प्रजा-प्रशंसा
2/09/24/01 …{Loading}…
अथाप्यस्य प्रजातिम्
अमृतम् आम्नाय आह । प्रजामनु प्रजायसे तदु ते मर्त्यामृतमिति १
2/09/24/02 …{Loading}…
अथापि - स एवायं विरूढः पृथक् प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् २
2/09/24/03 …{Loading}…
ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च वर्धयन्ति ३
2/09/24/04 …{Loading}…
एवमवरोऽवरः परेषाम् +++(=पूर्विकाणाम्)+++ ४
2/09/24/05 …{Loading}…
आ भूतसंप्लवात् ते स्वर्गजितः ५
2/09/24/06 …{Loading}…
पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ६
2/09/24/07 …{Loading}…
अथापि प्रजापतेर्वचनम् ७
2/09/24/08 …{Loading}…
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित् सह +++(वयम् प्रजापतयः)+++ स्मो, रजो भूत्वा ध्वंसते ऽन्यत् प्रशंसन्न् इति ८
प्रजा-पाप-फलम्
2/09/24/09 …{Loading}…
तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्णं वनस्पतेर्न परान्हिंसन्ति ९
2/09/24/10 …{Loading}…
नास्यास्मिंल् लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः १०
2/09/24/11 …{Loading}…
तदेतेन वेदितव्यम् ११
2/09/24/12 …{Loading}…
प्रजापतेरृषीणामिति सर्गोऽयम् १२
2/09/24/13 …{Loading}…
तत्र ये पुण्यकृतस् तेषां प्रकृतयः परा ज्वलन्त्य +++(= तारारूपेण)+++ उपलभ्यन्ते १३
2/06/13/01 …{Loading}…
सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १
2/06/13/03 …{Loading}…
पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३
2/06/13/04 …{Loading}…
तत्रापि दोषवान्पुत्र एव ४
स्त्री-व्यभिचारे
2/06/13/05 …{Loading}…
उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५
2/06/13/06 …{Loading}…
अथाप्युदाहरन्ति ।
इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा ।
यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ६-१
रेतोधाः पुत्रं नयति परेत्य यमसादने ।
तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२
अप्रमत्ता रक्षथ तन्तुमेतं
मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति सांपराये
मोघं वेत्ता कुरुते तन्तुमेतम् ६ इति।
+++(दायभाग-विषयोऽन्यत्र।)+++