भोजन-मात्रा
2/04/09/12 …{Loading}…
तथा चात्मनोऽनुपरोधं कुर्याद्यथा कर्मस्वसमर्थः स्यात् १२
2/04/09/13 …{Loading}…
‘अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशाऽरण्य-वासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥
आहिताग्निर् अनरड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम्’
इति॥
2/01/01/05 …{Loading}…
औपवस्तम् एव कालान्तरे भोजनम् ५
भोजनस्थानम्
1/05/16/18 …{Loading}…
यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८
1/05/16/19 …{Loading}…
तथानुत्थितायां सूतिकायाम् १९
1/05/16/20 …{Loading}…
अन्तःशवे च २०
1/05/17/06 …{Loading}…
न नावि भुञ्जीत ६
1/05/17/07 …{Loading}…
तथा प्रासादे +++(काष्ठमञ्चे)+++ ७
1/05/17/08 …{Loading}…
कृतभूमौ तु भुञ्जीत ८
भोजनपात्रम्
1/05/17/09 …{Loading}…
अनाप्रीते मृण्मये भोक्तव्यम् ९
1/05/17/10 …{Loading}…
आप्रीतं चेद् अभिदग्धे १०
1/05/17/11 …{Loading}…
परिमृष्टं लौहं प्रयतम् ११
1/05/17/12 …{Loading}…
निर्लिखितं दारुमयम् १२
1/05/17/13 …{Loading}…
यथागमं यज्ञे १३
भोजन-वेला
2/01/01/01 …{Loading}…
पाणिग्रहणादधि गृहमेधिनोर्व्रतम् १
2/01/01/02 …{Loading}…
कालयोर्भोजनम् २
2/01/01/03 …{Loading}…
अतृप्तिश्चान्नस्य ३
2/01/01/04 …{Loading}…
पर्वसु चोभयोर् उपवासः ४
2/01/01/05 …{Loading}…
औपवस्तम् एव कालान्तरे भोजनम् ५
2/01/01/06 …{Loading}…
तृप्तिश् चान्नस्य ६
2/01/01/07 …{Loading}…
यच्चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञ्जीयाताम् ७
विधिः
2/06/15/13 …{Loading}…
यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३
1/05/16/09 …{Loading}…
भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत् ९
1/05/16/17 …{Loading}…
दद्भिरपूपस्य नापच्छिन्द्यात् १७
1/11/31/01 …{Loading}…
प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्
इति १
अन्ते शोधनम्
2/02/04/23 …{Loading}…
यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशम्, अमत्रेभ्यो +++(=पात्रेभ्यो)+++ लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्राय निनयेत् । एवं वास्तु शिवं भवति २३
उच्छिष्टे
1/11/31/22 …{Loading}…
नाब्राह्मणायोच्छिष्टं प्रयच्छेत् ।
यदि प्रयच्छेद् - दन्तान् स्कुप्त्वा, तस्मिन्न् अवधाय प्रयच्छेत् २२
ब्रह्मचर्ये भोजनम्, भोज्याभोज्य-विवेकः, पाक-प्रतिग्रहादौ विधिनिषेधाः च+ अन्यत्रोक्ताः।
भोज्यता द्रव्यजन्या
उत्तमः कल्पः
2/08/18/01 …{Loading}…
विलयनं +++(=नवनीत-मलम्)+++, मथितं, पिण्याकं, +++(=तैलोत्पादनावशेषः)+++ मधु, मांसं च वर्जयेत् १
2/08/18/02 …{Loading}…
कृष्ण-धान्यं, शूद्रान्नं, ये चान्ये नाश्य-संमताः २
2/08/18/03 …{Loading}…
अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३
अभोज्येषु
1/05/16/16 …{Loading}…
हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६
1/05/16/23 …{Loading}…
यस्मिंश् चान्ने केशः स्यात् +++(पाकावस्थायां सति भिन्ना वार्ता)+++ २३
1/05/16/24 …{Loading}…
अन्यद् वामेध्यम् २४
1/05/16/25 …{Loading}…
अमेध्यैर् अवमृष्टम् २५
1/05/16/26 …{Loading}…
कीटो वामेध्य-सेवी २६
1/05/16/27 …{Loading}…
मूषकलाङ्गं वा २७
1/05/17/17 …{Loading}…
कृतान्नं पर्युषितम् अखाद्यापेयानाद्यम् १७
1/05/17/18 …{Loading}…
शुक्तं+++(=काल-पकेनाऽम्लीभूतं)+++ च १८
1/05/17/19 …{Loading}…
फाणित+++(=शर्कररस)+++-पृथुक+++(=चिउडा)+++-तण्डुल-करम्ब+++(=दधि+शक्तु)+++-भरुज+++(=भ्रष्टयव)+++-सक्तु-शाक-मांस-पिष्ट-क्षीर-विकारौषधि-वनस्पति-मूल-फल-वर्जम् १९
1/05/17/20 …{Loading}…
शुक्तं चापरयोगम् २०
1/05/17/21 …{Loading}…
सर्वं मद्यमपेयम् २१
1/05/17/22 …{Loading}…
तथैलकं पयः २२
1/05/17/23 …{Loading}…
उष्ट्रीक्षीर-मृगीक्षीर-सन्धिनीक्षीर-यमसूक्षीराणीति २३
1/05/17/24 …{Loading}…
धेनोश्चानिर्दशायाः +++(प्रसवाद् १० दिनेभ्यः प्राक्)+++ २४
1/05/17/25 …{Loading}…
तथा कीलालौषधीनां च २५
1/05/17/26 …{Loading}…
करञ्ज-पलण्डु-परारीकाः २६
1/05/17/27 …{Loading}…
यच्चान्यत् परिचक्षते २७
1/05/17/28 …{Loading}…
क्याक्वभोज्यमिति हि ब्राह्मणम् २८
1/05/17/29 …{Loading}…
एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् २९
1/05/17/30 …{Loading}…
धेनु+अनडुहोर्भक्ष्यम् ३०
1/05/17/31 …{Loading}…
मेध्यमानडुहमिति वाजसनेयकम् ३१
1/05/17/32 …{Loading}…
कुक्कुटो विकिराणाम् +++(=खनित्वा कीटान्यश्नन्ति ये तेषु, अभक्ष्यम्)+++ ३२
1/05/17/33 …{Loading}…
प्लवः प्रतुदाम् ३३
1/05/17/34 …{Loading}…
क्रव्यादः ३४
1/05/17/35 …{Loading}…
हंसभासचक्रवाकसुपर्णाश्च ३५
1/05/17/36 …{Loading}…
क्रुञ्च-क्रौञ्च-वार्ध्राणस-लक्ष्मण-वर्जम् +++(अभक्ष्यम्)+++ ३६
1/05/17/37 …{Loading}…
पञ्चनखानां गोधा-कच्छप-श्वाविट्-शल्यक-खण्ग-शश-पूतिखष-वर्जम् ३७
1/05/17/39 …{Loading}…
सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये विकृता यथा मनुष्यशिरसः ३९
2/08/20/10 …{Loading}…
आत्त-तेजसां भोजनं वर्जयेत् १०
2/04/09/07 …{Loading}…
उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ७
विपदि
1/06/18/05 …{Loading}…
न सुभिक्षाः स्युः ५
1/06/18/06 …{Loading}…
स्वयमप्यवृत्तौ सुवर्णं दत्त्वा पशुं वा भुञ्जीत ६
1/06/18/07 …{Loading}…
नात्यन्तमन्ववस्येत् ७
1/06/18/08 …{Loading}…
वृत्तिं प्राप्य विरमेत् ८
1/06/18/14 …{Loading}…
+++(शूद्रस्य)+++ तस्यापि धर्मोपनतस्य +++(= धर्मार्थम् आश्रितस्य)+++ १४
1/06/18/15 …{Loading}…
सुवर्णं दत्वा पशुं वा भुञ्जीत नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् १५
भोज्यता परिकरजन्या
पाचक-परिवेषक-पङ्क्त्यादौ
1/05/16/21 …{Loading}…
अप्रयतोपहतम् अन्नम् अप्रयतं, न त्व् अभोज्यम् २१
विश्वास-टिप्पनी
अप्रयतम् अन्नम्
अग्नाव् अधिश्रितम्
अद्भिः प्रोक्षितं
भस्मना मृदा वा संस्पृष्टं
वाचा च प्रशस्तं
प्रयतं भवति
भोज्यं च ।
1/05/16/22 …{Loading}…
अप्रयतेन तु शूद्रेणोपहृतम् अभोज्यम् २२
1/05/16/28 …{Loading}…
पदा वोपहतम् २८
1/05/16/29 …{Loading}…
सिचा +++(वस्त्राञ्चलेन)+++ वा २९
1/05/16/30 …{Loading}…
शुना वापपात्रेण वा दृष्टम् ३०
1/05/16/31 …{Loading}…
सिचा वोपहृतम् ३१
1/05/16/32 …{Loading}…
दास्या वा नक्तमाहृतम् ३२
1/05/16/33 …{Loading}…
भुञ्जानं वा ३३
1/05/17/01 …{Loading}…
यत्र शूद्र उपस्पृशेत् १
1/05/17/02 …{Loading}…
अनर्हद्भिर्वा समानपङ्क्तौ २
1/05/17/03 …{Loading}…
भुञ्जानेषु व यत्रानूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ३
1/05/17/04 …{Loading}…
कुत्सयित्वा वा यत्रान्नं दद्युः ४
1/05/17/05 …{Loading}…
मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ५
2/02/03/02 …{Loading}…
भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २
2/02/03/03 …{Loading}…
केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३
2/02/03/04 …{Loading}…
आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः ४
2/02/03/05 …{Loading}…
तेषां स एवाचमनकल्पः ५
2/02/03/06 …{Loading}…
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६
2/02/03/07 …{Loading}…
उदकोपस्पर्शनं च सह वाससा ७
2/02/03/08 …{Loading}…
अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८
पाके
2/06/15/13 …{Loading}…
यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३
दातरि
1/05/17/14 …{Loading}…
नाऽऽपणीयम् +++(पक्वं)+++ अन्नम् अश्नीयात् १४
1/05/17/15 …{Loading}…
तथा +++(ऽऽपणियान्)+++ रसान् +++(नाश्नीयात्)+++, आम+++(=अपक्व)+++-मांस-मधु-लवणानीति परिहाप्य १५
1/05/17/16 …{Loading}…
तैल-सर्पिषी तूपयोजयेद् उदकेऽवधाय १६
1/06/18/01 …{Loading}…
मध्वामं मार्गं मांसं भूमिर् मूलफलानि रक्षा-गव्यूतिर्-निवेशनं युग्यघासश् चोग्रतः प्रतिगृह्याणि १
1/06/18/02 …{Loading}…
एतान्यपि नानन्तेवास्याहृतानीति हारीतः २
1/06/18/03 …{Loading}…
आमं वा गृह्णीरन् ३
1/06/18/04 …{Loading}…
कृतान्नस्य वा विरसस्य ४
1/06/18/09 …{Loading}…
त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समावृत्तेन न भोक्तव्यम् ९
1/06/18/13 …{Loading}…
सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं, शूद्र-वर्जमित्येके १३
1/06/18/11 …{Loading}…
यत्राप्रायश्चित्तं कर्मासेवते प्रायश्चित्तवति ११
1/06/18/12 …{Loading}…
चरितनिर्वेषस्य भोक्तव्यम् १२
1/06/18/16 …{Loading}…
सङ्घान्नमभोज्यम् १६
1/06/18/17 …{Loading}…
परिक्रुष्टं +++(=सर्वान् भोजनार्थम् आह्वान्ति ये)+++ च १७
1/06/18/18 …{Loading}…
सर्वेषां च शिल्पाजीवानाम् १८
1/06/18/19 …{Loading}…
ये च शस्त्रमाजीवन्ति १९
1/06/18/20 …{Loading}…
ये चाधिम् +++(भाटकग्राहकाः)+++ २०
1/06/18/21 …{Loading}…
भिषक् २१
1/06/18/22 …{Loading}…
वार्धुषिकः +++(वृद्ध्युपजीविनः)+++ २२
1/06/18/23 …{Loading}…
दीक्षितोऽक्रीतराजकः २३
1/06/18/24 …{Loading}…
अग्नीषोमीयसंस्थायामेव २४
1/06/18/25 …{Loading}…
हुतायां वा वपायां दीक्षितस्य भोक्तव्यम् २५
1/06/18/26 …{Loading}…
यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्न् इति हि ब्राह्मणम् २६
1/06/18/27 …{Loading}…
क्लीबः २७
1/06/18/28 …{Loading}…
राज्ञां प्रैषकरः २८
1/06/18/29 …{Loading}…
अहविर्याजी २९
1/06/18/30 …{Loading}…
चारी ३०
1/06/18/31 …{Loading}…
अविधिना च प्रव्रजितः ३१
1/06/18/32 …{Loading}…
यश्चाग्नीनपास्यति ३२
1/06/18/33 …{Loading}…
यश्च सर्वान्वर्जयते, सर्वान्नी च श्रोत्रियो +++(ऽपि)+++, निराकृतिर् +++(=अस्वाध्यायः)+++ वृषलीपतिः ३३
1/06/19/01 …{Loading}…
मत्त उन्मत्तो बद्धो ऽणिकः+++(=पुत्राच् छ्रुतग्राही)+++ प्रत्युपविष्टो+++(?)+++ यश्च प्रत्युपवेशयते तावन्तं कालम् १ …
1/06/19/02 …{Loading}…
क अश्यान्नः २
1/06/19/03 …{Loading}…
य ईप्सेद्+++(=प्रार्थ्यते [भोक्तव्यमिति, तस्यान्न])+++ इति कण्वः ३
1/06/19/04 …{Loading}…
पुण्य +++(अन्न)+++ इति कौत्सः ४
1/06/19/05 …{Loading}…
यः कश्चिद् दद्यादिति वार्ष्यायणिः +++(आपस्तम्बेनायम् पक्षो निराकरिष्यते ऽग्रे)+++५
1/06/19/06 …{Loading}…
यदि ह रजः +++(=पापम्)+++ स्थावरं - पुरुषे भोक्तव्यम्, अथ चेच् चलं - दानेन निर्दोषो भवति ६
1/06/19/07 …{Loading}…
शुद्धा भिक्षा भोक्तव्या +++(इति)+++ एककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ७
1/06/19/08 …{Loading}…
सर्वतोपेतं +++(=अप्रार्थ्य लब्धम् भोज्यमिति)+++ वार्ष्यायणीयम् +++(मतम् - आपस्तम्बो निराकरिष्यत्यग्रे)+++८
1/06/19/09 …{Loading}…
पुण्यस्येप्सतो +++(ऽन्नस्य)+++ भोक्तव्यम् +++(इत्यापस्तम्बनिश्चयः)+++ ९
1/06/19/10 …{Loading}…
पुण्यस्याप्य् +++(दातुम्)+++ अनीप्सतो न भोक्तव्यम् १०
1/06/19/11 …{Loading}…
यतः कुतश्चाभ्युद्यतं भोक्तव्यम् ११
1/06/19/12 …{Loading}…
नाननियोगपूर्वमिति हारीतः १२
1/06/19/13 …{Loading}…
अथ पुराणे श्लोकावुदाहरन्ति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः । न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यत इति १३
1/06/19/14 …{Loading}…
चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः । कुलटायाः षण्ढकस्य च तेषामन्नमनाद्यम् १४
1/06/19/15 …{Loading}…
अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्कर इति १५