गृहस्थ-धर्मः

भोजनम्

2/01/01/01 …{Loading}…

पाणिग्रहणादधि गृहमेधिनोर्व्रतम् १

2/01/01/02 …{Loading}…

कालयोर्भोजनम् २

2/01/01/03 …{Loading}…

अतृप्तिश्चान्नस्य ३

जलरक्षणम्

2/01/01/15 …{Loading}…

नित्यमुदधानान्यद्भिररिक्तानि स्युर्गृहमेधिनोर्व्रतम् १५

अध्ययन-गौणत्वे

1/04/13/19 …{Loading}…

निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९

1/04/13/20 …{Loading}…

एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०

1/04/13/21 …{Loading}…

तच्छास्त्रैर्विप्रतिषिद्धम् २१

1/04/13/22 …{Loading}…

निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते २२

1/04/14/01 …{Loading}…

अग्निहोत्रमतिथयः १

1/04/14/02 …{Loading}…

यच्चान्यदेवं युक्तम् २

भृत्याः

2/04/09/10 …{Loading}…

ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः १०

2/04/09/11 …{Loading}…

काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ११

नियोगः

2/10/27/02 …{Loading}…

सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २

2/10/27/03 …{Loading}…

कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३

2/10/27/04 …{Loading}…

तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४

2/10/27/05 …{Loading}…

अविशिष्टं हि परत्वं पाणेः ५

2/10/27/06 …{Loading}…

तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६

2/10/27/07 …{Loading}…

नियमारम्भणो हि वर्षीयान् +++(=गरीयान्)+++ अभ्युदय एवमारम्भणादपत्यात् ७

पर्व-नियमा, मैथुन-नियमा

अन्यत्रोक्ताः।