समावृत्तः

1/11/30/01 …{Loading}…

विद्यया स्नातीत्येके १

1/11/30/02 …{Loading}…

तथा व्रतेनाष्टाचत्वारिंशत्परीमाणेन २

1/11/30/03 …{Loading}…

विद्याव्रतेन चेत्येके ३

1/11/30/04 …{Loading}…

तेषु सर्वेषु स्नातकवद्वृत्तिः ४

1/11/30/05 …{Loading}…

समाधिविशेषाच्छ्रुतिविशेषाच्च पूजायां फलविशेषः ५

1/11/30/06 …{Loading}…

अथ स्नातकव्रतानि ६

1/11/30/07 …{Loading}…

पूर्वेण ग्रामान् निष्क्रमण-प्रवेशनानि शीलयेद्, उत्तरेण वा ७

1/11/30/08 …{Loading}…

संध्योश् च बहिर्ग्रामाद् आसनं, वाग्-यतश् च ८

1/11/30/09 …{Loading}…

विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९

1/11/30/10 …{Loading}…

सर्वान् रागान् वाससि वर्जयेत् १०

1/11/30/11 …{Loading}…

+++(वस्त्रं यत्)+++ कृष्णं च स्वाभाविकम् ११

1/11/30/12 …{Loading}…

अनूद्भासि वासो वसीत १२

1/11/30/13 …{Loading}…

अ-प्रतिकृष्टं +++(जीर्णत्वादेः)+++ च शक्तिविषये १३

1/11/30/14 …{Loading}…

दिवा च शिरसः प्रावरणं वर्जयेन् - मूत्र-पुरीषयोः कर्म परिहाप्य १४

1/11/30/15 …{Loading}…

शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५

+++(मूत्रपुरिषयोर् वर्तनम् अन्यत्रोक्तम्।)+++

गुरौ गौरवदर्शने

अन्यत्रोक्तम्।

वेषः

1/02/08/02 …{Loading}…

माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २

1/02/08/03 …{Loading}…

उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३

1/02/08/04 …{Loading}…

स्वैरिकर्मसु च ४

1/02/08/05 …{Loading}…

यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५

1/02/08/07 …{Loading}…

स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७

आचार्यस्य तस्मिन् वृत्तिः

1/02/08/06 …{Loading}…

तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६