राजा

2/09/25/01 …{Loading}…

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्वक्ष्यामः १

पुर-व्यवस्था

2/09/25/02 …{Loading}…

दक्षिणाद्वारं वेश्म पुरं च मापयेत् २

2/09/25/03 …{Loading}…

अन्तरस्यां पुरि वेश्म ३

2/09/25/04 …{Loading}…

तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४

2/09/25/05 …{Loading}…

दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५

2/09/25/06 …{Loading}…

सर्वेष्वेवाजस्रा अग्नयः स्युः ६

2/09/25/07 …{Loading}…

अग्निपूजा च नित्या यथा गृहमेधे ७

2/09/25/08 …{Loading}…

आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८

2/09/25/09 …{Loading}…

तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९

दानम्, पोषणम्

2/09/25/08 …{Loading}…

आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८

2/09/25/09 …{Loading}…

तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९

2/09/25/10 …{Loading}…

गुरूनमात्यांश्च नातिजीवेत् १०

2/09/25/11 …{Loading}…

न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११

आयुध-मनोरञ्जन-निरोधः

2/09/25/14 …{Loading}…

आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४

रक्षा

2/09/25/15 …{Loading}…

क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते १५

2/10/26/02 …{Loading}…

ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति २

2/10/26/03 …{Loading}…

एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ३

2/10/26/04 …{Loading}…

ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये निदध्यात् ४

2/10/26/05 …{Loading}…

तेषां पुरुषास्तथागुणा एव स्युः ५

2/10/26/06 …{Loading}…

सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ६

2/10/26/07 …{Loading}…

क्रोशो ग्रामेभ्यः ७

2/10/26/08 …{Loading}…

तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ८

दण्डन-विचारोऽन्यत्रोक्तः।

करः

2/10/26/09 …{Loading}…

धार्म्यं शुल्कमवहारयेत् ९

2/10/26/10 …{Loading}…

अकरः श्रोत्रियः १०

2/10/26/11 …{Loading}…

सर्ववर्णानां च स्त्रियः ११

2/10/26/12 …{Loading}…

कुमाराश्च प्राग् व्यञ्जनेभ्यः १२

2/10/26/13 …{Loading}…

ये च विद्यार्था वसन्ति १३

2/10/26/14 …{Loading}…

तपस्विनश्च ये धर्मपराः १४

2/10/26/15 …{Loading}…

शूद्रश्च पादावनेक्ता +++(= पादधावनजीवी)+++ १५

2/10/26/16 …{Loading}…

अन्धमूकबधिररोगविष्टाश्च १६

2/10/26/17 …{Loading}…

ये व्यर्था +++(=मुक्ताश् शास्त्रैः)+++ द्रव्यपरिग्रहैः १७

पशु-रक्षणम्

2/11/28/06 …{Loading}…

अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६

2/11/28/07 …{Loading}…

प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ७

2/11/28/08 …{Loading}…

पुनः प्रमादे सकृदवरुध्य ८

2/11/28/09 …{Loading}…

तत ऊर्ध्वं न सूर्क्षेत् ९