विधिः
1/11/31/21 …{Loading}…
न कुसृत्या ग्रामं प्रविशेत् ।
यदि प्रविशेन् “नमो रुद्राय वास्तोष्पतय” इत्येताम् ऋचं जपेद् अन्यां वा रौद्रीम् २१
वर्जनीय-स्थानानि
1/11/32/21 …{Loading}…
नगर-प्रवेशनानि च वर्जयेत् २१
यानेषु
1/11/32/25 …{Loading}…
गार्दभं यानम् आरोहणे,
विषमारोहणावरोहणानि च वर्जयेत् २५
1/11/32/26 …{Loading}…
बाहुभ्यां च नदी-तरम् २६
1/11/32/27 …{Loading}…
नावां च सांशयिकीम् +++(वर्जयेत्)+++२७