विधिः
1/11/32/02 …{Loading}…
मिथुनी-भूय च, न तया सह सर्वां रात्रिं शयीत २
2/01/01/21 …{Loading}…
यावत्संनिपातं चैव सहशय्या २१
2/01/01/22 …{Loading}…
ततो नाना २२
2/01/01/23 …{Loading}…
उदकोपस्पर्शनम् २३
2/01/02/01 …{Loading}…
अपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानाम् १
2/01/01/20 …{Loading}…
स्त्रीवाससैव संनिपातः स्यात् २०
कालनियमाः
1/11/30/19 …{Loading}…
तथा ष्ठेवन-मैथुनयोः कर्माप्सु वर्जयेत् १९
2/01/01/16 …{Loading}…
अहन्यसंवेशनम् १६
1/11/32/01 …{Loading}…
प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १
+++(पर्वनियमाः विशेषव्रतनियमाश्च पृथग् उक्ताः।)+++
नित्यकर्मत्वम्
1/11/32/06 …{Loading}…
सदा निशायां दारं प्रत्य् अलंकुर्वीत ६
…
1/11/32/05 …{Loading}…
अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५
2/01/01/17 …{Loading}…
ऋतौ च संनिपातो दारेणानुव्रतम् १७
2/01/01/18 …{Loading}…
अन्तरालेऽपि दार एव १८
2/01/01/19 …{Loading}…
ब्राह्मणवचनाच्च संवेशनम् १९
पात्रनियमः
2/06/13/03 …{Loading}…
पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३
2/06/13/04 …{Loading}…
तत्रापि दोषवान्पुत्र एव ४
ऊर्ध्वरेतः-प्रशंसा-निन्दने
2/09/23/03 …{Loading}…
अथ पुराणे श्लोकाव् उदाहरन्ति ३
2/09/23/04 …{Loading}…
अष्टाशीति-सहस्राणि ये
प्रजाम् ईशिर +++(=अभ्यनन्दन्)+++ ऋर्षयः ।
दक्षिणेनार्यम्णः पन्थानं
ते श्मशानानि भेजिरे ४
2/09/23/05 …{Loading}…
अष्टाशीतिसहस्राणि ये प्रजां नेषिरर्षयः ।
उत्तरेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ५
2/09/23/06 …{Loading}…
इत्यूर्ध्वरेतसां +++(=गृहस्थेतरेषाम्)+++ प्रशंसा ६
2/09/23/07 …{Loading}…
अथापि संकल्प-सिद्धयो +++(=सङ्कल्पत एव सिद्धिः)+++ भवन्ति ७
2/09/23/08 …{Loading}…
यथा वर्षं, प्रजा-दानं,
दूरे दर्शनं, मनो-जवता,
यच्चान्यद् एवं युक्तम् ८
2/09/23/09 …{Loading}…
तस्माच् छ्रुतितः, प्रत्यक्ष-फलत्वाच् च
विशिष्टान् आश्रमान् एतान् एके ब्रुवते ९
2/09/23/10 …{Loading}…
त्रैविद्य-वृद्धानां तु
वेदाः प्रमाणम्
इति निष्ठा।
तत्र यानि श्रूयन्ते
व्रीहि-यव-पश्व्-आज्य-पयः-कपाल-पत्नी-संबन्धान्य्
उच्चैर् नीचैः कार्यम् इति
तैर् विरुद्ध आचारो ऽप्रमाणम् इति मन्यन्ते १०
2/09/23/11 …{Loading}…
यत् तु श्मशानम् उच्यते
+++(“दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे” इत्यस्मिन्)+++
नाना-कर्मणाम् एषोऽन्ते पुरुष-संस्कारो विधीयते ११
2/09/23/12 …{Loading}…
ततः परम् अनन्त्यं फलं स्वर्ग्य-शब्दं श्रूयते १२
2/09/24/14 …{Loading}…
स्यात् तु कर्मावयवेन तपसा वा कश्चित् सशरीरो ऽन्वन्तं लोकं जयति, सङ्कल्पसिद्धिश् च स्यान् - न तु तज् ज्यैष्ठ्यम् आश्रमाणाम् १४