पर्व

1/11/31/19 …{Loading}…

दिवादित्यः सत्त्वानि गोपायति,
नक्तं चन्द्रमास्,
तस्माद् अमावास्यायां निशायां स्वाधीय+++(=साधीय)+++ आत्मनो गुप्तिम् इच्छेत्
प्रायत्य-ब्रह्मचर्य-काले चर्यया च १९

1/11/31/20 …{Loading}…

सह ह्य् एतां रात्रिं सूर्याचन्द्रमसौ वसतः २०

गृहस्थेषु

2/01/01/04 …{Loading}…

पर्वसु चोभयोर् उपवासः ४

2/01/01/05 …{Loading}…

औपवस्तम् एव कालान्तरे भोजनम् ५

2/01/01/06 …{Loading}…

तृप्तिश् चान्नस्य ६

2/01/01/07 …{Loading}…

यच्चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञ्जीयाताम् ७

2/01/01/08 …{Loading}…

अधश्च शयीयाताम् ८

2/01/01/09 …{Loading}…

मैथुनवर्जनं च ९

2/01/01/10 …{Loading}…

श्वोभूते स्थालीपाकः १०

2/01/01/11 …{Loading}…

तस्योपचारः पार्वणेन व्याख्यातः ११