फलम्
2/07/16/01 …{Loading}…
सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १
2/07/16/02 …{Loading}…
प्रजानिःश्रेयसाय+++(च)+++ २
+++(कालभेदेन फलभेदो ऽध उक्तः।)+++
पात्राणि
2/07/16/03 …{Loading}…
तत्र पितरो देवता
ब्राह्मणास् त्वाहवनीयार्थे ३
2/07/17/04 …{Loading}…
प्रयतः प्रसन्न-मनाः सृष्टो+++(=उत्साहवान्)+++ भोजयेद्
ब्राह्मणान् ब्रह्म-विदो योनि-गोत्र-मन्त्रान्तेवास्य्-असंबन्धान् ४
2/07/17/05 …{Loading}…
गुणहान्यां तु
परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५
2/07/17/06 …{Loading}…
एतेनान्तेवासिनो व्याख्याताः +++(अन्यालाभे भोजनीया इति)+++ ६
2/07/17/07 …{Loading}…
अथाप्य् उदाहरन्ति … ७
2/07/17/08 …{Loading}…
संभोजनी +++(=परस्पर-धर्म-भोजनम्)+++ नाम पिशाच-भिक्षा
नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीण-पुण्या
शालान्तरे गौर् इव नष्ट-वत्सा ८
2/07/17/09 …{Loading}…
“इहैव संभुञ्जती दक्षिणा कुलात् कुलं विनश्यती"ति ९
2/07/17/10 …{Loading}…
तुल्य-गुणेषु वयो-वृद्धः श्रेयान्,
द्रव्य-कृशश् चेप्सन् १०
2/07/17/20 …{Loading}…
श्वभिर् अपपात्रैश् च
श्राद्धस्य दर्शनं परिचक्षते २०
2/07/17/21 …{Loading}…
श्वित्रः +++(=श्वेतकुष्टः)+++ शिपि-विष्टः+++(=खल्वाटः)+++ परतल्प-गाम्य् आयुधीय-पुत्रः, शूद्रोत्पन्नो ब्राह्मण्याम्
इत्य् एते श्राद्धे भुञ्जानाः
पङ्क्ति-दूषणा भवन्ति २१
2/07/17/22 …{Loading}…
त्रिमधुस् त्रिसुपर्णस् त्रिणाचिकेतश् चतुर्मेधः पञ्चाग्निर् ज्येष्ठसामिको वेदाध्याय्य् अनूचानपुत्रः श्रोत्रिय इत्येते
श्राद्धे भुञ्जानाः पङ्क्ति-पावना भवन्ति २२
2/08/20/02 …{Loading}…
समुदेतांश्च भोजयेन्, न चातद्गुणायोच्छिष्टं दद्युः २
कालः
2/07/16/04 …{Loading}…
मासि मासि कार्यम् +++(यावज्जीवम्)+++ ४
2/07/16/05 …{Loading}…
अपर-पक्षस्यापराह्नः श्रेयान् ५
2/07/16/06 …{Loading}…
तथा ऽपरपक्षस्य जघन्यान्य् अहानि ६
2/07/16/07 …{Loading}…
सर्वेष्व् एवापर-पक्षस्याहस्सु क्रियमाणे
पितॄन् प्रीणाति ।
कर्तुस्तु +++(प्रतिपद्येव द्वितीयायाम् एवेत्यादि)+++ कालाभिनियमात् फल-विशेषः ७
2/07/16/08 …{Loading}…
प्रथमेऽहनि क्रियमाणे स्त्री-प्रायम् अपत्ये जायते ८
2/07/16/09 …{Loading}…
द्वितीये ऽस्तेनाः ९
2/07/16/10 …{Loading}…
तृतीये ब्रह्मवर्चसिनः १०
2/07/16/11 …{Loading}…
चतुर्थे क्षुद्र-पशुमान् ११
2/07/16/12 …{Loading}…
पञ्चमे पुमांसः ।
बह्व्-अपत्यो,
न चानपत्यः प्रमीयते १२
2/07/16/13 …{Loading}…
षष्ठे ऽध्व-शीलो ऽक्ष-शीलश् च १३
2/07/16/14 …{Loading}…
सप्तमे +++(भू-)+++कर्षे राद्धिः+++(=सिद्धिः)+++ १४
2/07/16/15 …{Loading}…
अष्टमे पुष्टिः १५
2/07/16/16 …{Loading}…
नवम एक-खुराः +++(अश्वादयः)+++ १६
2/07/16/17 …{Loading}…
दशमे व्यवहारे राद्धिः+++(=सिद्धिः)+++ १७
2/07/16/18 …{Loading}…
एकादशे कृष्णायसं त्रपु-सीसम् १८
2/07/16/19 …{Loading}…
द्वादशे पशु-मान् १९
2/07/16/20 …{Loading}…
त्रयोदशे बहु-पुत्रो बहु-मित्रो दर्शनीयापत्यः । युव-मारिणस् तु भवन्ति २०
2/07/16/21 …{Loading}…
चतुर्दश आयुधे राद्धिः+++(=सिद्धिः)+++ २१
2/07/16/22 …{Loading}…
पञ्चदशे पुष्टिः २२
2/07/17/23 …{Loading}…
न च नक्तं श्राद्धं कुर्वीत २३
2/07/17/25 …{Loading}…
अन्यत्र राहु-दर्शनात् +++(यदा नक्तम् अपि कुर्वीत)+++ २५
विश्वास-टिप्पनी
“उदीच्यास् त्व् एतत् प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् ।” इति हरदत्तः।
द्रव्याणि
2/07/16/23 …{Loading}…
तत्र द्रव्याणि तिल-माषा व्रीहि-यवा आपो मूल-फलानि २३
2/07/16/24 …{Loading}…
स्नेहवति त्व् एवान्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् २४
2/07/16/25 …{Loading}…
तथा धर्माहृतेन द्रव्येण तीर्थे +++(=सत्पात्रे)+++ प्रतिपन्नेन २५
2/07/16/26 …{Loading}…
संवत्सरं गव्येन +++(मांसेन)+++ प्रीतिः २६
2/07/16/27 …{Loading}…
भूयांसम् अतो माहिषेण २७
2/07/16/28 …{Loading}…
एतेन +++(माहिष-शब्देन)+++ ग्राम्यारण्यानां पशूनां मांसं +++(श्राद्धे)+++ मेध्यं व्याख्यातम् २८
2/07/17/01 …{Loading}…
खड्गोपस्तरणे खड्ग-मांसेनानन्त्यं कालम् +++(पितृप्रीतिः)+++ १
2/07/17/02 …{Loading}…
तथा शत-बलेर्+++(=बहु-शल्यस्य रोहितस्य)+++ मत्स्यस्य मांसेन २
2/07/17/03 …{Loading}…
वार्ध्राणसस्य +++(क्रौञ्चनिभस्य)+++ च ३
2/08/19/17 …{Loading}…
नैय्यमिकं +++(→मासि मासि क्रियमाणं)+++ तु श्राद्धं स्नेहवद्
एव दद्यात् १७
2/08/19/18 …{Loading}…
सर्पिर् मांसम् इति प्रथमः कल्पः १८
2/08/19/19 …{Loading}…
अभावे तैलं शाकम् इति १९
2/08/19/20 …{Loading}…
मघासु चाधिकं श्राद्ध-कल्पेन
सर्पिर् ब्राह्मणान् भोजयेत् २०
2/08/20/01 …{Loading}…
मासि-श्राद्धे
तिलानां द्रोणं द्रोणं येनोपायेन +++(= अभ्यङ्ग-पाकादौ)+++ शक्नुयात्
तेनोपयोजयेत् १
विधिः
2/07/17/11 …{Loading}…
पूर्वेद्युर् निवेदनम् ११
2/07/17/12 …{Loading}…
अपरेद्युर् द्वितीयम् १२
2/07/17/13 …{Loading}…
तृतीयम् आमन्त्रणम् +++(= अगारं प्रत्यानयनम्)+++ १३
2/07/17/14 …{Loading}…
त्रिःप्रायम् एके श्राद्धम् उपदिशन्ति … १४
2/07/17/15 …{Loading}…
यथा प्रथमम्, एवं द्वितीयं, तृतीयं च १५
2/07/17/16 …{Loading}…
+++(उक्तेषु त्रिषु)+++ सर्वेषु वृत्तेषु,
सर्वतः समवदाय
शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद् यथोक्तम् १६
2/07/17/17 …{Loading}…
उदीच्य-वृत्तिस् त्व् - आसन-गतानां हस्तेषूदपात्रानयनम् +++(“अर्घ्यम्” इति)+++ १७
2/07/17/18 …{Loading}…
“उद्ध्रियताम् अग्नौ च क्रियताम्”
इत्य् आमन्त्रयते १८
2/07/17/19 …{Loading}…
कामम् उद्ध्रियतां,
कामम् अग्नौ क्रियताम्
इत्य् अतिसृष्ट
उद्धरेद् जुहुयाच् च १९
2/07/17/24 …{Loading}…
आरब्धे चाभोजनम् - आ समापनात् २४
नित्य-श्राद्धम्, तेन श्राद्धान्त्यम्
2/08/18/05 …{Loading}…
नित्य-श्राद्धम् ५
2/08/18/06 …{Loading}…
बहिर्ग्रामाच् छुचयः शुचौ देशे संस्कुर्वन्ति ६
2/08/18/07 …{Loading}…
तत्र नवानि द्रव्याणि +++(=वक्ष्यमाणानि भाण्डादीनि)+++ ७
2/08/18/08 …{Loading}…
यैर् अन्नं संस्क्रियते येषु च भुज्यते ८
2/08/18/09 …{Loading}…
तानि च भुक्तवद्भ्यो दद्यात् ९
2/08/18/10 …{Loading}…
समुदेतांश् च भोजयेत् १०
2/08/18/11 …{Loading}…
न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११
2/08/18/12 …{Loading}…
एवं संवत्सरम् १२
2/08/18/13 …{Loading}…
तेषाम् उत्तमं लोहेनाजेन कार्यम् १३
2/08/18/14 …{Loading}…
मानं +++(=वेदीं)+++ च कारयेत् प्रतिच्छन्नम् १४
2/08/18/15 …{Loading}…
तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५
2/08/18/16 …{Loading}…
उभयान् पश्यति - ब्राह्मणांश् च भुञ्जानान्, माने च पितॄन्
इत्य् उपदिशन्ति १६
2/08/18/17 …{Loading}…
कृताकृतम् अत ऊर्ध्वम् १७
2/08/18/18 …{Loading}…
श्राद्धेन हि तृप्तिं वेदयन्ते पितरः १८
गौरसर्षप-श्राद्धम् पौष्टिकम्
2/08/18/19 …{Loading}…
तिष्येण पुष्टि-कामः १९
2/08/19/01 …{Loading}…
गौर-सर्षपाणां चूर्णानि कारयित्वा
तैः पाणि-पादं प्रक्षाल्य
मुखं कर्णौ प्राश्य च
यद्-वातो नातिवाति तद्-आसनो
ऽजिनं बस्तस्य +++(=अजस्य)+++ प्रथमः कल्पो
वाग्यतो दक्षिणा-मुखो भुञ्जीत १
2/08/19/02 …{Loading}…
अनायुष्यं त्व् एवं-मुखस्य भोजनं मातुर्
इत्य् उपदिशन्ति +++(येन जीवन्-मातृको नैतत् कुर्यात्)+++ २
2/08/19/03 …{Loading}…
औदुम्बरश् चमसः सुवर्ण-नाभः प्रशास्तः ३
2/08/19/04 …{Loading}…
न चान्येनापि भोक्तव्यः ४
2/08/19/05 …{Loading}…
यावद्-ग्रासं संनयन् ५
2/08/19/06 …{Loading}…
अस्कन्दयन् ६
2/08/19/07 …{Loading}…
नापजहीत +++(सव्य-पाणिना पात्रम्)+++ ७
2/08/19/08 …{Loading}…
अपजहीत वा +++(प्राणाहुत्य्-ऊर्ध्वम्)+++८
2/08/19/09 …{Loading}…
कृत्स्नं ग्रासं ग्रसीत सहाङ्गुष्ठम् ९
2/08/19/10 …{Loading}…
न च मुख-शब्दं कुर्यात् १०
2/08/19/11 …{Loading}…
पाणिं च नावधूनुयात् ११
2/08/19/12 …{Loading}…
आचम्य चोर्ध्वौ पाणी धारयेद् आ प्रोदकी-भावात् +++(=शुष्कभावात्)+++ १२
2/08/19/13 …{Loading}…
ततो ऽग्निम् उपस्पृशेत् १३
2/08/19/14 …{Loading}…
दिवा च न भुञ्जीतान्यन् मूलफलेभ्यः १४
2/08/19/15 …{Loading}…
स्थालीपाक+++(दान-)++++अनुदेश्यानि +++(=देवपितृभ्यः सङ्कल्पितानि)+++ च वर्जयेत् १५
2/08/19/16 …{Loading}…
सोत्तराच्छादनश् चैव यज्ञोपवीती +++(=उत्तरीयं यज्ञोपवीतवत् कृत्वा)+++ भुञ्जीत १६
स्थालीपाक-श्राद्धम् पौष्टिकम्
2/08/20/03 …{Loading}…
उदगयन आपूर्यमाण-पक्षस्यैकरात्रम् अवरार्ध्यम् उपोष्य
तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा
महाराजम्+++(=कुबेरम्)+++ इष्ट्वा
तेन सर्पिष्मता ब्राह्मणं भोजयित्वा
पुष्ट्य्-अर्थेन सिद्धिं वाचयीत ३
2/08/20/04 …{Loading}…
एवम् अहर् अहर् आ परस्मात् तिष्यात् ४
2/08/20/05 …{Loading}…
द्वौ द्वितीये ५
2/08/20/06 …{Loading}…
त्रींस्तृतीये ६
2/08/20/07 …{Loading}…
एवं संवत्सरम् अभ्युच्चयेन ७
2/08/20/08 …{Loading}…
महान्तं पोषं पुष्यति ८
2/08/20/09 …{Loading}…
आदित एवोपवासः ९