दायभागः

अधिकारिणः

2/06/14/01 …{Loading}…

जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १

2/06/14/02 …{Loading}…

पुत्राभावे यः प्रत्यासन्नः सपिण्डः २

2/06/14/01 …{Loading}…

जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य १

2/06/14/02 …{Loading}…

पुत्राभावे यः प्रत्यासन्नः सपिण्डः २

2/06/14/04 …{Loading}…

दुहिता वा ४

2/06/14/05 …{Loading}…

सर्वाभावे राजा दायं हरेत ५

2/06/14/14 …{Loading}…

सर्वे हि धर्मयुक्ता भागिनः १४

2/06/14/15 …{Loading}…

यस्त्वधर्मेण द्रव्याणि प्रतिपादयति +++(=व्ययीकरोति)+++ ज्येष्ठोऽपि तमभागं कुर्वीत १५

ज्येष्ठेतराधिकारे -

2/06/14/06 …{Loading}…

ज्येष्ठो दायाद इत्येके ६

2/06/14/10 …{Loading}…

तच्छास्त्रैर्विप्रतिषिद्धम् १०

2/06/14/11 …{Loading}…

मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते ११

2/06/14/12 …{Loading}…

अथापि तस्माद्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीत्येकवच्छ्रुयते १२

2/06/14/13 …{Loading}…

+++(समाधानम् -)+++ अथापि नित्यानुवादमविधिमाहुर्न्यायविदो, यथा - “तस्मादजावयः पशूनां सह चरन्तीति” “तस्मात्स्नातकस्य मुखं रेभायतीव” “तस्माद्बस्तश्च श्रोत्रियश्चस्त्रीकामतमाविति” १३

2/06/14/14 …{Loading}…

सर्वे हि धर्मयुक्ता भागिनः १४

चोदनम्

2/06/13/12 …{Loading}…

एकधनेन ज्येष्ठं तोषयित्वा १२

2/06/13/01 …{Loading}…

सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १

2/06/14/07 …{Loading}…

देशविशेषे सुवर्णङ्कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ७

2/06/14/08 …{Loading}…

रथः पितुः परीभाण्डं च गृहे ८

2/06/14/09 …{Loading}…

अलंकारो भार्याया ज्ञातिधनं चेत्येके ९

2/06/14/16 …{Loading}…

जाया-पत्योर् न विभागो विद्यते १६