बाल-प्रयतता
2/06/15/19 …{Loading}…
आऽन्न-प्राशनाद् गर्भा नाप्रयता भवन्ति १९
2/06/15/20 …{Loading}…
आ परिसंवत्सराद् इत्येके २०
2/06/15/21 …{Loading}…
यावता या दिशो न प्रजानीयुः २१
2/06/15/22 …{Loading}…
ओपनयनाद् इत्य् अपरम् २२
2/06/15/23 …{Loading}…
अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३
2/06/15/25 …{Loading}…
स्मृतिश्च +++(एवं विद्यते)+++ २५
अशौच-कारणानि
1/05/15/07 …{Loading}…
- रिक्तपाणिर् वयस उद्यम्याप उपस्पृशेत् ७
1/05/15/16 …{Loading}…
- शूनोपहतः सचेलो ऽवगाहेत १६
1/05/15/17 …{Loading}…
प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाचम्य प्रयतो भवति १७
1/05/15/23 …{Loading}…
- मूत्रं कृत्वा पुरीषं वा मूत्रपुरीष-लेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसश् च ये लेपास्, तान् प्रक्षाल्य पादौ च, +आचम्य प्रयतो भवति २३
1/05/16/10 …{Loading}…
श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् १०
1/05/16/11 …{Loading}…
- न श्मश्रुभिर् उच्छिष्टो भवत्य् अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति ११
1/05/16/12 …{Loading}…
- य आस्याद्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२
1/05/16/13 …{Loading}…
ये भूमौ न तेष्वाचामेदित्येके १३
1/05/16/14 …{Loading}…
- स्वप्ने क्षवथौ शृङ्खाणिका+++(=नासामलम्)+++-ऽऽश्र्व्-आलम्भे, लोहितस्य केशानाम्, अग्नेर्, गवां, ब्राह्मणस्य, स्त्रियाश् चालम्भे, महापथं च गत्वा ऽमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं, नीवीं च परिधाय +अप उपस्पृशेत् १४
1/05/16/15 …{Loading}…
आर्द्रं वा शकृद् ओषधीर् भूमिं वा १५
मृताशौचम्
2/06/15/02 …{Loading}…
मातुश् च योनि-संबन्धेभ्यः पितुश् +++(स्वेन साकं)+++ चासप्तमात् पुरुषाद्
यावता वा संबन्धो ज्ञायते
तेषां प्रेतेषूदकोपस्पर्शनं
+++(मृतान्)+++ गर्भान्+++(=बालान्)+++ परिहाप्यापरिसंवत्सरान् २
2/06/15/03 …{Loading}…
माता-पितराव् एव तेषु +++(मृतापरिसंवत्सरेषु गर्भेषु)+++ ३
2/06/15/04 …{Loading}…
हर्तारश् च ४
2/06/15/05 …{Loading}…
भार्यायां परम-गुरु+++(=आचार्य-मातृ-पितृ)+++-संस्थायां +++(=मरणे)+++ च +++(परेद्युर्)+++ +आकालम् +++(२४ होराणाम्)+++ अभोजनम् ५
2/06/15/06 …{Loading}…
आतुर+++(=शोक)+++व्यञ्जनानि कुर्वीरन् ६
2/06/15/07 …{Loading}…
केशान् प्रकीर्य पांसूना, +++(केशान्)+++ उप्य, एक-वाससो दक्षिणा-मुखाः सकृद्-उपमज्ज्योत्तीर्योपविशन्ति ७
2/06/15/08 …{Loading}…
एवं त्रिः ८
2/06/15/09 …{Loading}…
+++(“मह्यम् उदकं दत्तम्” इति)+++ तत्+++(→प्रेत)+++-प्रत्ययम् उदकम् उत्सिच्य
+अ-प्रतीक्षा ग्रामम् एत्य
यत् स्त्रिय आहुस् तत् कुर्वन्ति ९
2/06/15/10 …{Loading}…
इतरेषु चैतद् एवैक उपदिशन्ति १०
अनध्यायः
1/03/10/03 …{Loading}…
तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावद् आशौचमनध्यायः)+++३
1/03/10/04 …{Loading}…
मातरि पितर्य् आचार्य इति द्वादशाहाः ४
1/03/10/05 …{Loading}…
तेषु चोदकोपस्पर्शनं तावन्तं कालम् ५
वपनम्
1/03/10/06 …{Loading}…
अनु-भाविनां+++(=पश्चाज्-जातानां)+++ च परिवापनम् ६
1/03/10/07 …{Loading}…
न समावृत्ता +++(केशान्)+++ वपेरन्न् अन्यत्र +++(याग-)+++विहाराद् इत्येके ७
1/03/10/08 …{Loading}…
अथापि ब्राह्मणं - “रिक्तो वा एषोऽनपिहितो यन् मुण्डः। तस्यैतद् अपिधानं यच् छिखे"ति ८
1/03/10/09 …{Loading}…
सत्रेषु तु वचनाद् वपनं शिखायाः ९
अन्यत्रोक्तानि
प्रायश्चित्तम् अपपात्र-संसर्गे।
चौक्षता
1/05/15/13 …{Loading}…
मूढस्वस्तरे चासंस्पृशन्न् अन्यानप्रयतान्प्रयतो मन्येत १३
1/05/15/14 …{Loading}…
तथा तृणकाष्ठेषु निखातेषु १४