कन्यादाने निषेधाः
2/05/11/15 …{Loading}…
सगोत्राय दुहितरं न प्रयच्छेत् १५
2/05/11/16 …{Loading}…
मातुश्च योनिसंबन्धेभ्यः १६
विवाहप्रकाराः
2/05/11/17 …{Loading}…
ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजासहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणालंकृत्य १७
2/05/11/18 …{Loading}…
आर्षे दुहितृमते मिथुनौ गावौ देयौ १८
2/05/11/19 …{Loading}…
दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् १९
2/05/11/20 …{Loading}…
मिथः कामात्सांवर्तेते स गान्धर्वः २०
2/05/12/01 …{Loading}…
शक्ति-विषयेण द्रव्याणि दत्वा वहेरन् - स आसुरः १
2/05/12/02 …{Loading}…
दुहितृमतः प्रोथयित्वा वहेरन् - स राक्षसः २
2/05/12/03 …{Loading}…
तेषां त्रय आद्याः प्रशस्ताः, पूर्वः पूर्वः श्रेयान् ३
2/05/12/04 …{Loading}…
यथा युक्तो विवाहस् - तथा युक्ता प्रजा भवति ४
विवाह-विधिः
2/06/13/11 …{Loading}…
विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्मिथुया कुर्यादिति ११-१
तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२