चोदनम्, फलम्
1/08/22/01 …{Loading}…
अध्यात्मिकान् योगान् अनुतिष्ठेन् न्याय-संहितान् अनैश्चारिकान् १
1/08/22/02 …{Loading}…
आत्म-लाभान् न परं विद्यते २
2/09/21/13 …{Loading}…
सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानम् अन्विच्छेत् १३
2/09/21/14 …{Loading}…
बुद्धे क्षेम-प्रापणम् १४
2/09/21/15 …{Loading}…
तच् छास्त्रैर् विप्रतिषिद्धम् १५
2/09/21/16 …{Loading}…
बुद्धे चेत्क्षेमप्रापणम्
इहैव न दुःखम् उपलभेत १६
2/09/21/17 …{Loading}…
एतेन परं +++(=पारलौकिकं [दुःखं])+++ व्याख्यातम् +++(न स्वैरचारिणां निवर्तत इति)+++१७
आत्मा
1/08/22/03 …{Loading}…
तत्रात्मलाभीयाञ् श्लोकान् उदाहरिष्यामः ३
1/08/22/04 …{Loading}…
पूः प्राणिनः सर्व एव गुहाशयस्य । अहन्यमानस्य विकल्मषस्य ।
अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ४
1/08/22/05 …{Loading}…
यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ५
1/08/22/06 …{Loading}…
आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व नाहितम् । अथान्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ६
1/08/22/07 …{Loading}…
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गो ऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्शुचिः । स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ७
1/08/22/08 …{Loading}…
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ८
1/08/23/01 …{Loading}…
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १
1/08/23/02 …{Loading}…
निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २
सन्न्यास-नियमाः
2/09/21/07 …{Loading}…
अथ परिव्राजः ७
2/09/21/08 …{Loading}…
अत एव ब्रह्मचर्यवान्प्रव्रजति ८
2/09/21/09 …{Loading}…
तस्योपदिशन्ति ९
2/09/21/10 …{Loading}…
अनग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः
स्वाध्यायैवोत्सृजमानो वाचं
ग्रामे प्राण-वृत्तिं प्रतिलभ्य
+अनिहो ऽनमुत्रश् चरेत् १०
2/09/21/11 …{Loading}…
तस्य मुक्तम् +++(=त्यक्तम्)+++ आच्छादनं विहितम् ११
2/09/21/12 …{Loading}…
सर्वतः +++(विधितो निषेधतश्च)+++ परिमोक्षम् एके १२
योग-विधिः
+++(साधारणधर्माः आश्रम-पङ्क्ताव् उक्ताः)+++
1/08/23/03 …{Loading}…
दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३
2/02/05/19 …{Loading}…
मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भनणानास्रावान्परिवृञ्जानो ऽमृतत्वाय कल्पते १९