पावित्र्ये
1/11/31/04 …{Loading}…
देवताभिधानं चाप्रयतः ४
+++(अपपात्रसम्भाषणे प्रायश्चित्तम् अन्यत्रोक्तम्)+++
परुष-वचने
1/11/31/05 …{Loading}…
परुषं +++(वचनं)+++ चोभयोर् देवतानां राज्ञश् च +++(वर्जयेत्)+++ ५
1/11/31/08 …{Loading}…
गोर्, दक्षिणानां, कुमार्याश् च परीवादान् वर्जयेत् ८
1/11/31/15 …{Loading}…
न “+असौ मे सपत्न” ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्, द्विषन्तं भ्रातृव्यं जनयेत् १५
वचन-शैल्याम्
1/11/31/09 …{Loading}…
+++(सस्यधान्यादिकं भक्षयन्तीं←)+++ स्पृहतीं च गां नाचक्षीत +++(तत्स्वामिने)+++ ९
1/11/31/10 …{Loading}…
संसृष्टां +++(गां)+++ च वत्सेनानिमित्ते +++(नाचक्षीत तत्स्वामिने)+++१०
1/11/31/11 …{Loading}…
नाधेनुम् अधेनुर् इति ब्रूयात् - “धेनुभव्ये"त्य् एव ब्रूयात् ११
1/11/31/12 …{Loading}…
न भद्रम् “भद्रम्” इति ब्रूयात् । +++(तत्-स्थाने)+++ “पुण्यं प्रशास्तम्” इत्येव ब्रूयात् १२
1/11/31/16 …{Loading}…
नेन्द्र-धनुर् इति परस्मै प्रब्रूयात् १६
1/11/31/17 …{Loading}…
न पततः +++(=पक्षिणः/ asteroids)+++ संचक्षीतः+++(=गणयेत्)+++ १७
प्रशंसायाम्
1/11/32/10 …{Loading}…
स्तुतिं च गुरोः समक्षं - यथा “सुस्नातम्” इति १०
साक्षिवचने
1/11/32/22 …{Loading}…
+++(दुर्बोध्यार्थ-)+++प्रश्नं+++(→प्रश्नोत्तरं)+++ च न विब्रूयात् २२
1/11/32/23 …{Loading}…
अथाप्य् उदाहरन्ति +++(वक्ष्यमाणं श्लोकम्)+++ २३
1/11/32/24 …{Loading}…
मूलं तूलं+++(→आगामिनी सम्पत्)+++ वृहति+++(=उत्पाटयति)+++
दुर्विवक्तुः प्रजां पशून् आयतनं हिनस्ति ।
“धर्मप्रह्राद! न कुमालनाय +++(इदं कुकर्म)+++”
रुदन् ह मृत्युर् व्य्-उवाच +++(ऋषिकृतं)+++ प्रश्नम्
+++(“केनानवधानेन पातितेन मच्छिशुर् मृत” इति )+++
इति २४
2/05/12/21 …{Loading}…
न संशये प्रत्यक्षवद्ब्रूयात् २१
वादेषु
1/07/20/05 …{Loading}…
अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५
+++(सभानियमा अन्यत्रोक्ताः।)+++
सभाः
1/11/32/19 …{Loading}…
सभाः समाजांश्+++(=जनयूथं)+++ च १९
1/11/32/20 …{Loading}…
समाजं+++(=जनयूथं)+++ चेद् गच्छेत्, +++(निर्गच्छन्)+++ प्रदक्षिणी-कृत्यापेयात् २०