दानम्

विधिः

2/04/09/08 …{Loading}…

सर्वाण्युदकपूर्वाणि दानानि ८

2/04/09/09 …{Loading}…

यथाश्रुति विहारे +++(=यागशालायाम्)+++९

2/08/20/18 …{Loading}…

योक्ता च धर्म-युक्तेषु द्रव्य-परिग्रहेषु च १८

2/08/20/19 …{Loading}…

प्रतिपादयिता च तीर्थे १९

द्रव्याणि

2/06/13/10 …{Loading}…

दानं क्रयधर्मश्चापत्यस्य न विद्यते १०

पत्नी-पात्रम्

2/06/14/16 …{Loading}…

जाया-पत्योर् न विभागो विद्यते १६

2/06/14/17 …{Loading}…

पाणिग्रहणाद्धि सहत्वं कर्मसु १७

2/06/14/18 …{Loading}…

तथा पुण्यफलेषु १८

2/06/14/19 …{Loading}…

द्रव्यपरिग्रहेषु च १९

2/06/14/20 …{Loading}…

न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेयमुपदिशन्ति २०

सन्दर्भः

2/06/15/12 …{Loading}…

देशतः +++(→तीर्थस्थानेषु)+++ कालतः +++(→ग्रहणादौ)+++ शौचतः +++(→कृच्छ्रादेर् अन्ते)+++ सम्यक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति १२

प्रतिग्रह-पात्रता

2/07/17/10 …{Loading}…

तुल्य-गुणेषु वयो-वृद्धः श्रेयान्,
द्रव्य-कृशश् चेप्सन् १०

2/08/20/18 …{Loading}…

योक्ता च धर्म-युक्तेषु द्रव्य-परिग्रहेषु च १८

2/08/20/19 …{Loading}…

प्रतिपादयिता च तीर्थे १९

2/08/20/20 …{Loading}…

+++(दानस्य नि)+++यन्ता चातीर्थे - यतो न भयं स्यात् २०

ब्राह्मण-भोजनम्

2/06/15/11 …{Loading}…

शुचीन् मन्त्रवतः सर्व-कृत्येषु भोजयेत् ११

अन्यत्रोक्तम्

भिक्षा-विचारः, प्रतिग्रह-निषेधः, महायज्ञो, वैश्वदेवम्, भोजनविधिः …।