1/11/30/15 …{Loading}…
शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५
1/11/30/15 …{Loading}…
शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५
1/11/30/16 …{Loading}…
छायायाम् मूत्रपुरीषयोः कर्म वर्जयेत् १६
1/11/30/17 …{Loading}…
स्वां तु छायाम् अव-मेहेत् १७
1/11/30/20 …{Loading}…
अग्निम् आदित्यम् अपो ब्राह्मणं गा देवताश् चाभिमुखो मूत्र-पुरीषयोः कर्म वर्जयेत् २०
1/11/30/21 …{Loading}…
अश्मानं, लोष्ठम्,
आर्द्रान् ओषधि-वनस्पतीन्+++(←पुष्पैर् विना फलन्ति)+++ ऊर्ध्वान् +++(→वातादिभिर् अभग्नान्)+++ आच्छिद्य,
मूत्र-पुरीषयोः शुन्धने वर्जयेत् २१
1/11/30/23 …{Loading}…
अथाप्य् उदाहरन्ति +++(ऽग्रे वक्ष्यमाणम्)+++ २३
1/11/31/01 …{Loading}…
प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्
इति १
1/11/31/02 …{Loading}…
आराच् चावसथान् मूत्रपुरीषे कुर्याद्, दक्षिणां दिशं दक्षिणापरां वा २
1/11/31/03 …{Loading}…
अस्तम् इते च
बहिर् ग्रामाद्,
आराद् आवसथाद् वा मूत्रपुरीषयोः कर्म वर्जयेत् ३
ष्ठेवनम्
1/11/30/19 …{Loading}…
तथा ष्ठेवन-मैथुनयोः कर्माप्सु वर्जयेत् १९