परिचयः
1/01/01/09 …{Loading}…
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९
1/01/01/10 …{Loading}…
“सर्वेभ्यो वेदेभ्यः सावित्र्य् अनूच्यत” इति हि ब्राह्मणम् १०
2/06/15/23 …{Loading}…
अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३
2/06/15/24 …{Loading}…
सा +++(=उपनयनम्)+++ निष्ठा +++(=कर्माधिकार-प्रारम्भः)+++२४
कालः
1/01/01/19 …{Loading}…
वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यं शरदि वैश्यं,
गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भ-द्वादशेषु वैश्यम् १९
1/01/01/20 …{Loading}…
अथ +++(उपनयन-विषये)+++ काम्यानि २०
1/01/01/21 …{Loading}…
सप्तमे ब्रह्म-वर्चस-कामम् २१
1/01/01/22 …{Loading}…
अष्टम आयुष्-कामम् २२
1/01/01/23 …{Loading}…
नवमे तेजस्-कामम् २३
1/01/01/24 …{Loading}…
दशमे ऽन्नाद्य-कामम् २४
1/01/01/25 …{Loading}…
एकादश इन्द्रिय-कामम् २५
1/01/01/26 …{Loading}…
द्वादशे पशु-कामम् २६
1/01/01/27 …{Loading}…
आ षोडशाद् ब्राह्मणस्यानात्यय, आ द्वाविंशात् क्षत्रियस्य+ आ चतुर्विंशाद् वैश्यस्य - यथा व्रतेषु समर्थः स्याद् यानि वक्ष्यामः २७
अतिक्रान्ते काले
1/01/01/28 …{Loading}…
अतिक्रान्ते सावित्र्याः काल+++(य्)+++, ऋतुं +++(यावत्)+++ त्रैविद्यकं ब्रह्मचर्यं +++(अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य)+++ चरेत् २८
1/01/01/29 …{Loading}…
अथोपनयनम् २९
1/01/01/30 …{Loading}…
ततः संवत्सरम् उदकोपस्पर्शनम् ३०
1/01/01/31 …{Loading}…
अथाध्याप्यः ३१
अनुपनीतकुलस्य
1/01/01/33 …{Loading}…
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् ३३
1/01/01/34 …{Loading}…
तेषाम् इच्छतां प्रायश्चित्तम् ३४
1/01/01/35 …{Loading}…
यथा प्रथमे ऽतिक्रम ऋतुर् एवं संवत्सरः ३५
1/01/01/36 …{Loading}…
अथोपनयनं, तत उदकोपस्पर्शनम् ३६
1/01/02/01 …{Loading}…
प्रति-पूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः १
1/01/02/02 …{Loading}…
सप्तभिः पावमानीभिर् “यदन्ति यच् च दूरक” इति एताभिर्, यजुष्-पवित्रेण, +++(वामदेव्यम्→)+++साम-पवित्रेणाङ्गिरसेणेति २
पावमान्यः
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतूँ॒र् अनु॑ ॥46॥
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा॑त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम् ।
यदन्ति
य᳓द् अ᳓न्ति य᳓च् च दूरके᳓
भयं᳓ विन्द᳓ति मा᳓म् इह᳓
प᳓वमान वि᳓ त᳓ज् जहि
यजुष्-पवित्रम्
विश्वास-प्रस्तुतिः …{Loading}…
आपो॑ अ॒स्मान् मा॒तर॑श् शुन्धन्तु।+++(र४)+++
घृ॒तेन॑ नो घृत॒-पुवᳶ॑+++(→घृतपावकाः)+++ पुनन्तु ।
विश्व॑म् अ॒स्मत् प्र व॑हन्तु रि॒प्रम्+++(=पापम्)+++ +++(र५)+++
उद् +++(अद्भ्य)+++ आ॑भ्य॒श् शुचि॒र् आ पू॒त ए॑मि ।+++(र५)+++
साम-पवित्रम्
ऋक्
क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥
विश्वास-शाकल-प्रस्तुतिः …{Loading}…
क᳓या नश् चित्र᳓ +++(→इन्द्रः)+++ आ᳓ भुवद्
ऊती᳓ +++(=रक्षणम्/ तर्पणम् [तेन])+++, सदा᳓-वृधः +++(=वर्धमानः)+++ स᳓खा ।
क᳓या श᳓चिष्ठया +++(=प्रज्ञावता)+++ वृता᳓ +++(=वर्तनेन)+++ १
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥
विश्वास-शाकल-प्रस्तुतिः …{Loading}…
क᳓स् त्वा सत्यो᳓ म᳓दानां
मं᳓हिष्ठो +++(=पूज्यः)+++ मत्सद् +++(=मादयेद्)+++ अ᳓न्धसः+++(= भोज्यः (→[सोमः])+++) ।
दृळ्हा᳓ +++(=ढम्)+++ चिद् आरु᳓जे +++(=सम्भङ्क्तुम्)+++ व᳓सु २
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥
विश्वास-शाकल-प्रस्तुतिः …{Loading}…
अभी᳓ षु᳓ णः स᳓खीनाम्
अविता᳓ जरितॄणा᳓म् +++(=स्तोतॄणाम्)+++।
शतं᳓ भवास्य् ऊति᳓भिः +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++
साम - वामदेव्यम्।
वामदेव्यम् ।
का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।
का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥
आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
[ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।
आङ्गीरसम्
+++(अहं)+++ हँ॒सश् शु॑चि॒-षद्, वसु॑र् अन्तरिक्ष॒-सद्,
+होता॑ वेदि॒-षद्, अति॑थिर् दुरोण॒-सत् ।
नृ॒-षद्, व॑र॒-सद्, ऋ॑त॒-सद् व्यो॑म॒-सद्,
अ॒ब्-जा, गो॒-जा, ऋ॑त॒-जा, अ॑द्रि॒-जा, ऋ॒तं बृ॒हत् ॥
1/01/02/03 …{Loading}…
अपि वा व्याहृतीभिर् एव ३
1/01/02/04 …{Loading}…
अथाध्याप्यः ४
1/01/02/05 …{Loading}…
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं - ते श्मशान-संस्तुताः ५
1/01/02/06 …{Loading}…
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तं - द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६
1/01/02/07 …{Loading}…
अथ गृहमेधोपदेशनम् ७
1/01/02/08 …{Loading}…
नाध्यापनम् ८
1/01/02/09 …{Loading}…
ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९
1/01/02/10 …{Loading}…
तत ऊर्ध्वं प्रकृतिवत् १०