परिचयः
09 उपनयनं विद्यार्थस्य श्रुतितः ...{Loading}...
उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९
10 "सर्वेभ्यो वेदेभ्यः सावित्र्य् ...{Loading}...
“सर्वेभ्यो वेदेभ्यः सावित्र्य् अनूच्यत” इति हि ब्राह्मणम् १०
23 अत्र ह्यधिकारः शास्त्रैर् ...{Loading}...
अत्र ह्य् अधिकारः +++(कर्मसु)+++ शास्त्रैर् +++(दत्ता)+++ भवति २३
24 सा निष्ठा ...{Loading}...
सा +++(=उपनयनम्)+++ निष्ठा +++(=कर्माधिकार-प्रारम्भः)+++२४
कालः
19 वसन्ते ब्राह्मणम् उपनयीत, ...{Loading}...
वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यं शरदि वैश्यं,
गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भ-द्वादशेषु वैश्यम् १९
20 अथ काम्यानि ...{Loading}...
अथ +++(उपनयन-विषये)+++ काम्यानि २०
21 सप्तमे ब्रह्मवर्चसकामम् ...{Loading}...
सप्तमे ब्रह्म-वर्चस-कामम् २१
22 अष्टम आयुष्कामम् ...{Loading}...
अष्टम आयुष्-कामम् २२
23 नवमे तेजस्कामम् ...{Loading}...
नवमे तेजस्-कामम् २३
24 दशमेऽन्नाद्यकामम् ...{Loading}...
दशमे ऽन्नाद्य-कामम् २४
25 एकादश इन्द्रियकामम् ...{Loading}...
एकादश इन्द्रिय-कामम् २५
26 द्वादशे पशुकामम् ...{Loading}...
द्वादशे पशु-कामम् २६
27 आ षोडशाद् ब्राह्मणस्यानात्यय, ...{Loading}...
आ षोडशाद् ब्राह्मणस्यानात्यय, आ द्वाविंशात् क्षत्रियस्य+ आ चतुर्विंशाद् वैश्यस्य - यथा व्रतेषु समर्थः स्याद् यानि वक्ष्यामः २७
अतिक्रान्ते काले
28 अतिक्रान्ते सावित्र्याः काल ...{Loading}...
अतिक्रान्ते सावित्र्याः काल+++(य्)+++, ऋतुं +++(यावत्)+++ त्रैविद्यकं ब्रह्मचर्यं +++(अग्नि-परिचर्याम् अध्ययनं गुरु-शुश्रूषाम् इति परिहाप्य)+++ चरेत् २८
29 अथोपनयनम् ...{Loading}...
अथोपनयनम् २९
30 ततः संवत्सरम् उदकोपस्पर्शनम् ...{Loading}...
ततः संवत्सरम् उदकोपस्पर्शनम् ३०
31 अथाध्याप्यः ...{Loading}...
अथाध्याप्यः ३१
अनुपनीतकुलस्य
33 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत् ३३
34 तेषाम् इच्छताम् प्रायश्चित्तम् ...{Loading}...
तेषाम् इच्छतां प्रायश्चित्तम् ३४
35 यथा प्रथमे ऽतिक्रम ...{Loading}...
यथा प्रथमे ऽतिक्रम ऋतुर् एवं संवत्सरः ३५
36 अथोपनयनं, तत उदकोपस्पर्शनम् ...{Loading}...
अथोपनयनं, तत उदकोपस्पर्शनम् ३६
01 प्रतिपूरुषं सङ्ख्याय संवत्सरान् ...{Loading}...
प्रति-पूरुषं संख्याय संवत्सरान् यावन्तो ऽनुपेताः स्युः १
02 सप्तभिः पावमानीभिर् यदन्ति ...{Loading}...
सप्तभिः पावमानीभिर् “यदन्ति यच् च दूरक” इति एताभिर्, यजुष्-पवित्रेण, साम-पवित्रेणाङ्गिरसेणेति+++(→ वामदेव्यम्)+++ २
पावमान्यः
२१ यदन्ति यच्च ...{Loading}...
य᳓द् अ᳓न्ति य᳓च् च दूरके᳓
भयं᳓ विन्द᳓ति मा᳓म् इह᳓
प᳓वमान वि᳓ त᳓ज् जहि
०६७ २२-२७ ...{Loading}...
२२ पवमानः सो ...{Loading}...
प᳓वमानः सो᳓ अद्य᳓ नः
पवि᳓त्रेण वि᳓चर्षणिः
यः᳓ पोता᳓ स᳓ पुनातु नः
२३ यत्ते पवित्रमर्चिष्यग्ने ...{Loading}...
य᳓त् ते पवि᳓त्रम् अर्चि᳓षि
अ᳓ग्ने वि᳓ततम् अन्त᳓र् आ᳓
ब्र᳓ह्म ते᳓न पुनीहि नः
२४ यत्ते पवित्रमर्चिवदग्ने ...{Loading}...
य᳓त् ते पवि᳓त्रम् अर्चिव᳓द्+++(=अर्चिष्मत्)+++
अ᳓ग्ने ते᳓न पुनीहि नः ।
ब्रह्म-सवैः᳓ पुनीहि नः ॥
२५ उभाभ्यां देव ...{Loading}...
उभा᳓भ्यां देव सवितः
पवि᳓त्रेण सवे᳓न च
मा᳐᳓म् पुनीहि विश्व᳓तः
२६ त्रिभिष्ट्वं देव ...{Loading}...
त्रिभि᳓ष् - ट्वं᳓ देव सवितर्
व᳓र्षिष्ठैः, सोम धा᳓मभिः ।
अ᳓ग्ने द᳓क्षैः - पुनीहि नः ॥
२७ पुनन्तु मां ...{Loading}...
पुन᳓न्तु मां᳓ देव-जनाः᳓
पुन᳓न्तु व᳓सवो धिया᳓ ।
वि᳓श्वे देवाः पुनीत᳓ मा
जा᳓तवेदः पुनीहि᳓ मा ॥
यजुष्-पवित्रम्
‘आपो अस्मान्मातरः शुन्धन्त्वि’त्यनेन Taitt. Saṃh. I, 2, 1, 1 +++(पूरणीयम्??)+++
साम-पवित्रम्
वामदेव्यम् ...{Loading}...
ऋक्
12-1_0682 कया नश्चित्र ...{Loading}...
क꣡या꣢ नश्चि꣣त्र꣡ आ भुव꣢꣯दू꣣ती꣢ स꣣दा꣢वृ꣣धः꣢ स꣡खा꣢। क꣢या꣣ श꣡चि꣢ष्ठया वृ꣣ता꣢ ॥ 12-1:0682 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
क᳓या नश् चित्र᳓ +++(→इन्द्रः)+++ आ᳓ भुवद्
ऊती᳓ +++(=रक्षणम्/ तर्पणम् [तेन])+++, सदा᳓-वृधः +++(=वर्धमानः)+++ स᳓खा ।
क᳓या श᳓चिष्ठया +++(=प्रज्ञावता)+++ वृता᳓ +++(=वर्तनेन)+++ १
12-2_0683 कस्त्वा सत्यो ...{Loading}...
क꣡स्त्वा꣢ स꣣त्यो꣡ मदा꣢꣯नां꣣ म꣡ꣳहि꣢ष्ठो मत्स꣣द꣡न्ध꣢सः। दृ꣣ढा꣡ चि꣢दा꣣रु꣢जे꣣ व꣡सु꣢ ॥ 12-2:0683 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
क᳓स् त्वा सत्यो᳓ म᳓दानां
मं᳓हिष्ठो +++(=पूज्यः)+++ मत्सद् +++(=मादयेद्)+++ अ᳓न्धसः+++(= भोज्यः (→[सोमः])+++) ।
दृळ्हा᳓ +++(=ढम्)+++ चिद् आरु᳓जे +++(=सम्भङ्क्तुम्)+++ व᳓सु २
12-3_0684 अभी षु ...{Loading}...
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितृ꣣णा꣢म्। श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥ 12-3:0684 ॥॥12(टा)॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अभी᳓ षु᳓ णः स᳓खीनाम्
अविता᳓ जरितॄणा᳓म् +++(=स्तोतॄणाम्)+++।
शतं᳓ भवास्य् ऊति᳓भिः +++(=रक्षाभिः)+++३
+++(अभिभवसि = सम्मुखो भवसि)+++
साम - वामदेव्यम्।
- पारम्परिक-गान-मूलम् अत्र।
वामदेव्यम् ।
का+++([टा]%)+++याअ । न+++([धू])+++श्चा+++(३)+++अइत्रा+++(३)+++आ+++(["])+++ भुवात+++(v)+++।
ऊ+++([त]%३)+++ती+++([गो]–%३)+++। सादा+++(["])+++, वृधस्, सा+++(३–%)+++खा+++([त]३–%)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
क+++([तः])+++या+++(–%३)+++अ +शचाइ,,ष्ठ+++([टि])+++यौ+++(”)+++हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३[फ])+++आर्तो+++(”)+++, ओ+++(")+++हाइ ।।
का+++(%)+++स्+++([टा])+++ त्वा+++(")+++अ। स+++([धू])+++त्यो+++(")+++ओ, मा+++(%)+++दा+++(%)+++ना+++(")+++अम् ।
मा+++([त]%)+++ं,हि+++([गो])+++ष्ठो+++(["])+++ओ, मात्साद्, अन्धा+++(३–%)+++,, सा+++([त]–%३)+++।
औ+++([पे])+++हो+++(“३)+++हाइ।
दृ+++([तः])+++ढा+++(–%३)+++अ चिदा। रु+++([टी])+++जौ+++([”])+++हो+++(["])+++।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
वा+++(“३)+++आ+++([फ])+++सो, ओ+++(”)+++हाइ॥
आ+++([टा]%)+++भि+++(")+++इ । षु+++([धू])+++ णा+++(")+++अ, स्सा+++(%)+++खि+++(%)+++ना+++(")+++अम्।
आ+++([त]%)+++वि+++([घि])+++ता+++(["])+++अ, जराइत्री+++(["])+++इणा+++(–%३)+++म्+++([त])+++ ।
औ+++([पे])+++हो+++(“३)+++हाइ।
श+++([तः])+++ता+++(–%३)+++अम् भव,,सि+++([टी])+++ यौ+++([”])+++ हो।
ओ हिं+++([ता])+++म्मा+++([प्रे])+++अ।
[ऊ]+++(v)+++ता+++([फ]“३)+++आयो, ओ+++(”)+++हाइ ।।
03 अपि वा व्याहृतीभिर् ...{Loading}...
अपि वा व्याहृतीभिर् एव ३
04 अथाध्याप्यः ...{Loading}...
अथाध्याप्यः ४
05 अथ यस्य प्रपितामहादि ...{Loading}...
अथ यस्य प्रपितामहादि नानुस्मर्यत उपनयनं - ते श्मशान-संस्तुताः ५
06 तेषाम् अभ्यागमनम् भोजनं ...{Loading}...
तेषाम् अभ्यागमनं भोजनं विवाहम् इति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तं - द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेद् । अथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः ६
07 अथ गृहमेधोपदेशनम् ...{Loading}...
अथ गृहमेधोपदेशनम् ७
08 नाध्यापनम् ...{Loading}...
नाध्यापनम् ८
09 ततो यो निर्वर्तते ...{Loading}...
ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे ९
10 तत ऊर्ध्वम् प्रकृतिवत् ...{Loading}...
तत ऊर्ध्वं प्रकृतिवत् १०