कामस्यापायः
1/04/12/11 …{Loading}…
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११
1/04/12/12 …{Loading}…
तदनुवर्तमानो नरकाय राध्यति १२
1/04/13/04 …{Loading}…
हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४
अशुचिकराणि
1/07/21/12 …{Loading}…
अथाशुचिकराणि १२
1/07/21/13 …{Loading}…
शूद्र-गमनम् आर्य-स्त्रीणाम् १३
1/07/21/14 …{Loading}…
प्रतिषिद्धानां मांस-भक्षणम् १४
1/07/21/15 …{Loading}…
+++(यथा -)+++ शुनो मनुष्यस्य च
कुक्कुट-सूकराणां ग्राम्याणां, क्रव्यादसाम् १५
1/07/21/16 …{Loading}…
मनुष्याणां मूत्र-पुरीष-प्राशनम् १६
1/07/21/17 …{Loading}…
शूद्रोच्छिष्टम्,
+++(प्रतिलोमाद्य्-)+++अपपात्रा-गमनं चार्याणाम् १७
1/07/21/18 …{Loading}…
एतान्यपि पतनीयानीत्य् एके १८
1/07/21/19 …{Loading}…
अतोऽन्यानि दोषवन्त्य् अशुचिकराणि भवन्ति १९
दोषाः
1/08/23/03 …{Loading}…
दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३
1/08/23/04 …{Loading}…
अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४
1/08/23/05 …{Loading}…
क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥
1/08/23/06 …{Loading}…
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६
2/05/12/19 …{Loading}…
दोषफलसंशये न तत्कर्तव्यम् १९
2/05/12/20 …{Loading}…
एवमध्यायानध्याये २०
1/11/31/23 …{Loading}…
क्रोधादींश् च भूत-दाहीयान् दोषान् वर्जयेत् २३
2/08/18/03 …{Loading}…
अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३
ससङ्कल्पता
1/10/29/02 …{Loading}…
यः प्रमत्तो हन्ति, प्राप्तं दोषफलम् २
1/10/29/03 …{Loading}…
सह संकल्पेन भूयः ३
1/10/29/04 …{Loading}…
एवमन्येष्वपि दोषवत्सु कर्मसु ४
1/10/29/05 …{Loading}…
तथा पुण्यक्रियासु ५
2/11/29/01 …{Loading}…
प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः १
2/11/29/02 …{Loading}…
यो भूय आरभते तस्मिन्फलविशेषः २
पतनीयानि
1/07/21/07 …{Loading}…
अथ पतनीयानि+++(←द्विजातिकर्मभ्यो हानिः पतनम्)+++ ७
1/07/21/08 …{Loading}…
स्तेयम्, आभिशस्त्यं +++(←ब्रह्महत्यादिभिर् वक्ष्यमाणैः)+++,
पुरुष-वधो, ब्रह्मोज्झं+++(=वेद-त्यागः)+++,
गर्भ-शातनम्,
मातुः पितुर् इति योनि-संबन्धे सहापत्ये स्त्री-गमनं,
सुरा-पानम्, असंयोग-संयोगः ८
1/07/21/09 …{Loading}…
गुर्वी-सखिं गुरु-सखिं च गत्वा
ऽन्यांश् च पर-तल्पान् ९
1/07/21/10 …{Loading}…
नागुरुतल्पे पततीत्येके १०
1/07/21/11 …{Loading}…
अधर्माणां तु सततम् आचारः ११
1/10/29/15 …{Loading}…
अभीचारानुव्याहारावशुचिकरावपतनीयौ १५
1/10/29/16 …{Loading}…
पतनीयाविति हारीतः १६
फलम्
2/01/02/03 …{Loading}…
ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३
2/01/02/04 …{Loading}…
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४
2/01/02/05 …{Loading}…
एतेन दोषफलपरिवृद्धिरुक्ता ५
2/01/02/06 …{Loading}…
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल् लोके परिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ६
2/01/02/07 …{Loading}…
एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ७
2/05/11/10 …{Loading}…
धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ १०
2/05/11/11 …{Loading}…
अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ११
2/07/16/01 …{Loading}…
सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १