विधानम्
1/04/12/01 …{Loading}…
तपः स्वाध्याय इति ब्राह्मणम् १
1/04/12/02 …{Loading}…
तत्र श्रूयते । स यदि तिष्ठन्न् आसीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति २
क्रमः
1/03/11/21 …{Loading}…
नित्यप्रश्नस्य चाविधिना २१
1/03/11/22 …{Loading}…
तस्य विधिः २२
1/03/11/23 …{Loading}…
अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायम् उत्सृजन् वाचा २३
1/03/11/24 …{Loading}…
मनसा चानध्याये २४
1/03/11/25 …{Loading}…
विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५
1/03/11/26 …{Loading}…
श्राद्धभोजन एवैके २६
रात्रौ
1/11/32/12 …{Loading}…
अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२
1/11/32/13 …{Loading}…
मनसा वा स्वयम् +++(अधीयीत)+++॥ १३ ॥
1/11/32/14 …{Loading}…
ऊर्ध्वम् अर्धरात्राद् अध्यापनम् १४
1/11/32/15 …{Loading}…
नापररात्रम् उत्थायानध्याय इति संविशेत् १५
1/11/32/16 …{Loading}…
कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६
1/11/32/17 …{Loading}…
मनसा वाधीयीत १७
+++(अन्यत्रोक्तः - अनध्याय-विषयः)+++