प्रायश्चित्तम्

पतनीयेषु, यभनेषु च प्रायश्चित्तम् अन्यत्रोक्तम्।

साधारण-विधिः

2/06/15/12 …{Loading}…

देशतः +++(→तीर्थस्थानेषु)+++ कालतः +++(→ग्रहणादौ)+++ शौचतः +++(→कृच्छ्रादेर् अन्ते)+++ सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२

पतनीयेषु

1/10/28/11 …{Loading}…

अधर्माहृतान् भोगान् अनुज्ञाय
न वयं चाधर्मश् चेत्य् अभिव्याहृत्या
ऽधोनाभ्य् उपरिजान्व् आछाद्य
त्रिषवणम् उदकम् उपस्पृशन्न्
अक्षीराक्षारालवणं भुञ्जानो
द्वादश वर्षाणि नागारं प्रविशेत् ११

1/10/28/12 …{Loading}…

ततः सिद्धिः १२

1/10/28/13 …{Loading}…

अथ संप्रयोगः स्याद् आर्यैः १३

1/10/28/14 …{Loading}…

एतद् एवान्येषाम् अपि पतनीयानाम् १४

सुरा

1/09/25/03 …{Loading}…

सुरापोऽग्निस्पर्शां +++(क्वतिथां)+++ सुरां पिबेत् ३

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

वाग्दोषे

1/09/26/03 …{Loading}…

अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३

1/09/26/04 …{Loading}…

शूद्रस्य सप्तरात्रमभोजनम् ४

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

2/10/27/14 …{Loading}…

जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४

मिथ्याधीतौ

1/09/26/10 …{Loading}…

मिथ्याऽधीत-प्रायश्चित्तम् १०

1/09/26/11 …{Loading}…

संवत्सरम् आचार्य-हिते वर्तमानो
वाचं यच्छेत्
स्वाध्याय एवोत्सृजमानो वाचम्
आचार्य आचार्य-दारे भिक्षाचर्ये च ११

1/10/29/15 …{Loading}…

अभीचारानुव्याहारावशुचिकरावपतनीयौ १५

1/10/29/16 …{Loading}…

पतनीयाविति हारीतः १६

अपपात्र-संसर्गे

2/01/02/08 …{Loading}…

यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ८

2/01/02/09 …{Loading}…

अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ९

शूद्रसेवा

1/09/27/11 …{Loading}…

यद् एकरात्रेण करोति पापं
कृष्णं+++(→शूद्रं)+++ वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदकाभ्यवायी +++(स्नानकर्ता)+++
त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ११

अन्यदोषेषु

1/09/26/07 …{Loading}…

अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७

1/09/26/12 …{Loading}…

एवमन्येष्व् अपि दोषवत्स्व् अपतनीयेषूत्तराणि यानि वक्ष्यामः १२

1/09/26/13 …{Loading}…

काम-मन्युभ्यां वा जुहुयात् -
कामोऽकार्षीन् मन्युर् अकार्षीद् इति जपेद् वा १३

1/09/26/14 …{Loading}…

पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकम् उपस्पृश्य सावित्रीं प्राणायामशः सहस्र-कृत्व आवर्तयेद् अप्राणायामशो वा १४

1/09/27/01 …{Loading}…

श्रावण्यां पौर्णमास्यां तिल-भक्ष उपोष्य वा
श्वोभूते महानदम् उदकम् उपस्पृश्य
सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा १

1/09/27/02 …{Loading}…

इष्टि-यज्ञ-क्रतून् वा पवित्रार्थान् आहरेत् २

1/09/27/09 …{Loading}…

अथाऽपरम् ।
बहून्य् अप्य् अपतनीयानि कृत्वा
त्रिभिर् अनश्नत्-पारायणैः कृत-प्रायश्चित्तो भवति ९

1/10/29/17 …{Loading}…

पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादशाहं सप्ताहं त्र्यहमेकाहम् १७

1/10/29/18 …{Loading}…

इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः १८

2/05/12/15 …{Loading}…

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

2/05/12/18 …{Loading}…

नियमातिक्रमे चान्यस्मिन् १८

2/05/12/22 …{Loading}…

अभिनिम्रुक्ताभ्युदित+++(=सन्ध्याशायिनौ)+++-कुनखि-श्यावदा-ऽग्रदिधिषु+++(=कनिष्ठाया वोढा)+++–दिधिषू-पति+++(अग्रदिधिषौ ज्येष्ठायाः पश्चाद् वोढा)+++-पर्याहित-परीष्ट-परिवित्त+++(=अकृतविवाहः कनिष्ठे कृतविवाहे)+++-परिविन्न+++(=कनिष्ठे भागग्राहिणि ज्येष्ठः)+++-परिविविदानेषु +++(=परिविन्न-भ्राता)+++ चोत्तरोत्तरस्मिन्न् अशुचिकर-निर्वेषो गरीयान् गरीयान् २२

2/05/12/23 …{Loading}…

तच्च लिङ्गं +++(=कुनखित्वादिकम्)+++ चरित्वोद्धार्यमित्येके २३

अभोज्यभक्षणे

1/09/27/03 …{Loading}…

अभोज्यं भुक्त्वा नैष्पुरीष्यम् +++(कदेति चेत् -)+++३

1/09/27/04 …{Loading}…

तत्-सप्त-रात्रेणावाप्यते ४

1/09/27/05 …{Loading}…

हेमन्त-शिशिरयोर् वोभयोः संध्योर् उदकम् उपस्पृशेत् ५

1/09/27/06 …{Loading}…

कृच्छ्र-द्वादश-रात्रं वा चरेत् ६

1/09/27/07 …{Loading}…

त्र्यहम् अनक्ताश्य्
अदिवाशी ततस् त्र्यहं
त्र्य्-अहम् अयाचित-व्रतस्
त्र्यहं नाश्नाति किंचनेति
कृच्छ्र-द्वादश-रात्रस्य विधिः ७

1/09/27/08 …{Loading}…

एतम् एवाभ्यसेत् संवत्सरं - स कृच्छ्रसंवत्सरः ८

यभनमूलेषु

दाम्पत्य-व्यतिक्रमः

1/10/28/19 …{Loading}…

दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९

1/10/28/20 …{Loading}…

स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २०

2/10/27/05 …{Loading}…

अविशिष्टं हि परत्वं पाणेः ५

2/10/27/06 …{Loading}…

तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६

अवकीर्णी ब्रह्मचारी

1/09/26/08 …{Loading}…

गर्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८

1/09/26/09 …{Loading}…

तस्य शूद्रः प्राश्नीयात् ९

अनार्यागमनम् / अनार्यगमनम्

1/09/26/07 …{Loading}…

अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७

1/09/27/10 …{Loading}…

अनार्यां शयने बिभ्रेद्,
ददद् वृद्धिं+++(=interest)+++ +++(स्वद्रव्यस्य)+++, कषाय-पः+++(=सुराव्यतिरिक्तं मद्यं पिबन्)+++ ।
अब्राह्मण इव +++(सर्वान्)+++ वन्दित्वा,
तृणेष्व् आसीत पृष्ठ-तप् १०

2/10/27/08 …{Loading}…

नाश्य आर्यः शूद्रायाम् ८

2/10/27/09 …{Loading}…

वध्यः शूद्र आर्यायाम् ९

2/10/27/10 …{Loading}…

दारं चास्य कर्शयेत् १०

परदारा-गमनम्, कुमारी-गमनम्

1/10/28/01 …{Loading}…

यथा कथा च परपरिग्रहम् अभिमन्यते - स्तेनो ह भवतीति कौत्स-हारीतौ, तथा कण्व-पुष्करसादी १

1/10/28/02 …{Loading}…

सन्त्य् अपवादाः परिग्रहेष्व् इति वार्ष्यायणिः २

2/10/26/18 …{Loading}…

अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः १८

2/10/26/19 …{Loading}…

बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः १९

2/10/26/20 …{Loading}…

संनिपाते वृत्ते शिश्नच्छेदनं सवृषणस्य २०

2/10/26/21 …{Loading}…

कुमार्यां तु स्वान्यादाय नाश्यः २१

2/10/26/22 …{Loading}…

अथ +++(परदार-कुमार्यौ)+++ भृत्ये राज्ञा २२

2/10/26/23 …{Loading}…

रक्ष्ये चात ऊर्ध्वं मैथुनात् २३

2/10/26/24 …{Loading}…

निर्वेषाभ्युपाये तु स्वामिभ्योऽवसृजेत् २४

2/10/27/01 …{Loading}…

चरिते यथापुरं, +++(यतः)+++ धर्माद्धि संबन्धः १

2/10/27/11 …{Loading}…

सवर्णायामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति +++(अतः पतितप्रायश्चित्तस्य पादस् तस्मै)+++ ११

2/10/27/12 …{Loading}…

एवमभ्यासे पादः पादः १२

2/10/27/13 …{Loading}…

चतुर्थे सर्वम् १३

गुरुतल्पगमनम्

1/10/28/15 …{Loading}…

गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५

1/10/28/16 …{Loading}…

मिथ्यैतदिति हारीतः १६

1/09/25/01 …{Loading}…

गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणां दिशमनावृत्तिं व्रजेत् १

1/09/25/02 …{Loading}…

ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात् २

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

हत्यायाम्

1/10/29/06 …{Loading}…

परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६

1/10/29/07 …{Loading}…

यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७

ब्रह्महत्या-पैशुनयोः

1/09/24/06 …{Loading}…

पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः ६

1/09/24/07 …{Loading}…

ब्राह्मणमात्रं च ७

1/09/24/08 …{Loading}…

गर्भं च तस्याविज्ञातम् ८

1/09/24/09 …{Loading}…

आत्रेयीं +++(=ऋतुस्नाताम्)+++ च स्त्रियम् ९

1/09/24/23 …{Loading}…

धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव २३

1/09/24/10 …{Loading}…

तस्य निर्वेषः +++(=प्रायश्चित्तम्)+++ १०

1/09/24/11 …{Loading}…

अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ११

1/09/24/12 …{Loading}…

तस्य पन्था अन्तरा वर्त्मनी १२

1/09/24/13 …{Loading}…

दृष्ट्वा चान्यमुत्क्रामेत् १३

1/09/24/14 …{Loading}…

खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत १४

1/09/24/15 …{Loading}…

कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् १५

1/09/24/16 …{Loading}…

सा वृत्तिः १६

1/09/24/17 …{Loading}…

अलब्धोपवासः १७

1/09/24/18 …{Loading}…

गाश्च रक्षेत् १८

1/09/24/19 …{Loading}…

तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः १९

1/09/24/20 …{Loading}…

द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः २०

1/09/24/21 …{Loading}…

आजिपथे वा कुटिङ्कृत्वा ब्राह्मणगव्योपजिगीषंआणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः २१

1/09/24/22 …{Loading}…

आश्वमेधिकं वावभृथमवेत्य मुच्यते २२

अब्राह्मणश्चेद् हन्ता -

1/09/25/11 …{Loading}…

प्रथमं वर्णं परिहाप्य प्रथमं वर्णं हत्वा संग्रामं गत्वावतिष्ठेत । तत्रैनं हन्युः ११

1/09/25/12 …{Loading}…

अपि वा लोमानि त्वचं मांसमिति हावयित्वाग्निं प्रविशेत् १२

1/09/26/06 …{Loading}…

येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राणहिंसायाम् +++(ततः शूद्रहप्रायश्चित्तम्)+++ ६

श्रोत्रिय-हत्या, गुरुहत्या-

1/09/24/24 …{Loading}…

गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् २४

1/09/24/25 …{Loading}…

नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते २५

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

अन्य-हत्यायाम्

1/10/28/17 …{Loading}…

यो ह्यात्मानं परं वाभिमन्यते +++(=हन्ति)+++ ऽभिशस्त एव स भवति १७

1/10/28/18 …{Loading}…

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८

भ्रूणहा

1/10/28/21 …{Loading}…

अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१

1/10/29/01 …{Loading}…

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२

1/10/29/01 …{Loading}…

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२

जनवधे

1/09/24/01 …{Loading}…

क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् १

1/09/24/02 …{Loading}…

शतं वैश्ये २

1/09/24/03 …{Loading}…

दश शूद्रे ३

1/09/24/04 …{Loading}…

ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ४

1/09/24/05 …{Loading}…

स्त्रीषु चैतेषामेवम् ५

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

… +++(शूद्रः)+++

2/10/27/16 …{Loading}…

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

2/10/27/17 …{Loading}…

चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७

प्राणिहत्यायाम्

1/09/25/13 …{Loading}…

वायसप्रचलाकबर्हिणचक्रवाकहंसभासमण्डूकनकुलडेरिकाश्वहिंसायां शूद्र वत्प्रायश्चित्तम् १३

1/09/26/01 …{Loading}…

धेन्वनडुहोश्चाकारणात् १

1/09/26/02 …{Loading}…

धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५