निद्रा

1/11/32/11 …{Loading}…

आ +++(मध्य)+++निशाया जागरणम् +++(स्यात्)+++ ११

1/11/32/15 …{Loading}…

नापररात्रम् उत्थायानध्याय इति संविशेत् १५

1/11/32/16 …{Loading}…

कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६

1/11/32/17 …{Loading}…

मनसा वाधीयीत १७

सन्ध्या-निद्रा-प्रायश्चित्तम्

2/05/12/13 …{Loading}…

स्वपन्न् अभिनिम्रुक्तो +++(=सूर्यास्तसमये निद्रालुः)+++ नाश्वान् +++(=अनश्नन्)+++ वाग्यतो रात्रिमासीत । श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् १३

2/05/12/14 …{Loading}…

स्वपन्न् अभ्युदितो +++(नाम सूर्योदये निद्रालुः)+++ नाश्वान्+++(=अनश्नन्)+++ वाग्यतोऽहस्तिष्ठेत् १४

2/05/12/15 …{Loading}…

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

दुःस्वप्ने

2/05/12/15 …{Loading}…

आतमितोः प्राणमायच्छेदित्येके +++(तावद् वा प्राणान् आयमयेद् यावद् अङ्गग्लानिर् न स्यात्)+++१५

2/05/12/16 …{Loading}…

स्वप्नं वा पापकं दृष्ट्वा १६