1/01/01/01 …{Loading}…
अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः १
1/01/01/02 …{Loading}…
धर्मज्ञ-समयः प्रमाणम् +++(सौलभ्य-क्रमेण प्रथमम् उक्तम्)+++ २
1/01/01/03 …{Loading}…
वेदाश् च ३
2/11/29/13 …{Loading}…
कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३
शिष्टाचारे स्मृत्यन्तरे च
1/01/04/08 …{Loading}…
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८
1/03/11/38 …{Loading}…
यथोक्तमन्यदतः परिषत्सु ३८
1/04/12/10 …{Loading}…
ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते १०
1/04/12/11 …{Loading}…
यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११
1/07/20/05 …{Loading}…
अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५
1/07/20/06 …{Loading}…
न धर्माधर्मौ चरत
“आवं स्व” इति ।
न देव-गन्धर्वा, न पितर +++(पुर आगत्य)+++ इत्य् आचक्षते
“ऽयं धर्मो ऽयम् अधर्म” इति ६
1/07/20/07 …{Loading}…
यत् त्व् आर्याः
क्रियमाणं प्रशंसन्ति
स धर्मो,
यद् गर्हन्ते
सोऽधर्मः ७
1/07/20/08 …{Loading}…
सर्व-जन-पदेष्व् एकान्त-समाहितम्
आर्याणाम् वृत्तं
सम्यग् विनीतानां वृद्धानाम्
आत्मवताम्, अलोलुपानाम्, अदाम्भिकानां वृत्त-सादृश्यं भजेत ८
1/11/30/09 …{Loading}…
विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९
1/11/32/29 …{Loading}…
यच् चान्यत् परिचक्षते, यच् चान्यत् परिचक्षते २९
2/08/20/17 …{Loading}…
यच् चान्यत् परिचक्षते १७
2/06/13/07 …{Loading}…
दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ७
2/06/13/08 …{Loading}…
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ८
2/06/13/09 …{Loading}…
तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ९
देश-कुलाचारेषु
2/06/15/01 …{Loading}…
एतेन देशकुलधर्मा +++(=शास्त्राऽविरुद्धा एव)+++ व्याख्याताः १
2/11/29/13 …{Loading}…
कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३
2/11/29/14 …{Loading}…
तत्र लक्षणम् । सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत । एवमुभौ लोकावभिजयति १४
स्त्री-शूद्राश्च
2/11/29/11 …{Loading}…
सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ११
2/11/29/12 …{Loading}…
आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति १२
2/11/29/15 …{Loading}…
स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक इत्येके १५