विवादः

निर्णेतारः

2/11/29/05 …{Loading}…

विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः ५

साक्षि-वचनम्

2/11/29/07 …{Loading}…

पुण्याहे प्रातरग्नाविद्धे ऽपामन्ते राजवत्य् उभयतः +++(उभयपक्षाभ्याम्)+++ समाख्याप्य सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ७

2/11/29/08 …{Loading}…

अनृते राजा दण्डं प्रणयेत् ८

2/11/29/09 …{Loading}…

नरकश्चात्राधिकः सांपराये ९

2/11/29/10 …{Loading}…

सत्ये स्वर्गः सर्वभूतप्रशंसा च १०

+++(साक्षिवचने वाङ्-नियमनम् अन्यत्र प्रशस्तम्।)+++

निर्णय-विधानम्

2/11/29/06 …{Loading}…

संदेहे लिङ्गतो +++(=अनुमानेन)+++ दैवेनेति विचित्य ६