पत्नी

पत्नीत्व-सिद्धिः

2/05/11/12 …{Loading}…

धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत १२

2/05/11/13 …{Loading}…

अन्यतराभावे कार्या प्राग् अग्न्याधेयात् १३

2/05/11/14 …{Loading}…

आधाने हि सती कर्मभिः संबध्यते येषामेतदङ्गम् १४

2/06/13/01 …{Loading}…

सवर्णा-ऽपूर्व+++(=अनन्यव्यूढा)+++-शास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः १

2/06/13/03 …{Loading}…

पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३

2/06/13/04 …{Loading}…

तत्रापि दोषवान्पुत्र एव ४

सहत्वम्

2/06/14/16 …{Loading}…

जाया-पत्योर् न विभागो विद्यते १६

2/06/14/17 …{Loading}…

पाणिग्रहणाद्धि सहत्वं कर्मसु १७

2/06/14/18 …{Loading}…

तथा पुण्यफलेषु १८

2/06/14/19 …{Loading}…

द्रव्यपरिग्रहेषु च १९

2/06/14/20 …{Loading}…

न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २०

2/11/29/03 …{Loading}…

कुटुम्बिनौ धनस्येशते ३

2/11/29/04 …{Loading}…

तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ४

स्त्री-व्यभिचारे

2/06/13/05 …{Loading}…

उत्पादयितुः पुत्र इति हि ब्राह्मणम् ५

2/06/13/06 …{Loading}…

अथाप्युदाहरन्ति ।
इदानीमेवाहं जनक स्त्रीणामीर्ष्यामि नो पुरा ।
यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् ६-१

रेतोधाः पुत्रं नयति परेत्य यमसादने ।
तस्माद्भार्यां रक्षन्ति बिभ्यन्तः पररेतसः ६-२

अप्रमत्ता रक्षथ तन्तुमेतं
मा वः क्षेत्रे परबीजानि वाप्सुः ।
जनयितुः पुत्रो भवति सांपराये
मोघं वेत्ता कुरुते तन्तुमेतम् ६ इति।

+++(विवाह-विषयः पृथग् उक्तः।)+++