2/09/21/18 …{Loading}…
अथ वानप्रस्थः १८
अधिकारः
2/09/22/06 …{Loading}…
अथ वानप्रस्थस्यैवानुपूर्व्यम् एक उपदिशन्ति ६
2/09/22/07 …{Loading}…
विद्यां समाप्य
दारं कृत्वाग्नीन् आधाय
कर्माण्य् आरभते, सोमावरार्ध्यानि यानि श्रूयन्ते ७
2/09/22/08 …{Loading}…
गृहान् कृत्वा सदारः सप्रजः सहाग्निभिर् बहिर्ग्रामाद् वसेत् ८
2/09/22/09 …{Loading}…
एको वा ९
प्रव्रजनम्
2/09/22/15 …{Loading}…
तस्य द्वन्द्वं द्रव्याणाम् एक उपदिशन्ति -
पाकार्थ-भोजनार्थ-
वासि+++(=chisel)+++-परशु-दात्र+++(=असिद)+++-काजानाम्+++(=mallet)+++ १५
2/09/22/16 …{Loading}…
द्वंद्वानाम् एकैकम् आदायेतराणि +++(भार्यायै)+++ दत्वा ऽरण्यम् अवतिष्ठेत १६
विधिः
2/09/21/19 …{Loading}…
अत एव ब्रह्मचर्यवान्प्रव्रजति १९
2/09/21/20 …{Loading}…
तस्योपदिशन्ति २०
2/09/21/21 …{Loading}…
एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१
2/09/21/21 …{Loading}…
एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१
2/09/22/10 …{Loading}…
शिलोञ्छेन+++(=उपात्तशस्यात् क्षेत्रात् शेषावचयनेन)+++ वर्तयेत् १०
2/09/22/11 …{Loading}…
न चात ऊर्ध्वं प्रतिगृह्णीयात् ११
2/09/22/12 …{Loading}…
अभिषिक्तश् च जुहुयात् १२
2/09/22/17 …{Loading}…
तस्यारण्येनैवात ऊर्ध्वं होमो, वृत्तिः, +++(अतिथि-)+++प्रतीक्षा, ऽऽच्छादनं च १७
2/09/22/18 …{Loading}…
येषु कर्मसु पुरोडाशाश् चरवस्
तेषु कार्याः १८
2/09/22/19 …{Loading}…
सर्वं चोपांशु - सह स्वाध्यायेन १९
2/09/22/20 …{Loading}…
नारण्यम् अभ्याश्रावयेत् २०
2/09/22/22 …{Loading}…
आकाशे स्वयम् +++(न गृहे)+++ २२
2/09/22/23 …{Loading}…
अनुपस्तीर्णे शय्य्-आसने
भोजनम्
2/09/22/01 …{Loading}…
तस्यारण्यम् आच्छादनं विहितम् १
2/09/22/02 …{Loading}…
ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेत् २
2/09/22/03 …{Loading}…
अन्ततः प्रवृत्तानि +++(= स्वयम् पतितानि)+++ ३
2/09/22/04 …{Loading}…
ततोऽपो वायुम् आकाशम् इत्य् अभिनिश्रयेत् ४
2/09/22/05 …{Loading}…
तेषाम् उत्तर उत्तरः संयोगः फलतो विशिष्टः ५
2/09/22/24 …{Loading}…
नवे सस्ये प्राप्ते पुराणम् अनुजानीयात् +++(विसर्जनाय)+++ २४
2/09/23/01 …{Loading}…
भूयांसं वा नियमम् इच्छन्न्
अन्वहम् एव पात्रेण सायं प्रातर् अर्थम् आहरेत् १
2/09/23/02 …{Loading}…
ततो मूलैः फलैः पर्णैस् तृणैर् इति वर्तयंश् चरेद्
अन्ततः प्रवृत्तानि +++(=स्वयम्पतितानि)+++,
ततोऽपो वायुम् आकाशम्
इत्य् अभिनिश्रयेत्।
तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः २