भवेप्सुः परेषां स्थूलाडारिकाजीव-चूर्णानि कारयित्वोत्तरया सुप्तायास् सम्बाध उपवहेत्)+++

अ᳓वज्याम् इव ध᳓न्वनो
हृदो᳓ मन्युं᳓ तनोमि ते ।
इ᳓न्द्रा᳓ऽपास्य+++(=अपनय)+++ फलिग᳓म्+++(=उपस्थेन्द्रियं)+++ अन्ये᳓भ्यः
पु᳓रुषेभ्यो ऽन्य᳓त्र म᳓त् ।+++(५)+++

सिद्धार्थे

+++(सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया जुहुयात्)+++

य᳓द् अहं᳓ ध᳓नेन प्र᳓ पणँ᳓श् चरामि
ध᳓नेन देवा ध᳓नम् इच्छ᳓मानः ।+++(५)+++
त᳓स्मिन्त् सो᳓मो रु᳓चम् आ᳓ दधात्व्
अग्नि᳓र् इ᳓न्द्रो बृ᳓हस्प᳓तिश् च स्वा᳓हा ।+++(र५)+++

भृत्यपालनम् …{Loading}…

भृत्यरक्षा

+++(यं कामयेत नायं अविच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत्)+++

प᳓रि त्वा गि᳓रेर् अमिहं᳓+++(←मिह सेचने)+++
प᳓रि भ्रा᳓तुः प᳓रि ष्व᳓सुः ।
प᳓रि स᳓र्वेभ्यो ज्ञाति᳓भ्यः
प᳓रि-षीतः+++(=बद्धः)+++ क्वे᳙ष्य᳓सि ।

श᳓श्वत् प᳓रि-कुपितेन
सं᳓क्रामेणाविच्छि᳓दा ।
उले᳓न+++(=स्थूलेन)+++ प᳓रि-षीतो+++(=बद्धो)+++ ऽसि
प᳓रिषीतोऽस्य् उले᳓न ।

पलायितानयनम्

+++(येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युप समाधायोत्तरा आहुतीर्जुहुयात्)+++

आ᳓ वर्तन वर्तय नि᳓ निवर्तन वर्तय
इ᳓न्द्र नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भू᳓म्याश् च᳓तस्रᳶ प्रदि᳓शस्
ता᳓भिर् आ᳓ वर्तया पु᳓नः ।+++(५)+++

आ᳓ वर्तन वर्तय नि᳓ निवर्तन वर्तय
इ᳓न्द्र नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भू᳓म्याश् च᳓तस्रᳶ प्रदि᳓शस्
ता᳓भिरा᳓ वर्तया पु᳓नः ।+++(५)+++

आव᳓र्तने निव᳓र्तन
आव᳓र्तन +++(→स्वरः??)+++ निवर्तना᳓य स्वा᳓हा ।

अ᳓नु पो+++(=वो)+++ ऽह्वद् अ᳓नुह्वयो+++(=अनुह्वाता)+++
नि᳓वर्तो वो न्य᳓वीवृतत् ।
ऐन्द्रः᳓ प᳓रिक्रोशो वः
प᳓रिक्रोशतु सर्व᳓तः ।+++(र४)+++

य᳓दि मा᳓म् अ᳓ति म᳓न्याध्वा+++(ध्वै)+++
अ᳓देवा +++(अ᳓देवा)+++ देव᳓वत्-तरम् ।
इ᳓न्द्रः पा᳓शेन सिक्त्वा᳓वो+++(←षिञ् बन्धने)+++
म᳓ह्यम् इ᳓द् व᳓शम् आ᳓ नयात्
स्वा᳓हा ।

यद्येनं वृक्षात् फलमभिनिपतेत् तदङ्गं प्रक्षाळयीत

य᳓दि वृक्षा᳓द् य᳓द्य् अन्त᳓रिक्षात्
फ᳓लम् अभ्य᳓पतत् - त᳓द् उ वायु᳓र् एव᳓ ।
य᳓त्रा᳓स्पृक्षत् तनु᳓वं य᳓त्र वा᳓स
आ᳓पो बाधन्तां नि᳓रृतिं पराचैः᳓+++(=पराङ्मुखीं)+++ ।

वयो ऽभिविक्षिपति चेत्

ये᳓ पक्षि᳓णः पत᳓यन्ति+++(=पतन्ति)+++
बि᳓भ्यतो नि᳓रृतैस् सह᳓ ।
ते᳓ मा शिवे᳓न शग्मे᳓न+++(=सुखेन)+++
ते᳓जसोन्दन्तु+++(=क्लेदयन्तु)+++ व᳓र्चसा ।

अवर्षतर्के वा बिन्दुरभिनिपतेत्

दिवो᳓ नु᳓ मा बृहतो᳓ अन्त᳓रिक्षाद्
अपाँ᳓ स्तो᳓को अभ्य᳓पतच् छिवे᳓न ।
स᳓म् अह᳓म् इन्द्रिये᳓ण म᳓नसा ऽह᳓म् आ᳓गां
ब्र᳓ह्मणा+++(=मन्त्रेण)+++ संपृञ्चान᳓स् सुकृ᳓ता कृते᳓न+++(=प्रयुक्तेन)+++ ।+++(र४)+++

आगारस्थूणाविरोहणादिषु होमः

१९ इमं मे …{Loading}…

इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥

प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव ।
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

सम्रा᳓जञ् च विरा᳓जञ् चा-
ऽभिश्री᳓र् या᳓ च नो गृहे᳓ ।
लक्ष्मी᳓ राष्ट्र᳓स्य या᳓ मु᳓खे
त᳓या मा सँ᳓सृजामसि+++(→संसृजामि)+++ ।

+++(व्या᳓हृतीर् वि᳓हृताः ।)+++
भूः᳓।

भु᳓वः।

सु᳓वः।

अभिमृतेभ्यो दक्षिणतोऽश्मानं परिधिं दधाति

इमं᳓ +++(अश्मानं)+++ जीवे᳓भ्यः परिधिं᳓ दधामि
मै᳓षां᳓ नु गाद् अ᳓परो +++(बालः मृत्योर्)+++ अ᳓र्धम् एत᳓म् ।
शतं᳓ जीवन्तु शर᳓दः पुरूची᳓स्+++(=दीर्घगान्)+++
तिरो᳓ मृत्युं᳓ दधतां प᳓र्वतेन ॥ (22)

ॐ एकाग्निकाण्डस्समाप्तः ॥