धर्मः

1/07/20/01 …{Loading}…

नेमं लौकिकम्-अर्थं पुरस्कृत्य
धर्मांश् चरेत् १

1/07/20/02 …{Loading}…

निष्फला ह्य् अभ्युदये भवन्ति २

1/07/20/03 …{Loading}…

तद् यथा ऽऽम्रे फलार्थे निर्मिते
छाया गन्ध इत्य् अनूत्पद्येते,
एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते ३

1/07/20/04 …{Loading}…

नो चेद् अनूत्पद्यन्ते,
न धर्म-हानिर् भवति ४

साधारण-धर्माः

1/08/23/06 …{Loading}…

अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६

2/09/21/03 …{Loading}…

सर्वेषाम् उपनयन-प्रभृति समान आचार्य-कुले वासः ३

2/09/21/04 …{Loading}…

सर्वेषाम् अनूत्सर्गो विद्यायाः ४

2/09/21/05 …{Loading}…

बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेत ५

2/09/21/06 …{Loading}…

यथा विद्यार्थस्य नियम,
एतेनैवान्तम् अनूपसीदत+++(ः= उपसदनतः)+++
आचार्य-कुले शरीर-न्यासो ब्रह्मचारिणः +++(नैष्ठिकस्य)+++६

2/09/24/07 …{Loading}…

अथापि प्रजापतेर्वचनम् ७

2/09/24/08 …{Loading}…

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८

2/09/24/13 …{Loading}…

तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३

आश्रमाः

2/09/21/01 …{Loading}…

चत्वार आश्रमा गार्हस्थ्यम् आचार्यकुलं मौनं +++(=मुनिता/ सन्यासः)+++ वानप्रस्थ्यम् इति १

2/09/21/02 …{Loading}…

तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति २

वर्णः

1/01/01/04 …{Loading}…

चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ४

1/01/01/05 …{Loading}…

तेषां पूर्वस्-पूर्वो जन्मतः श्रेयान् ५

2/01/02/02 …{Loading}…

सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् २

2/01/02/03 …{Loading}…

ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३

2/01/02/04 …{Loading}…

यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४

+++(पाप-पुण्य-फलाभ्यां वर्ण-परिवर्तनम् अन्यत्रोक्तम्)+++

ब्राह्मणवृत्तिः

2/05/10/04 …{Loading}…

न तदाद्रियेत

2/05/10/05 …{Loading}…

स्वकर्म ब्राह्मणस्याध्ययनमध्यापनम्यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ४

1/07/20/10 …{Loading}…

अविहिता ब्राह्मणस्य वणिज्या १०

1/07/20/11 …{Loading}…

आपदि व्यवहरेत पण्यानाम्
अपण्यानि व्युदस्यन् +++(=वर्जयन् [वक्ष्यमाणानि] …)+++ ११

1/07/21/03 …{Loading}…

नात्यन्तमन्ववस्येत् ३

1/07/21/04 …{Loading}…

वृत्तिं प्राप्य विरमेत् ४

क्षत्रिय-वृत्तिः

2/05/10/06 …{Loading}…

अन्यच्चापरिगृहीतम् +++(यथा मूलफलादिः)+++५

2/05/10/07 …{Loading}…

एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ६

शूद्रधर्मः

1/01/01/07 …{Loading}…

शुश्रूषा शूद्रस्येतरेषां वर्णानाम् +++(फलवत् कर्म)+++७

1/01/01/08 …{Loading}…

+++(शूद्र-कृत-सेवा)+++ पूर्वस्मिन् पूर्वस्मिन् वर्णे निःश्रेयसम् भूयः ८

सम्बद्धविषयाः

“पापम्, पुण्यम्, दोषाः” इत्यादयो ऽन्यत्र। एवं विशेषा अपि।