दण्डनम्

साधारण-दण्डन-विधिः

2/05/11/01 …{Loading}…

इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डम्प्रणयेत् १

2/05/11/02 …{Loading}…

न च संदेहे दण्डं कुर्यात् २

2/05/11/03 …{Loading}…

सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत ३

2/05/11/04 …{Loading}…

एवंवृत्तो राजोभौ लोकावभिजयति ४

2/10/27/18 …{Loading}…

नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८

2/10/27/19 …{Loading}…

आ समापत्तेः १९

2/10/27/20 …{Loading}…

असमापत्तौ नाश्यः २०

2/10/27/21 …{Loading}…

आचार्य, ऋत्विक्, स्नातको, राजेति त्राणं +++(=दण्डन-ह्रासनम् “अहं वारयामीमम्” इति)+++ स्युर् - अन्यत्र वध्यात् २१

2/11/28/12 …{Loading}…

अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः १२

2/11/28/13 …{Loading}…

प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति १३

ब्राह्मण-दण्डनम्

2/05/10/12 …{Loading}…

न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ११

2/05/10/13 …{Loading}…

शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् १२

2/05/10/14 …{Loading}…

तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानं गमयेत् १३

2/05/10/15 …{Loading}…

राजा पुरोहितं धर्मार्थकुशलम् १४

2/05/10/16 …{Loading}…

स ब्राह्मणान्नियुञ्ज्यात् १५

स्तेये

+++(शूद्रः)+++

2/10/27/16 …{Loading}…

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

2/10/27/17 …{Loading}…

चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७

2/11/28/10 …{Loading}…

परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः १०

2/11/28/11 …{Loading}…

विदुषो वाससः परिमोषणम् ११

स्तेनः +++(ब्रह्मस्वापहारः)+++

1/09/25/04 …{Loading}…

स्तेनः प्रकीर्णकेशोऽए मुसलमादाय राजानं गत्वा कर्माचक्षीत । तेनैनं हन्याद्वधे मोक्षः ४

1/09/25/05 …{Loading}…

अनुज्ञातेऽनुज्ञातारमेनः ५

1/09/25/06 …{Loading}…

अग्निं वा प्रविशेत्तीक्ष्णं वा तप आयच्छेत् ६

1/09/25/07 …{Loading}…

भक्तापचयेन वात्मानं समाप्नुयात् ७

1/09/25/08 …{Loading}…

कृच्छ्रसंवत्सरं वा चरेत् ८

1/09/25/09 …{Loading}…

अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामकृत्वा चतुर्थकाला मितभोजनाः स्युरपोऽभ्यवेयुः सवनानुकल्पम् ९

1/09/25/10 …{Loading}…

स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैरप पापं नुन्दते १०

1/09/26/05 …{Loading}…

स्त्रीणां चैवम् ५

पतनीये दण्डः

1/07/21/20 …{Loading}…

दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्,
वर्जयेत् त्व् एनं धर्मेषु २०

1/10/28/06 …{Loading}…

न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६

1/10/28/07 …{Loading}…

न चास्माद्भोगानुपयुञ्जीत ७

1/10/28/08 …{Loading}…

यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८

1/10/28/09 …{Loading}…

माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९

1/10/28/10 …{Loading}…

न तु धर्मसंनिपातः स्यात् १०

1/10/29/08 …{Loading}…

अथाभिशस्ताः समवसाय
पतित-पुत्रेषु चरेयुर् धार्म्यम् इति
सांशित्येतरेतर-याजका इतरेतराध्यापका मिथो विवहमानाः ८

1/10/29/09 …{Loading}…

पुत्रान्संनिष्पाद्य ब्रूयुर् -
“विप्रव्रजततास्मद् -
एवं ह्य् अस्मत्स्व् आर्याः संप्रत्यपत्स्यते"ति ९

1/10/29/10 …{Loading}…

अथापि न सेन्द्रि यः पतति १०

1/10/29/11 …{Loading}…

तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११

1/10/29/12 …{Loading}…

मिथ्यैतदिति हारीतः १२

1/10/29/13 …{Loading}…

दधिधानीसधर्मा स्त्री भवति १३

1/10/29/14 …{Loading}…

यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४

अगौरव-दर्शने

2/10/27/15 …{Loading}…

वाचि पथि शय्यायाम् आसन इति समीभवतो दण्डताडनम् +++(शूद्रस्य)+++१५

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६